| YouTube Channel

कुलाकुलचक्र (kulAkulacakra)

 
Aufrecht Catalogus Catalogorum
English
कुलाकुलचक्र tantr. AS p. 32. CS 5, 13 (inc.).
वाचस्पत्यम्
Sanskrit
कुलाकुलचक्र
न०
कुलञ्च अकुलं कुलाकुलम् तर्योविचारार्थंचक्रम् तन्त्रोक्ते ग्राह्यमन्त्रस्य शुभाशुभताज्ञानार्थेचक्रभेदे तद्विवृतिः तन्त्रसारे“कुलाकुलस्य भेदं हि वक्ष्यामि मन्त्रिणामिह” इत्यु-क्रम्य निबन्धे “वाय्वग्निभूजलाकाशपञ्चाशल्लिपयः क्रमात् ।पञ्च ह्रस्वाः पञ्च दीर्घा विन्द्वन्ताः सन्धिसम्भवाः (यादया) ।कादयः पञ्चशः षक्षलसहान्ताः समीरिताः” ।अ एकचटतपयषा मारुताः फरक्षा आग्नेयाः बललाः पा-र्थिवाः वसा वारुणाः ऌॡ अं नमशहा नाभसाः “साधकस्याक्षरंपूर्व्वं मन्त्रस्यापि तदक्षरम् यद्येकभूतदैवत्यं जानी-यात् स्वकुलं हि तत् भौमस्य वारुणं मित्रमाग्ने-यस्यापि मारुतम् मारुतं पार्थिवानाञ्च शत्रुराग्नेय-मम्भसाम्” चकारादाग्नेयं पार्थिवानां शत्रुः त-थाच रुद्रयामले “पार्थिवे वारुणं मित्रं तैजसं शत्रु-रीरितः ऐन्द्रवारुणयोः शत्रुर्मारुतं प्रकीर्त्तितः ।नाभसं सर्वमित्रं स्यात् विरुद्धे नैव शीलयेत् मित्रेसिद्धिः समाख्याता उदासीने किञ्चन मृत्युर्व्या-धिरमित्रे स्वकुले सिद्धिरुत्तमा”