कुरण्डः (kuraNDaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishकुरण्डः [kuraṇḍḥ], Enlargement of the testicles or of the scrotum, hydrocele.
Apte Hindi
Hindiकुरण्डः
- कुर् - अण्डक्
"अण्डकोश की वृद्धि, एक रोग जिसमें पोते बढ़ जाते हैं"
शब्दकल्पद्रुमः
Sanskritकुरण्डः, (कुर + अण्डक् ।) मुष्कवृद्धिरोगः ।कोरण्ड इति भाषा । तत्पर्य्यायः । वृद्धिः२ अण्डवर्द्धनः ३ । इति हेमचन्द्रः ॥
तस्य सम्प्राप्ति-पूर्व्वकं लक्षणं यथा, --“क्रुद्धोऽनूर्द्ध्वगतिर्वायुः शोथशूलकरश्चरन् ।मुष्कौ वङ्क्षणतः प्राप्य फलकोषाभिवाहिनीः ॥
प्रपीड्य धमनीर्वृद्धिं करोति फलकोषयोः ।दोषास्रमेदोमूत्रान्त्रैः सवृद्धिः सप्तधा मतः ॥
मूत्रान्त्रजावप्यनिलाद्धेतुभेदश्च केवलम् ।वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक् ॥
पक्वोडुम्बरसङ्काशः पित्ताद्दाहोष्मपाकवान् ।कफाच्छीतो गुरुः स्निग्धः कण्डूमान्कठिनोऽल्परुक् ॥
कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्तजः ।कफवन्मेदसा वृद्धिर्मृदुस्तालफलोपमः ॥
मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः ।अम्भोभिः पूर्णदृतिवत् क्षोभं याति सरुङ्मृदुः ॥
मूत्रकृच्छ्रमधः स्याच्च चालयन् फलकोषयोः ।वातकोपिभिराहारैः शीततोयावगाहनैः ॥
धारणे रणभाराध्वविषमाङ्गप्रवर्त्तनैः ।क्षोभणैः क्षुभितश्चान्यैः क्षुद्रान्त्रावयवं यदा ॥
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत् ।कुर्य्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा ॥
उपेक्ष्यमाणस्य च मुष्कष्टद्धि-माध्मानरुक् स्तम्भवतीं स वायुः ।प्रपीडितोऽन्तःस्वनवान् प्रयातिप्रध्मापयन्नेति पुनश्च मुक्तः ॥
अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः” ॥
इति वृद्धिनिदानम् ॥
इति माधवकरः ॥
* ॥
तस्यौषधं यथा, --“द्विजयष्ट्याश्च वै मूलं पिष्टं तण्डुलवारिणा ।गण्डमालां हरेल्लेपात् कुरण्डगलगण्डकम् ॥
रसाञ्जनं हरीतक्याश्चूर्णं तेनैव गुण्ठनात् ।नश्येद्वै पुरुषव्याधिं नात्र कार्य्या विचारणा” ॥
इति गारुडे १९० अध्यायः ॥
* ॥
अन्यच्च ।“गव्यं घृतं सैन्धवसंप्रयुक्तंशम्बूकभाण्डे निहितं तदेव ।सप्ताहमादित्यकरैर्व्विपक्वंहन्यात् कुरण्डं चिरजं प्रवृद्धम्” ॥
गव्यघृत कर्ष १ । सैन्धव मा ४ । शम्बूकभाण्डेकृत्वा सप्तदिनं यावत् रौद्रे भावयेत् तेन कुरण्ड-म्रक्षणम् ॥
“सैन्धवञ्च घृताभ्यक्तं ताम्रभाजन आतपे ।प्रतप्तमूर्णया घृष्टं तन्मलञ्च समाहरेत् ॥
कुरण्डं म्रक्षयेत्तेन स निर्व्विघ्नं दिवानिशम् ।कुरण्डं तेन संलिप्तं नास्तीत्याह पुनर्व्वसुः ॥
ताम्रभाजने घृतं सैन्धवं दत्त्वा रौद्रे तप्तं कृत्वामेषलोमलुण्डिकया घृष्ट्वा मलग्रहं कृत्वा तेनम्रक्षयेत् ॥
बहुवारस्य वीजञ्च पिष्ट्वा तच्चार्द्रकैः सह ।कुरण्डं नाशयेद्भद्रे लेपनान्नात्र संशयः ॥
घृतैर्नीलोत्पलं मूलं पिष्ट्वा लिम्पेत् कुरण्डकम् ।अथवा लेपनं कुर्य्यात् गृहमण्डूकशोणितैः” ॥
इति भैषज्यरत्नावली ॥
* ॥
अपरञ्च ।“गुग्गुलुं रुवुतैलं वा गोमूत्रेण पिबेन्नरः ।वातवृद्धिं निहन्त्याशु चिरकालानुबन्धिनीम् ॥
सक्षीरं वा पिबेत्तैलं मासमेरण्डसम्भवम् ।पुनर्नवायास्तैलं वा तैलं नारायणन्तथा ॥
पाने वस्तौ रुवोस्तैलं पेयं वा दशकाम्भसा ।चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम् ॥
क्षीरपिष्टैः प्रदेहः स्याद्दाहशोथरुजापहः ।पञ्चवल्कलकल्केन सघृतेन प्रलेपनम् ॥
सर्व्वं पित्तहरं कार्य्यं रक्तजे रक्तमोक्षणम् ।श्लेष्मवृद्धिं तूष्णवीर्य्यैर्मूत्रपिष्टैः प्रलेपयेत् ॥
पीतदारुकषायञ्च पिबेन्मूत्रेणं संयुतम् ।स्विन्नां मेदःसमुत्थान्तु लेपयेत् सुरसादिना ॥
शिरोविरेकद्रव्यैर्व्वा सुखोष्णैर्मूत्रसंयुतैः ।संस्वेद्य मूत्रप्रभवां वस्त्रपट्टेन वेष्टयेत् ॥
सेवन्याः पार्श्वतोऽधस्ताद्विध्येद्व्रीहिमुखेन वै ।शङ्खोपरि च कर्णान्ते त्यक्त्वा सेवनिमादरात् ॥
व्यत्यासाद्वा सिरा विध्येदन्त्रवृद्धिनिवृत्तये ।अङ्गुष्ठमध्ये त्वक् छित्वा दहेदङ्गविपर्य्यये ॥
रास्नायष्ट्यमृतैरण्डबलागोक्षुरसाधितः ।क्वाथोऽन्त्रवृद्धिं हन्त्याशु रुवुतैलेन मिश्रितः ॥
तैलमेरण्डजं पीत्वा बलासिद्धपयोऽन्वितम् ।आध्मानशू लोपचितामन्त्रवृद्धिं जयेन्नरः ॥
हरीतकीं मूत्रसिद्धां सतैललवणान्विताम् ।प्रातःप्रातश्च सेवेत कफवातामयापहाम् ॥
गोमूत्रपिष्टां रुवुतैलभृष्टांहरीतकीं सैन्धवचूर्णयुक्ताम् ।खादेन्नरः कोष्णजलानुपानांनिहन्ति वृद्धिं चिरजां प्रवृद्धाम् ॥
त्रिफलाक्वाथगोमूत्रं पिबेत् प्रातरतन्द्रितः ।कफवातोद्भवं हन्ति श्वयथुं वृषणोत्थितम् ॥
सरलागुरुकुष्ठानि देवदारुमहौषधम् ।मूत्रारनालसंपिष्टं शोथघ्नं कफवातनुत् ॥
त्रिफलाक्वाथगोमूत्रं कल्कः पथ्यासमुद्भवः ।कृष्णासैन्धवसंयुक्तो वृद्धिरोगहरः परः ॥
गव्यं घृतं सैन्धवसंप्रयुक्तंशम्बूकभाण्डे निहितं प्रयत्नात् ।सप्ताहमादित्यकरैर्व्विपक्वंनिहन्ति कुरण्डमतिप्रवृद्धभ् ॥
ऐन्द्रीमूलभवं चूर्णं रुवुतैलेन मर्द्दितम् ।त्र्यहाद्गोपयसा पीतं सर्व्ववृद्धिनिवारणम् ॥
रुद्रजटामूललिप्ता करटव्यङ्गचर्म्मणा ।बद्धा वृद्धिः शमं याति चिरजापि न संशयः ॥
निपिष्टेनारनालेन रूपिकामूलवल्कलम् ।लेपोवृद्ध्यामयं हन्ति बद्धमूलमपि दृढम् ॥
वचासर्षपकल्केन लेपो वृद्धिविनाशनः ।लज्जागृघ्रमलाभ्यान्तु लेपो वृद्धिहरः परः” ॥
* ॥
“मूलं विल्वकपित्थयोरल्लकस्याग्नेर्वृहत्योर्द्वयोःश्यामापूतिकरञ्जशिग्रुकतरोर्व्विश्वौषधारुष्करम् ।कृष्णाग्रन्थिकचव्यपञ्चलवणं क्षाराजमोदान्वितंपीतङ्काञ्जिककोष्णतोयमथितैश्चूर्णीकृतं ब्रध्नजित् ॥
अवीक्षीरेण गोधूमकल्कं कुन्दुरुकस्य वा ।प्रलेपनं सुखोष्णं स्यात् ब्रध्नशूलहरं परम् ॥
मृत्पात्रे तु वै काकोदरे तत्तु प्रवेशयेत् ।ब्रध्रं मुहूर्त्तं मेधावी तत्क्षणादरुजो भवेत् ॥
अजाजी हवुषा कुष्ठं गोधूमं वदरणि च ।काञ्जिकेन समं पिष्ट्वा कुर्य्याद्ब्रध्रप्रलेपनम् ॥
सैन्धवं मदनं कुष्ठं शताह्वां निचुलं वचाम् ॥
ह्रीवेरं मधुकं भार्गी देवदारु सनागरम् ॥
कट्फलं पौष्करं मेदां चविकां चित्रकं शटीम् ।विडङ्गातिविषे श्यामां रेणुकां नीलिनीं स्थिराम् ॥
विल्वाजमोदां कृष्णाञ्च दन्तीं रास्नां प्रपिष्य च ।साध्यसेरण्डजं तैलं तैलं वा कफवातनुत् ॥
ब्रध्रोदरार्त्तगुल्मार्शःप्लीहमेहाढ्यमारुतान् ।आनाहमश्मरीञ्चैव हन्यात्तदनुवासनात्” ॥
वृहत्सैन्धवाद्यं तैलम् ॥
“सौरेश्वरघृतं योज्यं ब्रध्रवृद्धिनिवृत्तये” ॥
इतिब्रध्रवृद्ध्यधिकारः । इति चक्रपाणिदत्तः ॥
* ॥
(अस्य सनिदानं पूर्व्वरूपसहितं लक्षणं संप्रा-प्तिश्च यथा । “वातपित्तश्लेष्मशोणितमेदो मूत्रान्त्र-निमित्ताः सप्त वृद्धयः । तासां मूत्रान्त्रनिमित्तेवृद्धी वातसमुत्थे केवलमुत्पत्तिहेतुरन्यतमः ॥
अधःप्रकुपितोऽन्यतमो हि दोषः फलकोशवाहिनी-रभिप्रपद्यधमनीः फलकोषयोर्वृद्धिं जनयति तांवृद्धिमित्याचक्षते ॥
तासां भविष्यतीनां पूर्व्व-रूपाणि वस्तिकटीमुष्कमेढ्रेषु वेदना मारुत-निग्रहः फलकोशशोफश्चेति ॥
तत्रानिलपरिपूर्णां वस्तिमिवाततां परुषा-मनिमित्तानिलरुजं वातवृद्धिमाचक्षते, पक्वोडु-म्बरसङ्काशां ज्वरदाहोष्मवती चाशुसमुत्थानपाकांपित्तवृद्धिं कठिनामल्पवेदनां शीतां कण्डूमतींश्लेष्मवृद्धिं कृष्णस्कोटावृतां पित्तवृद्धिलिङ्गां रक्त-वृद्धिं मृदुस्निग्धां कण्डूमतीमल्पवेदनां तालफल-प्रकाशां मेदोवृद्धिम् ॥
मूत्रसन्धारण-शीलस्य मूत्र-वृद्धिर्भवति सा गच्छतोऽम्बुपूर्णा दृतिरिव क्षुभ्यतिमूत्रकृच्छ्रवेदनां वृषणयोःश्वयथुं कोषयोश्चापाद-यति तां मूचवृद्धिं विद्यात् ॥
भारहरणबलवद्वि-ग्रहवृक्षप्रपतनादिभिरायासविशेषैर्वायुरतिप्रवृद्धःप्रकुपितश्च स्थूलान्त्रस्येतरस्य चैकदेशं द्विगुणमा-दायाधोगत्वा वङ्क्षणसन्धिमुपेत्य ग्रन्थिरूपेण स्थि-त्वाऽप्रतिक्रियमाणे च कालान्तरेण फलकोषं प्र-विश्य मुष्कशोफमापादयत्याध्मातो वस्तिरिवाततःप्रदीर्घः शोफो भवति सशब्दमवपीडितश्चोर्द्ध्वमुपैतिविमुक्तश्च पुनराधमति तामन्त्रवृद्धिमसाध्या-माचक्षते” ॥
* ॥
इति सुश्रुते निदानस्थाने ।१२ अध्याये ॥
चिकित्सतञ्चास्य यथा, --“अन्त्रवृद्ध्या विना षड् या वृद्धयस्तासु वर्जयेत् ।अश्वादियानं व्यायामं मैथुनं वेगनिग्रहम् ॥
अत्यासनञ्चङ्क्रमणमुपवासं गुरूणि च ।तत्रादितो वातवृद्धौ त्रैवृतस्निग्धमातुरम् ॥
स्विन्नञ्चैनं यथान्यायं पाययेत विरेचनम् ।कोशाम्रतिल्वकैरण्डफलतैलानि वा नरम् ॥
सक्षीरं वा पिबेन्मासं तैलमेरण्डसम्भवम् ।ततः कालेऽनिलध्नानां क्वाथैः कल्कैश्च बुद्धिमान् ॥
निरूहयेन्निरूढञ्च भुक्तवन्तं रसौदनम् ॥
यष्टीमधुकसिद्धेन ततस्तैलेन योजयेत् ।स्नेहोपनाहौ कुर्य्याच्च प्रदेहांश्चानिलापहान् ॥
विदग्धां पाचयित्वा वा सेवनीं परिवर्ज्जयेत् ॥
भिन्द्यात्ततः प्रभिन्नायां यथोक्तं क्रममाचरेत् ।पित्तजायामपक्वायां पित्तग्रन्थिक्रमो हितः ॥
पक्वां वा भेदयेद्भिन्नां शोधयेत् क्षौद्रसर्पिषा ।शुद्धायाञ्च भिषग्दद्यात् तैलं कल्कञ्च रोपणम् ॥
रक्तजायां जलौकोभिः शोणितं निर्हरेद्भिषक् ।पिबेद्विरेचनं वापि शर्कराक्षौद्रसंयुतम् ॥
पित्तग्रन्थिक्रमं कुर्य्यादामे पक्वे च सर्व्वदा ।वृद्धिं कफात्मिकामुष्णैर्मूत्रपिष्टैः प्रलेपयेत् ॥
पीतदारु कषायञ्च पिबेन्मूत्रेण संयुतम् ॥
विम्लापनादृते वापि श्लेष्मग्रन्थिक्रमो हितः ।पक्वायाञ्च विभिन्नायां तैलं शोधनमिष्यते ॥
सुमनारुष्कराङ्कोठसप्तपर्णेषु साधितम् ।मेदःसमुत्थां संस्वेद्य लेपयेत् सुरसादिना ॥
शिरोविरेकैर्द्रव्यैर्व्वा सुखोष्णैर्मूत्रसंयुतैः ।स्विन्नाञ्चावेष्ट्य पट्टेन समाश्वास्य तु मानवम् ॥
रक्षेत् फले सेवनीञ्च वृद्धिपत्रेण दारयेत् ।मेदस्ततः समुद्धृत्य दद्यात्कासीससैन्धवे ॥
बध्नीयाच्च यथोद्दिष्टं शुद्धे तैलञ्च दापयेत् ।मनःशिलाललवणैः सिद्धमारुष्करेषु च ॥
मूत्रजां स्वेदयित्वा तु वस्त्रपट्टेन वेष्टयेत् ।सेवन्याः पार्श्वतोऽधस्ताद्विध्येद्ध्रीहिमुखेन तु ॥
अथात्र विमुखां नाडीं दत्त्वा विस्रावयेद्भिषक्मूत्रं नाडीमथोद्धृत्य स्थगिकाबन्धमाचरेत् ॥
शुद्वायां रोपणं दद्याद्वर्ज्जयेदन्त्रहेतुकीम् ॥
अप्राप्तफलकोशायां वातवृद्धिक्रमो हितः ।तत्र या वङ्क्षणस्था तां दहेदर्द्धेन्दुवक्त्रया ॥
सम्यग्मार्गावरोधार्थं कोशप्राप्तान्तु वर्जयेत् ।त्वचं भित्त्वाङ्गुष्ठमध्ये दहेच्चाङ्गविपर्य्ययात् ॥
अनेनैव विधानेन वृद्धी वातकफात्मिके ।प्रदहेत् प्रयतः किन्तु स्नायुच्छेदोऽधिकस्तयोः ॥
शङ्खोपरि च कर्णान्ते त्यक्त्वा यत्नेन सेवनीम् ।व्यत्यासाद्वा सिरां विध्येदन्त्रवृद्धिनिवृत्तये” ॥
इति सुश्रुते चिकित्सितस्याने १९ अः ॥
* ॥
)भावप्रकाशोक्तचिकित्सादिः अन्त्रवृद्धिशब्दे द्रष्टव्यः ॥
साकरुण्डवृक्षः । इति राजनिर्घण्टः ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
