| YouTube Channel

कुरण्टकः (kuraNTakaH)

 
Apte Hindi
Hindi
कुरण्टकः
पुं*
- "कुर् - अण्टक्, कुरण्ट - कन्"
"पीला सदाबहार, कटसरैया"
शब्दकल्पद्रुमः
Sanskrit
कुरण्टकः,
पुं,
(कुर्य्यते शब्द्यते इति कुर् + कर्म्मणिबाहुलकात् अण्टक् स्वार्थे कन् ।) पीताम्लानः ।पीतझिण्टी इति राजनिर्घण्टः
(अस्य पर्य्याय-लक्षणगुणा यथा, --“सैरेयकः श्वेतपुष्पः सैरेयः कटसारिका ।सहाचरः सहचरः मिन्द्यपि कथ्यते
कुरण्टकोऽत्र पीते स्याद्रक्ते कुरवकः स्मृतः ।नीले वाणाद्वयोरुक्तो दासे आर्त्तगलश्च सः
सैरेयः कुष्ठवातास्रकफकण्डूविषापहः ।तिक्तोष्णो मधुरोऽनम्लः सुस्निग्धः केशरञ्जनः”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
“किंशुकं कफपित्तघ्नं तद्वदेव कुरण्टकम्”
इति शुश्रुते सूत्रस्थाने ४६ अः
अत्रास्य नपुं-सकत्वं व्यज्यते
)