| YouTube Channel

कुलायिनी (kulAyinI)

 
Spoken Sanskrit
English
कुलायिनी kulAyinI
f.
aviary
Monier Williams Cologne
English
कुलायिनी (इनी),
f.
an aviary,
Gal.
N.
of a liturgical service,
TāṇḍyaBr.
Lāṭy.
Comm. on
Nyāyam.
Wordnet
Sanskrit
Synonyms:
कुलायिनी
noun
एकः पूजाविधिः
"कुलायिनी लाट्यायनेन न्यायमालाविस्तरस्य टीकायाम् उल्लिखिता"
Synonyms:
कुलायिनी
noun
एकः पूजाविधिः
"कुलायिनी लाट्यायनेन न्यायमालाविस्तरस्य टीकायाम् उल्लिखिता"
वाचस्पत्यम्
Sanskrit
कुलायिनी स्त्री व्युत्पत्तिः मा० भाष्योक्ता त्रिवृत्स्तोमस्य वि-ष्टुतिभेदे तत्प्रकारादिकं ताण्ड्य० ब्रा० अ० दर्शितं यथा ।“अथ कुलायिनीं विष्टुतिन्दर्शयति” माधवभाष्यम्“तिसृभ्यो हिङ्करोति पराचीभिस्तिसृभ्यो हिङ्करोतिया मध्यमा सा प्रथमा, योत्तमा सा मध्यमा, या प्र-थमा सोत्तमा, तिसृभ्यो हिङ्करोति योत्तमा सा प्र-थमा, या प्रथमा सा मध्यमा, या मध्यमा सोत्तमा, कुलायिनी त्रिवृतो विष्टुतिः” ब्रा०“परिवर्त्तिन्याइव प्रथमः पर्य्यायः पराचीभिः द्वि-तीये पर्य्याये तृचस्य या मध्यमा ऋक् सा प्रथमाकार्य्या योत्तमा सा मध्यमा कार्य्या या प्रथमासोत्तमा कार्य्या तृतीयः पर्य्यायः निगदसिद्धः ।कुलायिनी कुलायो नीडं पक्षिणां निवासस्थानं त-द्यथा व्यस्ततृणादिनिर्म्मितम् एवं व्यत्यासयुक्ता ऋचःकुलायास्तैस्तद्वती कुलायिनी एतत्संज्ञा त्रिवृत्-स्तोमस्य विष्टुतिरियम्”“अस्यां विष्टुतौ कोऽधिकारीत्यत आह” भा०“प्रजाकामो वा पशुकामो वा स्तुवीत प्रजा वै कुलाय-म्पशवः कुलायङ्कुलायमेव भवति” ब्रा०“प्रजानाम्पशूनाञ्च कुलायवदवस्थितिहेतुत्वात् कुलाय-त्वेन स्तुतिः कुलायिन्या स्तुवानोऽपि प्रजानां पशू-नाञ्च कुलायमेव आश्रयभूतो भवत्येव” ।“पुनरप्यधिकारिविशेषं दर्शयति” भा०“एतामेवानुजावराय कुर्य्यादेव तासामेवाग्रं परिय-तीनां प्रजानामग्रम्पर्य्येति” ब्रा०“अनु पश्चाज्जायत इत्यनुजः कनीयान् सहि निकृष्टःतस्मादप्यवरो निकृष्टः अनुजावरस्तादृशाय यजमा-नायेति अग्रं परियतीनां लोके याः प्रजाः अग्रंवयोगुणादिभिः श्रेष्ठपदं परियन्ति परितो गच्छन्तिएतासामेव श्रैष्ट्यं परिगच्छन्तीनां प्रजानाम्मध्ये य-जमानः अग्रं श्रेष्ठं पदं पर्य्येति परिगच्छति सर्व्वो-त्कृष्टो भवतीत्यर्थः”“सत्रेष्वहीनेषु बहूनां यजमानानां फलसाम्यात्कुलायिनीं विधत्ते” भा०“एतामेव बहुभ्यो यजमानेभ्यः कुर्य्यात् यत्सर्वा अग्रियाभवन्ति सर्वा मध्या सर्वा उत्तमाः सर्वानेवैनान् समाव-द्भाजः करोति नान्योन्यमपघ्नते सर्वे समावदिन्द्रियाभवन्ति” ब्रा०“एतामेव कुलायिनीन्त्रिवृतो विष्टुतिं बहुभ्यो यज-मानेभ्यः उद्गाता कुर्य्यात् यत् यस्माद्धेतोः तृचगताःसर्वा ऋचः अग्रिया मुख्याः प्रथमा भवन्ति सर्वासुमध्ये वर्त्तमाना भवन्ति सर्वाश्चोत्तमा भवन्ति तद्यथाप्रथमे पर्य्याये प्रथमैव प्रथमा भवति मध्यमे तु मध्यमाप्रथमा भवति उत्तरे उत्तमा प्रथमा भवति एवंसर्वासां प्राथम्यं जातम् तथा प्रथमपर्य्याये मध्यमैवमध्यमा द्वितीये पर्य्याये उत्तमैव मध्यमा तृतीये पर्य्यायेप्रथमैव मध्यमा एवं सति तिस्रोऽपि मध्यमाः स-म्पन्नाः तथा प्रथमे पर्य्याये उत्तमोत्तमा भवति ।द्वितीये पर्य्याये प्रथमैवोत्तमा भवति तृतीये पर्य्यायेमध्यमैवोत्तमा भवति एवं सर्वा अप्युत्तमाः सम्पन्नाः ।यस्मादेताः सर्वा ऋचः समानरूपाः ततो हेतोरनयाविष्टुत्या सर्वानेवैनान् यजमानानुद्गाता समावद्भाजःसमावच्छब्दः समपर्य्यायः समं फलं भजन्त इति समा-वद्भाजः साम्येन फलभाजः करोति अतएव नान्यो-न्यमपघ्नते परस्परन्न हिंसन्ति तथा सर्वे यजमानाःसमावदिन्द्रियाः समावद्वीर्य्याः समानसामर्थ्या भवन्ति” ।“फलान्तरमाह” भा०“वर्षुकः पर्ज्जन्यी भवतीमे हि लोकास्तृ चस्तान्हिङ्कारेण व्यतिषजति” ब्रा०“लोकस्थानीयानां तिसृणामृचामादौ प्रयुक्तेनैके-नैव हिङ्कारेण व्यतिषञ्जनात् संयोजनात् त्रयाणांलोकानां परस्परमुपकार्य्योपकारकभावो वाधितइति पर्ज्जन्यो वर्षणशीलो भवतीत्यर्थः” ।“अस्यामपि विष्टुतौ बहुदोषाः सम्भवन्तीत्याह” भा०“पापवसीयसन्तु भवति” ब्रा०“तुशब्दः फलवैलक्षण्यद्योतनार्थः पापं प्रसिद्धं व-सीयः पुण्यं तदुभयमेकाश्रयं भवति इतरत् उद्य-तीवाक्यशषवत् व्याख्येयम् नञः भावोत्र विशेषः ।इत्थं विष्टुतयस्तिस्रो विहिताः, तिसृष्वपि तासु फल-विशेषश्रवणान्निन्दादर्शनाच्च समानफलत्वात्सर्वानित्याः, यत्र विशेषादेशः क्रियते निमित्तं वा कामो वा श्रूयतेततोऽन्यः नित्यः प्रयोगे आद्याभिरेताभिरेव स्तुतिभिःस्तोमसम्पादनं कार्य्यं, तदाह सून्नकृत् “प्रथमाभिर्वि-ष्टुतिभिः स्तोमविधानमनादेशे ताः पक्षाः सर्वाभिप्रा-याश्चेति” पुनरपि यथाशिषं वा विदध्यादित्यादिनाखण्डशेषेण बहवः पक्षाः सूत्रकृतोपन्यस्ताः ते तत्रैवबोद्धव्याः नन्वेतास्वपि प्रत्येकं निन्दादर्शनात् कथमासांनित्यत्वम् नैष दोषः, उद्यत्यान्तावत् यो दोष उक्तःअवर्षुकः पर्ज्जन्यो भवतीति, कुलायिनीपरिग्रहेपरिह्रियते यत्र हि वर्षुकः पर्ज्जन्यो भवतीत्या-म्नातम् यत्तु कुलायिन्यां दोषदर्शनं पापवसीयसन्तुभवत्यधरोत्तरमित्यादि तदुद्यतीप्रयोगेण विहृतं तत्रहि पापवसीयसो विधृतिरिति सा श्रूयते श्लक्ष्णेव तुपापवसीयसन्तु भवति” ।“अधरोत्तरमपावगतो रुध्यतेवगच्छत्यपरुद्धः पापीयाच्छ्रेयांसमभ्यारोहति जनता जनतामभ्येत्यन्योन्यस्यप्रजा आददते यथा क्षेत्रं कल्पन्ते” ब्रा०“प्रथमाया मध्यमायाश्चान्ते प्रयोग इति यदस्ति तदे-तदधरोत्तरमनुष्ठानं यस्मिन् देशे क्रियते तत्र वा ई-श्वरा पशून्निर्मृज इति परिवर्त्तिन्यां यदपशुलक्षणंदोषदर्शनं तदुद्यत्यां परिहृतं भवति एषा वै प्रति-ष्ठिता विष्टुतिरिति, तत्र हि वाक्यशेषः प्रजापशु-समृद्ध्या हि प्रतिष्ठितो भवतीति” ।एतत्सामयोनिः सूक्तविशेषः तत्पाठप्रकारः सामसंहिताभाष्य उक्तोयथा “सामगानामुत्तराग्रन्थेतृचात्मकानि सूक्तान्याम्नातानि यथा “उपान्मै गायतानर” इत्याद्यं सूक्तं “दविद्यतत्या ऋचा” इति द्वितीयं“पवमानस्य ते कव” इति तृतीयम्” तच्च उद्यतीशब्दे११८३ पृ० दर्शितम् एवमुद्यती विष्टुतिमुक्त्वा “एवंपरिवर्त्तिनी कुलायिनीति द्वे विष्टुती भवतः “इतिइत्युक्त्वा परिवर्त्तिन्या विष्टुतेः प्रकारमुक्त्वा कुलायिव्याःप्रकारकथनाय प्रागुक्तं ता० व्रा० वाक्यमुदाहृत्य व्याख्या-तम् अत्र प्रथमसूक्ते “पराचीभिः अनुक्रमेणाम्ना-ताभिः तेन पाठक्रमएव द्वितीये पर्य्याये मव्यमो-त्तमप्रथमाः तृतीयेतूत्तमाप्रथमामध्यमा इत्येवं व्य-त्यासेन” मन्त्राः (पूर्वोक्ताः) बोध्याः२ कुलाययुक्ते
त्रि०
“ऊर्ण्णावन्तं प्रथमः सीद योनिम् ।कुलायिनं घृतवन्तम् सवित्रे” ऋ० १५ १६ “कुलायिनंगुग्गुल्वादिसंभरणोपेतम् तथा श्रूयते “कुलायमिवह्येतद्यज्ञे क्रियते यत् पैतदारवाः परिधयो गुग्गुलूर्ण्णा-स्तुकासुगन्धितेजनानि” ऐत० ब्रा०” भा०