कुलकुण्डलिनी (kulakuNDalinI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritकुलकुण्डलिनी (कुले कुलचक्रे पृथिवीतत्त्व-रूपेमूलाधारे कुण्डलाकृत्या सार्द्ध-त्रिवलयाकारेण स्वयम्भुलिङ्गं वेष्टयित्वा तिष्ठतीति ।कुल + कुण्डलिन् + ङीप् । कुण्डल + ङीष् । यद्वाकौ पृथिवीतत्त्वाधारे मूलाधारे इत्यर्थः लीयतेइति । कु + ली + अन्येभ्योपीति डः । ततः कर्म्मधारयः ।) मूलाधारपद्मस्थितशिवशक्तिविशेषः ।यथा । पूर्णानन्दकृतषट्चक्रप्रकाशः ।
कुलकुण्डलिनी (कुले कुलचक्रे पृथिवीतत्त्व-रूपे मूलाधारे कुण्डलाकृत्या सार्द्ध-त्रिवलयाकारेण स्वयम्भुलिङ्गं वेष्टयित्वा तिष्ठतीति ।कुल + कुण्डलिन् + ङीप् । कुण्डल + ङीष् । यद्वाकौ पृथिवीतत्त्वाधारे मूलाधारे इत्यर्थः लीयतेइति । कु + ली + अन्येभ्योपीति डः । ततः कर्म्मधारयः ।) मूलाधारपद्मस्थितशिवशक्तिविशेषः ।यथा । पूर्णानन्दकृतषट्चक्रप्रकाशः ।“कूजन्ती कुलकुण्डली च मधुरं मत्तालिमालास्फुटंवाचः कोमलकाव्यबन्धरचनाभेदातिभेदक्रमैः ।श्वासोच्छ्वासविवर्त्तनेन जगतां जीवो यया धार्य्यतेसा मूलाम्बुजगह्वरे विलसति प्रोद्दामदीप्तावली” ॥
कूजन्तीति । सा मूलाम्बुजगह्वर इत्यादि व्या-ख्यातम् । कीदृशी कोमलकाव्यबन्धरचनाभेदा-तिभेदक्रमैः कोमला कमनीयत्वविशिष्टा या काव्य-बन्धरचना तस्याः भेदातिभेदक्रमैः भेदातिशयभेद-क्रमैर्व्विशिष्टा वाचः मत्तालिमालास्फुटं मत्ता याअलिमाला भ्रमरसमूहस्तद्वदस्फुटं यथा स्यात्एवं मधुरं यथा स्यात् तथा कूजन्ती अव्यक्त-मधुरध्वनिं कुर्व्वन्तीत्यर्थः । सा का इत्याकाङ्क्षा-यामाह यथा कुलकुण्डलिन्या श्वासोच्छ्वासविवर्त्त-नेन श्वासोच्छ्वासयोः परिवर्त्तनेन गमनागमनेनजगतां संसाराणां जीवः प्राणो धार्य्यते । पुनःकीदृशी प्रोद्दामदीप्तावली प्रकृष्टोत्तुङ्गदीप्ति-श्रेणीस्वरूपा । तथा च मूलाधारपद्मे सर्पाकार-सार्द्धत्रितयवेष्ठनविशिष्टा विद्युत्समूहरूपा कुल-कुण्डलिनी तिष्ठतीत्यर्थः । इति तट्टीका ॥
* ॥
अन्यत् चक्रशब्दे मूलाधारशब्दे षट्चक्रशब्दे चद्रष्टव्यम् ॥
वाचस्पत्यम्
Sanskritकुलकुण्डलिनी स्त्री कौ पृथिवीतत्त्वाधारे मूलाधारे लीयतेली--ड कर्म्म० । तन्त्रोक्ते मूलाधारे सर्पीवदवस्थितेशिवशक्तिभेदे कुलकुण्डलीत्यप्यत्र स्त्री । तत्स्वरूपा-दिकं शारदायामुक्तम् यथा “ततश्चैतन्यरूपा सा सर्व्वगाविश्वरूपिणी । शिवसन्निधिमासाद्य नित्यानन्दगुणो-दया । दिक्कालाद्यनवच्छिन्ना सर्व्ववेदार्थगा शुभा ।परापरविभागेन परशक्तिरियं स्मृता । योगिनां हृद-याम्भोजे नृत्यन्ती नित्यमञ्जसा । आधारे सर्व्वभूतानांस्फुरन्ती विद्युदाकृतिः । शङ्खावर्त्तक्रमाद्देवी सर्व्वमा-वृत्य तिष्ठति । कुण्डलोभूतसर्पाणामङ्गश्रियमुपेयुषी ।गुणिता सर्व्वगात्रेषु कुण्डली परदेवता । विश्वात्मना प्र-बुद्धा सा सूते मन्त्रमयं जगत् । सर्व्वदेवमयी देवी सर्वमन्त्रमयी शिवा । सर्वतत्त्वमयी सालात् सूक्ष्मा सूक्ष्म-तरा विभुः । त्रिधामजननी देवी सोमसूर्य्याग्निरूपिणी ।त्रिभेदनेजसां कर्त्री शब्दब्रह्मस्वरूपिणी । द्विचत्वारिंश-द्वर्ण्णामा पञ्चाशद्वर्ण्णरूपिणी” । विवृतमेतत् पदार्थादर्शेराघवभट्टेन यथा “कुण्डलिनोत उत्पत्तिमाह तत-श्चैतत्येति । तदुक्तं “मूलाधारात् प्रथममुदितोयस्तुशब्दः पराख्यः पश्चात् पश्यन्त्यघ हृटयगोबुद्धियुग्मध्यमाख्यः । वक्त्रे वैखरर्य्यथ रुरुदिषोरस्य जन्तोःसुषुम्णाबद्धस्तस्माद्भवति पवनप्ररितोवर्णसंघः” । ततःशरीरोत्पत्त्यनन्तरं चैतन्यरूपा अतएव शब्दब्रह्मयीसा देवी कुण्डली परदेवता सर्वगात्रेण गुणिता अतएवविश्वात्मना सर्वात्मना प्रबुद्धा जातप्रबोधा मन्त्रमयंजगत् सूत इति दूरेण सम्बन्धः । तत्र मूलाधारे कु-ण्डलीभूतसर्पवन्नाडीवर्त्तते तन्मध्ये वायुवशादस्याः स-ङ्करणमेव गुणनम् । चैतन्यरूपेति स्वरूपाख्यानं साप्रसिद्धा सर्वमावृत्य तिष्ठतीत्यनेन कर्त्तृव्याप्तिर्दर्शिता विश्व-रूपिणीत्यनेन विषयव्याप्तिः । शिवसन्निधिमासाद्य स्थि-तेति शेषः अनेन शैवसिद्धान्ते शक्तिशब्दवाच्येयमि-त्युक्तं सन्निधिशब्दोऽप्यौपचारिवः तन्मते शिवशक्त्योर-भेदात् तदुक्तमभिनवगुप्तपादाचार्य्यैः “शक्तेश्च शक्ति-मद्रूपाद्व्यतिरेकंन वाच्छति । तादात्म्यमनयोर्नित्यं वह्नि“हनयोरिव” । यद्वा सम्पस्यङ्निधिस्वरूपं शिवस्वरूपंप्राप्येत्यर्थः वक्ष्यति च “पिण्डम्भवेत् कुण्डलिनी शिवा-त्मेति” गुणानां सत्वरजस्तमसामुदयोयस्याः सा नित्या-नन्दा चासौ गुणोदया च सा नित्यानन्दगुणोदया तेनकुण्डलिनीस्वरूपमुक्त गुणोदयेत्यनेन साङ्ख्यमते प्रकृतिवाच्येयमित्युक्तं यदाहुः “प्रधानमिति यामाहुर्या शक्ति-रिति कथ्यते” इति इदानीमध्यात्माधिभूताधिदैवादिविषयादिज्योतिषक्रमेण तस्या व्याप्तिमाह दिक्वालेतिसर्व्वदेहानुगेति देहव्याप्तिः परापरविभागेन काचन पराशक्तिः काचनापरा तद्विभागेनापीयं परशक्तिरेव यदाहुः“भूमिरापोऽनलोवायुः खंमनोबुद्धिरे व च । अहङ्कारइतीयं मे भिन्ना प्रकृतिरष्टधा । अपरेयमितस्त्वन्यां प्रकृतिंविद्वि मे पराम् जीवभूतां महावाहो । ययेदं धार्प्यतेजगत्” (गीता) । यद्वा परः स्थूलः अपरः महास्थूलःमहदादिः तद्विभागेन परशक्तिः स्थूला शक्तिः स्थूलात्-स्थूलेत्युक्तेः । अनेन महदादिव्याप्तिः यद्वा सव्व देहानुगेत्य-नेन प्राकृतशब्दतोर्थ तश्व पुंस्त्रीनपुं सकलिङ्गव्याप्तिर्द्दर्शितशब्दतो यथा शिव इत्युच्यते कण्डलिनीत्युच्यते प्रधानमितिएवंभूतापि सा स्त्रीत्वेनैव निर्द्दिश्यत इव्याह परापरेतिपरा पुंप्रकृतिः अपरं नपुंसकप्रकृतिस्तद्विभागेन इयंपरशक्तिःस्मृता अयमर्थः यद्यपि लिङ्गत्रयवाच्या तथापितूर्णमेवाचलभक्तिभारपरिश्रान्तमक्तजनसमस्ताकाङ्क्षाक-ल्पबल्ली परशक्तिषब्दवाच्येति । अत एव शुभा रमणी-या यदाहुराचार्य्याः” पुंनपुंसकयोस्तुल्याप्यङ्गनायां वि-शिष्यत” इति नित्यक्लिन्नाम्नायेऽपि “सर्व्वत्रावच्छिता-प्येषा कामिनीषु विशेषतः । प्रकाशते ततस्तासामतिवृत्तिंन कारयेदिति” अञ्जसा तत्त्वं न योगिनां हृदयाम्भोजेनृत्यन्तीत्यस्य तैरेव गुरूपदेशेन ज्ञायते इत्यर्थः । “दृश्यातैरेव सा देवी सदा देशकदेशितैरित्युक्तेः सर्वभूतानाम् आधारेमूलाधारचक्रे स्फुरन्ती अनेन स्थाननिर्देशः विद्युदाकृति-रित्यनेन ध्यानमुक्तं यदाहुः “तडित्कोटिप्रख्यां स्वरुचि-जितकालानलरुचिमिति” अथ बानेन अनेकशब्दोत्-पत्तिहेतुत्वेनानेकधा भवतीत्युक्तं ङ्खमध्ये य आवर्त्तःस यथा शङ्खमध्यमावृत्य तिष्ठति तद्वदियमपि देवीत्यर्थः ।इदमवान्तरवाक्यं भिन्नमेव शङ्खेति कुण्डलीत्यनयोर्हेतुहेतुमद्भावेन योजना । कुण्डलीभूता कुण्डलाकारतांप्राप्ता ये सर्पा तथाभूता । केचन कुण्डलीति भिन्नं पदंवर्णयन्ति भूतानि सर्पाश्च ते यथा कुटिलगतयस्तद्वदिय-मपीत्यर्थः इति तत्र कुण्डली परदेवतेत्यनेन पुनरुक्तिः ।सर्व्वदेवमयीति देवव्याप्तिः दीव्यतीति देवी तेजोरूपेत्यर्थःअनेन तेजोव्याप्तिः । सर्वमन्त्रमयीति मन्त्रव्याप्तिः । शिवाशिवरूपेत्यर्थः यद्वा शिवा कल्याणरूपा । साक्षात् सर्व-तत्त्वमयीति तत्त्वव्याप्तिः । सूक्ष्मा सूक्ष्मतरा विमुरितिविरोधः परिहारस्तु सूक्ष्मा स्वरूपतः सूक्ष्मतरा दुर्ज्ञानायद्वा सूक्ष्मात् त्रसरेणोरपि सूक्ष्मतरा अणुतरा अनेनाण्वादिव्याप्तिर्द्दर्शिता तदुक्तं “बालाग्रस्य सहस्रधा वि-दलितस्यैकेन भागेन या सूक्ष्मत्वात् सदृशी त्रिलो जननीति” विभुः इयत्तया ज्ञातुमशक्या । त्रिधामेति सूर्यसो-माग्निरूपा । यद्वा त्रिधामेति स्थानत्रयं पातालभूखर्गरूपाअनेन स्थानव्याप्तिर्दर्शिता द्विचत्वारिंशद्वर्ण्णात्मा भूतलिपिमन्त्रमयी पञ्चाशद्वर्णरूपिणीति मातृकामयी” ।तस्या ध्यानादिकमुक्तं प्रयोगसारे यथा“मूलाधारे कुण्डलिनीं ध्यात्वा संपूजयेन्नरः । ध्यानंतस्याः प्रवक्ष्यामि येन योगी प्रजायते । प्रसुप्तभुज-गाकारां स्वयम्भूलिङ्गमाश्रिताम् । विद्युत्कोटिप्रभांदेवीं विचित्रवसनान्विताम् । शृङ्गारादिरसोल्लासां सर्व्व-दा कारणप्रियाम् । एवंध्यात्वा कुण्डलिनीं ततोयजेत्समाहितः । मनसा गन्धपुष्पाद्यैः संपूज्य वाग्भवं जपेत् ।ततोवै तोषयेत्ताञ्च स्तवेनानेन साधकः । “रुद्रजामले” अ-थ प्रातः समुत्थाय पशुरुत्तमपण्डितः । गुरूणां चरणा-म्भोजं मङ्गलं शीर्षपङ्कजे । विभाव्य पुनरेवं हि श्रीपदंभावयेधृदि । पूजयित्वा च विविधैरुपचारैर्नमेत् स्तवैः ।त्रैलोक्यं तेजसा व्याप्तां मण्डलस्थां महात्सवाम् । तडि-त्कोटिप्रभादी प्तिंचन्द्रकोटिसुशीतलाम् । सार्द्धत्रिबलया-कारां स्वयम्भूलिङ्गवेष्टिताम् । उत्थापयेन्महादेवीं म-हावक्त्रां मनोन्मनीम् । श्वासोच्छ्वासादुद्गच्छन्तीं द्वाद-शाङ्गुलरूपिणीम् । योगिनीं खेचरी वायुरूपां मूलाम्बु-जस्थिताम् । चतुर्व्वर्णस्वरूपां तां वकारादिकसान्तकाम् ।कोटिकोटिसहस्रार्ककिरणोज्ज्वलमोहिनीम् । महासू-क्ष्मपथप्रान्तरन्तरान्तरगामिनीम् । त्रैलोक्यरक्षितां वाक्यदेवतां शब्दरूपिणीम् । महाबुद्धिप्रदां देवीं सहस्रदलगामिनीम् । महासूक्ष्मपथेतेजोमयीं मृत्युस्वरूपिणीम् ।कालरूपां ब्रह्मरूपां सर्वत्र सर्वचिन्मयीम् । ध्यात्वा पुनःपुनःशीर्षे सुधाब्धौ विनिवेशिताम् । सुधापानंकारयित्वापुनःस्थाने समानयेत् । समानयनकाले तु सुषुण्मामध्य-मध्यके । अमृताभिप्लुतां कृत्वा पुनःस्थानेषु पूजयेत् ।ऊर्द्ध्वोद्गमनकाले तु महातेजोमयींस्मरेत् । प्रतिप्रयाणकाले तु सुधाधाराभिराप्ल्ताम् । कुलकुण्डलिनीं देवीममृतानन्दविग्रहाम् । ध्यात्वा ध्यात्वा पुनर्ध्यात्वा सर्व-सिद्धीश्वारोभवेत् । तस्मिन् स्थाने महादेवौ विभाव्यकिरणोज्ज्वलाम् । अमृतानन्दमूर्त्तिं तां पूजयित्वाशुभां मुदा । मानसोच्चारवीजेन मायां वा कामवीज-कम् । पञ्चाशद्वर्णमालाभिर्जत्वानुलोमतस्तथा । विलोमेनपुनर्जत्वेति”
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
