| YouTube Channel

कुरुक्षेत्रं (kurukSetraM)

 
शब्दकल्पद्रुमः
Sanskrit
कुरुक्षेत्रं,
क्ली,
(कुरुणा चन्द्रवंशोद्भवेन राजविशेषेणभूरितपसोपार्ज्जितं धर्म्मक्षेत्रनाम्ना प्रसिद्धंकुरुदेशान्तर्गतं क्षेत्रम् शाकपार्थिवादित्वात्मध्यपदलोपः ।) देशविशेषः तत्तु धर्म्मक्षेत्रम् ।(किञ्चास्मिन्नेव क्षेत्रे क्षत्त्रियकुलारण्यकुठारेण भृ-गुवंशधुरन्धरेण भगवता जामदग्र्यरामेण क्षत्त्रि-यशोणितैः पञ्च ह्रदाः कृताः तदारभ्य क्षेत्रमेतत्समन्तपञ्चकनाम्नोच्यते नितरामेवात्र युध्यतांक्षत्त्रियाणां शरीरविसर्ज्जनेन पुण्यप्राचुर्य्यात्वैकुण्ठप्राप्तिः तत एवात्र कुरुपाण्डवानां सुमह-द्युद्धं निर्वृत्तम् एतद्विवरणं महाभारतीये १२ ।४८ अध्याये श्रीकृष्णयुधिष्ठिरसंवादे द्रष्टव्यम्
यथा भगवद्गीतायाम् ।“धर्म्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः ।मामकाः पाण्डवाश्चैव किमकुर्व्वत सञ्जय !”
एतत्क्षेत्रस्य सीमानिर्द्देशे बहूनि मतानि लक्ष्यन्तेदिङ्मात्रमुदाहृतमत्र यथा, हेमचन्द्रः ।“धर्म्मक्षेत्रं कुरुक्षेत्रं द्वादशयोजनावधि”
तथा त्रिकाण्डशेषेऽपि ।“कुरुक्षेत्रं प्रयागञ्च हिमाद्रिं विन्ध्यमन्तरा”
एष हि ब्रह्मर्षिदेशः यथा, मनौ १९ ।“कुरुक्षेत्रं मत्स्याश्च पञ्चालाः शूरसेनकाः ।एष ब्रह्मर्षिदेशो वै ब्रह्मावर्त्तादनन्तरः”
)