| YouTube Channel

कुलाचार (kulAcAra)

 
शब्दसागरः
English
कुलाचार
m.
(-रः) The proper duty or practice of a caste or family.
E.
कुल, and आचार observance.
Yates
English
कुला_चार (रः) 1.
m.
Family duty.
Wilson
English
कुलाचार
m.
(-रः) The proper duty or practice of a caste or family.
E.
कुल, and आचार observance.
Monier Williams Cologne
English
कुलाचार
m.
the peculiar or proper duty of a family or caste.
Apte Hindi
Hindi
कुलाचारः
पुं*
कुलम्-आचारः -
किसी परिवार या जाति का विशेष कर्तव्य या रिवाज
Shabdartha Kaustubha
Kannada
कुलाचार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕುಲಧರ್ಮ /ಮನೆತನದಲ್ಲಿ ಆಚರಿಸಲ್ಪಡುವ ಧರ್ಮ
व्युत्पत्तिः - > कुलस्याचारः
कुलाचार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜೀವ ಪ್ರಕೃತಿತತ್ತ್ವ ದಿಕ್ಕು ಕಾಲ ಆಕಾಶ ಕ್ಷಿತಿ ಅಪ್ಪು ತೇಜಸ್ಸು ವಾಯು ಇವುಗಳಲ್ಲಿ ಬ್ರಹ್ಮಬುದ್ಧಿಯಿಂದ ಮಾಡುವ ಧ್ಯಾನ
प्रयोगाः - > "जीवः प्रकृतितत्त्वं दिक्कालाकाशमेव क्षित्यप्तेजोवायवश्च कुलमित्यभिधीयते ब्रह्मबुद्ध्या निर्विकल्पमेतेष्वाचरणं यत् कुलाचारः एवोक्तो धर्मकामार्थमोक्षदः ॥"
L R Vaidya
English
kula-AcAra {% m. %} a duty or custom particular to a family or caste.
वाचस्पत्यम्
Sanskrit
कुलाचार
पु०
त० कुलोचिते धर्म्मे “जीवः प्रकृतितत्त्वञ्चदिक्कालाकाशमेव क्षित्यप्तेजीवायवश्च कुलमित्यभि-धीयते ब्रह्मबुद्ध्या निर्विकल्पमेतेष्व चरणञ्च यत् ।कुलाचारः एवोक्तो धर्म्मकामार्थमोक्षद” इत्युक्तरूपेसर्व्वत्र ब्रह्मदृष्टिसाधके ज्ञानभेदे तन्त्रोक्ते आचारभेदे तन्त्रसारे तदाचारप्रकारो दर्शितो यथा“कालीतन्त्रे “अथाचारं प्रवक्ष्यामि यत्कृतेऽमृत-मश्नुते सर्व्वभूतहिते युक्तः समयाचारपालकः अ-नित्यकर्म्मसंत्यागी नित्यानुष्ठानतत्परः मन्त्राराधनमात्रेण शिवभावेन तत्परः परस्यान्देवतायान्तु सर्व-कर्म्मनिवेदकः अन्यमन्त्रार्च्चनश्रद्धा अन्यमन्त्रप्रपू-जनम् कुलस्त्रीवीरनिन्दाञ्च तद्द्रव्यस्यापहारणम् ।स्त्रीषु रोषं प्रहारञ्च वर्ज्जयेन्मतिमान् सदा स्त्रीमयञ्चजगत् सर्वं स्वयंभूवत् तथा भवेत् पेयञ्चर्व्यं तथाचोष्यं भक्ष्यं लेह्यं गृहं सुखम् सर्व्वञ्च युवतीरूपंभावयेन्मतिमात् सदा कुलजां युवतीं वीक्ष्य न-मस्कुर्य्यात् समाहितः यदि भाग्यवशाद्देवि! कुलदृष्टिःप्रजायते तदैव मानसीं पूजां तत्र तासां प्रकल्पयेत्” ।तासां भगादिदेवीनाम् तास्तु “भगिनीं भगचिन्ताञ्चभगास्यां भगमालिनीम् भगदत्तां भगाङ्गाञ्च भगकर्ण्णांभगत्वचाम् भगनासां भगस्तनीं भगस्थां भगसर्पि-णीम् संपूज्य ताभ्योगन्धाद्यै र्मानसैर्गुरुमेव नम-स्कृत्य पुमानेवं क्षमखेति ततः सुधीः वालां वा यौव-नोन्मत्तां वृद्धां वा सुन्दरीं तथा कुत्सितां वा महा-दुष्टां नमस्कृत्य विभावयेत् तासां प्रहारं निन्दाञ्चकौटिल्यमप्रियन्तथा! सर्वथा कुर्य्यात्तु चान्यथा-सिद्धिरोधकृत् स्त्रियोदेवाः स्त्रियः प्राणास्त्रियश्चैवविभूषणम् स्त्रीसङ्गिना सदा भाव्यमन्यथा स्वस्त्रियाअपि विपरीतरता सा तु भविता हृदयोपरि तद्ध-स्तारचितं पुष्पं तद्धस्तारचितं जलम् तद्धस्तारचितं द्रव्यंदेवताभ्यो निवेदयेत् स्त्रीद्वेषो नैव कर्त्तव्यो विशेषात्पूजनं महत् जपस्थाने महाशङ्खं निवेश्योर्द्धं जप-ञ्चरेत् स्त्रियं गच्छन् स्पृशन् पश्यन् विशेषात् कुलजांशुभाम् भक्ष्यं ताम्बूलमन्यच्च भक्षद्रव्यं यथा-रुचि भक्त्याप्यशेषभक्ष्याणि भुक्त्वा शेषं जपञ्चरेत्” ।कालीतन्त्रे “दिक्कालनियमोतात्र स्थित्यादिनियमोनच जपे कालनियमोनार्चादिषु वलिष्वपि स्वेच्छा-नियम उक्तश्च महामन्त्रस्व साधने वस्त्रास्तरस्थानदेहागारपुष्पादिवारिणः शुद्धिं नचाचरेत्तत्र नि-र्व्विकम्पं मनश्चरेत्” कुलार्ण्णवे “कुलाचारगृह-ङ्गत्वा भक्त्या पापविशुद्धये याचयेदमृतं कौलं तद-भावे जलं पिबेत् कुलाचारेण यद्दत्तं कृत्वा पात्रेणभक्तितः ममस्कृत्य गृह्णीषादन्यथा नरकं व्रजेत्” ।अन्यत्रापि “न वृथा गमयेत् कालं द्यूतक्रीडादिना सुधीः ।गमयेद्देवतापूजाजपयामस्तवादिना वीराणां जप-यज्ञस्तु सर्वकाले प्रशस्यते सर्वदेशे सर्वपीठे कर्त्तव्योनात्र संशयः” शिवागमे “शक्तिः शिवः शिवः शक्तिःशक्तिर्ब्रह्मा जनार्द्दनः शक्तिरिन्द्रो रविः शक्तिः शक्ति-श्चन्द्रो ग्रहा ध्रुवम् शक्तिरूपं जगत् सर्वं योन जानातिनारकी” वीरतन्त्रे “स्नानादि मानसं शौचं मानसंप्रवरोजपः मानसं पूजनं दिव्यं मानसन्तर्पणादिकम् ।सर्व्व एव शुभः कालो नाशुभोविद्यते क्वचित् वि-शेषोदिवा रात्रौ सन्ध्यायान्तथा निशि सर्वदा पूज-येद्देवीमस्नातः कृतभोजनः महानिश्यशुचौ देशे वलिंमन्त्रेण दापयेत्” यत्तु “रात्रायेव महापूजा कर्त्तव्या-वीरन्दिवते! दिने सर्व्वथा कार्य्या शासनान्ममसुब्रते”! तत् पुनः कुलदेवताविषये महानिशा तु तत्रैव“अर्द्धरात्रात् परं यच्च मुहूर्त्तद्वयमेव सा महारात्रि-रुदिष्टा तद्दत्तमक्षयन्तु वै” गान्धर्व्वे, “पृथ्वीमुतुमतींवीक्ष्य सहस्रं यदि नित्यशः तदा वादी स्वसिद्धान्तहतःक्षितितलं विशेत्” “पर्व्वते हस्तमारोप्य निर्भयोयत-मानसः कवितां लभते सोऽपि अमृतत्वञ्च गच्छति” ।अत्रापि सहस्रमिति सम्बन्धः पृथ्वीं स्त्रियं, नित्यशइति शोडशदिनं यावत् पर्वतं स्तनम् अन्यच्च नी-लतन्त्रे “पद्मं दृष्ट्वा तथा विम्बं खञ्जनं शिखरन्तथा ।चामरं रविविम्बञ्च तिलपुष्पं सरोरुहम् त्रिशूलंवीक्ष्य जप्त्वा शतशः शुद्धभावतः सुसुखं प्रसादं सुखंसुलोचनं सुहास्यकम् सुवेशं सुगतिं गन्धं सुगन्धं सुखमेव लभते यथासंख्यं शृणु पार्वति! सादरम्” ।पद्मं मुखं, विम्बमधरं, खञ्जनञ्चक्षुः, शिखरं मस्तकं, चामरंकेशं, रविविम्बं सिन्दूरं, तिलपुष्पं नासिकां, सरोरुहं नाभिं, त्रिशूलं त्रिवेणीम्, सादृश्यत्वात् भावचूडामणौ “एकाकीनिर्जने देशे श्मशाने विजने वने शून्यागारे नदीतीरेनिःशङ्कोविहरेत् सदा महाचीनद्रुमे देवीं ध्यात्वातत्र प्रपूजयेत् तद्द्रुमोद्भवपुष्पेण पूजयेद्भक्तिभावतः ।स भवेत् कुलदेवश्च कुलद्रुमगतः शुचिः ब्रह्मतरोर्म्महा-पीठे देवीं ध्यात्वा यथाविधि तत्सुधारसधारेण तर्प-येन्मापृकाननम् महाचीनद्रुमलतावेष्टितः साधको-त्तमः रात्रौ यदि जपेन्मन्त्रं सवै कल्प द्रु मोभवेत् ति-थिक्रमेण संख्याभिर्लताभिर्वेष्टितो यदि तदा मासेनसिद्धिः स्यात् सहस्रजपमानतः अष्टम्याञ्च चतुर्द्दश्यांद्विगुणं यदि दृश्यते तत्रैव महती सिद्धिर्द्देवतानांसुदुर्लभा” कुलचूडामणौ “शृणु पुत्र! रहस्यं मे सम-याचारसम्भवम् येन हीना सिध्यन्ति जन्मकोटि-सहस्रतः मानवः कुलशास्त्राणां कुलचर्य्यानुचारिणाम् ।उदारचित्तः सर्वत्र वैष्णवाचारतत्परः परनिन्दासहिष्णुःस्यादुपकाररतः सदा पर्वते विपिने वापि निर्ज्जने शू-न्यमण्डपे चतुष्पथे कला(स्त्री)मध्ये यदि दैवाद्गतिर्भ-वेत् क्षणं स्थित्वा मनुंजप्त्वा नत्वा गच्छेद्यथासुखम् ।गृध्रं वोक्ष्य महाकालीं नमङ्कुर्य्यादलक्षितम् क्षेमङ्करींतथा वीक्ष्य जम्बुकीं यमदूतिकाम् कुस्वरश्येनभूकाकौकृष्णमार्ज्जारमेव च” दृष्ट्वा नमङ्कुर्य्यादिति शेषः मन्त्रस्तु“कृशोदरि! महाचण्डे! मुक्तकेशि! वलिप्रिये! ।कुलाचारप्रसन्नास्ये! नमस्ते शङ्करप्रिये! श्मशानञ्चशवं दृष्ट्वा प्रदक्षिणमनुव्रजन् प्रणम्यानेन मनुना मन्त्रीसुखमवाप्नुयात् घोरदंष्ट्रे! करलास्ये! किटिशब्दनि-नादिनि! घोरघोरवास्फाले! नमस्ते! चितिवासिनि! ।रक्तवस्त्रं तथा पुष्पं विलोक्य त्रिपुरां तथा ।प्रणमेद् दण्डवद्भूमौ इमं मन्त्रं पठेन्नरः बन्धू-कपुष्पसङ्काशे त्रिपुरे! भयनाशिनि! भाग्योदयसमुत्-पन्ने! नमस्ते वरवर्ण्णिनि! कृष्णवर्ण्णं तथा पुष्पंराजानं राजपूरुषम् हस्त्यश्वरथशस्त्राणि फलकान् वी-रपूरुषान् महिषं कुलदेवञ्च दृष्ट्वा महिषमर्द्दिनीम् ।प्रणम्य जयदुर्गां वा विघ्नैर्न्नलिप्यते जय!देवि! जगद्धात्रि० ! त्रिवुराद्ये! त्रिदैवते! भक्तेभ्योवरदे!देवि! महिषघ्नि! नमोऽस्तु ते मद्यभाण्डंममालोक्य मत्स्यं मांसं वरस्त्रियम् दृष्ट्वा चभैरवीं देवीं प्रणम्य विमृषेन्मनुम् घोरविघ्नविनाशायकुलाचारसमुद्भये! नमामि! वरदे! देवि! कुण्डलाभ्यांविभूषिते! रक्तधारासमाकीर्ण वदने! त्वां नमाम्यहम् ।सर्वविघ्नहरे! देवि! नमस्ते हरवल्लभे! एतेषां दर्शनेचैव यदि नैवं प्रकुर्वते शक्तिमन्त्रं षुरस्कृत्य तस्यसिद्धिर्न्न जायते” तथा कुलचूडामणौ “कुलवारे कुला-ष्टम्यां चतुर्दश्यां विशेषतः योगिनीपूजनन्तत्र प्रधानंकुलपूजनम् यथा विष्णुतिथौ विष्णुः पूजितो वा-श्छितप्रदः तथा कुलतिथौ दुर्गा पूजिता वरदायिनी ।कुलवारादिनियमोजामले “वरिश्चन्द्रो गुरुः सौरिश्च-त्वारश्चाकुलाइमे भौमशुक्रौ कुलाख्यौ हि बुधवारःकुलाकुलः द्वितीया द्वादशी षष्ठी कुलाकुलमुदाहृतम् ।विषमा श्चाकुलाः सर्व्वाः शेषाश्च तिथयः कुलाः”विषमाः प्रतिपत् तृतीया पञ्चमी सप्तमी नवमी एका-दशी त्रयोदशी पञ्चदशी चकुलाख्या तद्भिन्नाः सर्व्वाःशेषाश्च तिथयः कुलाः “वारुणार्द्राभिजिन्मूलं कुला-कुलमुदाहृतम् कुलानि समधिष्ण्यानि शेषाणि चकुलानि तत्फलमाह तत्रैव “तिथिवारे नक्षत्रेचाकुले स्थायिनो भयम् कुलाख्ये जयिनो नित्यंसाम्यञ्चैव कुलाकुले” एवं कुलवारादिकं ज्ञात्वा साधकःकर्मकुर्य्यात्” विवृतिश्च आगमे दृश्या