| YouTube Channel

कुलनाशन (kulanAzana)

 
Apte Hindi
Hindi
कुलनाशन
वि* कुलम्- नाशन -
परिवार को नष्ट करने वाला
वाचस्पत्यम्
Sanskrit
कुलनाशन
न०
कुलं नाशयत्यनेन नश--णिच्--करणे ल्युट् ।वंशध्वंससाधने “मुसलं कुलनाशनम् यथा मु-सलेन वृष्णिप्रभृतिकुलनाशनं तथा भा० सौ० अ० उक्तं यथा“विश्रामित्रञ्च कण्वञ्च नारदञ्च तपोधनम् सारणप्रमुखावीरा ददृशुर्द्वारकां गतान् ते तान् शाम्बं पुरस्कृत्यभूषयित्वा स्त्रियं यथा अव्रुवन्नुपसङ्गम्य दैवदण्डनि-पीडिताः इयं स्त्री पुत्रकामस्य बभ्रोरमिततेजसः ।ऋषयः साधु जानीत किमयं जनयिष्यति इत्युक्तास्तेतदा राजन् विप्रलम्भप्रधर्षिताः प्रत्युब्रुवस्तान्मुनयोयत्तच्छृणु नराधिप! वृष्ण्यन्धकविनाशाय मुसलं वोर-मायसम् वासुदेवस्य दायादः शाम्बोऽयं जनयिष्यति ।येन यूयं सुदुर्वृत्ता नृशंसा जातमन्यवः उच्छेत्तारःकुलं कृत्स्नमृते रामजनार्द्दनौ समुद्रं यास्यति श्री-मांस्त्यक्त्वा देहं हलायुधः जरा कृष्णं महात्मानंशयानं भुवि भेत्स्यति इत्यब्रुवंस्ततो राजन्! प्रल-ब्धास्तैर्दुरात्मभिः मुनयः क्रोधरक्ताक्षाः सभीक्ष्याथ प-रस्परम् तथोक्त्वा मुनयस्ते तु ततः केशवमभ्ययुः अथा-ब्रवीत्तदा वृष्णीन् श्रुत्वैवं मधुसूदनः अन्तज्ञो मतिमां-स्तस्य भवितव्यं तथेति तान् एवमुक्त्वा हृषीकेशः प्रवि-वेश पुरन्तदा कृतान्तमन्यथा नैच्छत् कर्त्तुं जगतःप्रभुः श्वोभूतेऽथ ततः शाम्बो मुसलं तदसूत वै येनवृष्ण्यन्धककुले पुरुषा भस्मभात्कृताः वृष्ण्यन्धकविना-शाय किङ्करप्रतिमं महत् असूत शापजं घोरं तच्चराज्ञे न्यवेदयन् विषण्णरूपस्तद्राजा सूक्ष्मं चूर्णमकार-यत् तच्चूर्णं सागरे चापि प्राक्षिपन् पुरुषा नृप!”चूर्णीकृतस्य तर्स्यसमुद्रे एरकाभावमुक्त्वा एरकाभूतेनसुसलेन अ० परस्परनाशोवर्णितः यथा“ते तु पानमदाविष्टाश्चोदिताः कालधर्मणा युयुधान-मथाभ्यघ्नन्नुच्छिष्टैर्भाजनैस्तदा हन्यमाने तु शैनेयेक्रुद्धो रुक्मिणिनन्दनः तदनन्तरमागच्छन्मोक्षयिष्यतशिनेः सुतम् भोजैः सह संयुक्तः सात्यकिश्चान्धलैःसह व्यायच्छमानौ तौ वीरौ बाहुद्रविणशालिनौ ।बहुत्वान्निहतौ तत्र उभौ कृष्णस्य पश्यतः हतं दृष्ट्वातु शैनेयं पुत्रञ्च यदुनन्दनः एरकाणान्तदा मुष्टिकोपाज्जग्राह केशवः तदभून्मुसलं घोरं वज्रकल्पम-योमयम् जघान कृष्णस्तांस्तेन ये ये प्रमुखतोऽभवन् ।ततोऽन्धकाश्च भोजाश्च शैनेया वृष्णयस्तथा जघ्नुरन्यो-न्यमाक्रन्दे मुसलैः कालचोदिताः यस्तेषामेरकां कश्चि-ज्जग्राह कुपितो नृष! वज्रभूतेव सा राजन्नदृश्यत तदाविभो तृणञ्च मुसलीभूतमपि तत्र व्यदृश्यत ब्रह्मदण्ड-कृतं सर्वमिति तद्विद्धि पार्थिव! अविध्यन् विध्यते रा-जन्! प्रक्षिपन्ति स्म यत्तृणम् तद्वज्रभूतं मुसलं व्यदृश्यततदा दृढम् अबधीत् पितरं पुत्रः पिता पुत्रञ्च भारत! ।मत्ताः परिपतन्ति स्म योधयन्तः परस्परम् पतङ्गा इवचाग्नौ ते निपेतुः कुकुरान्धकाः नासीत् पलायने बुद्धि-र्बध्यमानस्य कस्यचित् तत्रापश्यन्महाबाहुर्ज्जानन् का-लस्य पर्य्ययम् मुसलं मभवष्टभ्य तस्थौ मधुसूदनः ।शाम्बञ्च निहतं दृष्ट्वा चारुदेष्णञ्च सान्वयम् प्रद्युम्नञ्चा-निरुद्धञ्च ततश्चुक्रोध माधवः गदं वीक्ष्य शयानञ्च भृशंकोपसमन्वितः निःशेषं तदा चक्रे शार्ङ्गचक्रगदा-धरः तं निघ्नन्तं महातेजा बभ्रुः परपुरञ्जयः ।दारुकश्चैव दाशार्हमूचतुर्यन्निबोध तत् भगवन्निहताःसर्वे त्वया भूयिष्ठशो नराः रामस्य पदमन्विच्छ तत्रगच्छाम यत्र सः ।” भावे ल्युट् वंशनाशने