| YouTube Channel

कुलसत्र (kulasatra)

 
वाचस्पत्यम्
Sanskrit
कुलसत्र
न०
कुलैः कुलजैरनुष्ठेयं सत्रम् पित्रादिक्रमेणा-नुष्ठये सहस्रवर्षसाष्ये कार्ष्णाजिनिमतसिद्धे सत्रभेदे तच्चकात्या० श्रौ० १, ६, २३, दर्शितं यथा“कुलसत्रमिति कार्ष्णाजिनिः” सू० “कार्ष्णाजिनि र्मुनि-रित्याह एवं कथयति यत् कुलसत्रमेतत् सहस्रसंवत्-सरं भवति कुलस्य पितृपुत्रपौत्रप्रपौत्रतत्पुत्रादिरूपस्यवंशस्येतत्भवति त्वेकस्य कस्यचित् असम्भवात् मनु-ष्याधिकारं चैतत् प्रारब्धं चावश्यं समापनीयं नचैकःशक्नोति समापयितुमिति यथा शक्यते तथा समापनीयमिति गम्यमाने ये वहवस्ते शक्नुवन्ति तेन तत्कुलीनाःक्रमेण कैश्चिदारब्धं कैश्चिन्मध्येऽनुष्ठितं केचित् समा-पयिष्यन्तीत्येवं कुलसत्रं कार्ष्णागिनिमन्यते” कर्कः वर्षशब्दस्य दिनपरत्व कल्पनेन कात्यायनेनेदं दूषितम्