| YouTube Channel

कुम्भाण्डः (kumbhANDaH)

 
Wordnet
Sanskrit
Synonyms:
कुम्भाण्डः
noun
एकः असुरः।
"कुम्भाण्डः बाणासुरस्य मन्त्री आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
कुम्भाण्डः,
पुं,
(कुम्भ इव अण्डं यस्य ।) वाणासुरस्या-मात्यविशेषः इति श्रीभागवतम्
(यथा, हरिवंशे १७५ १६३ ।“कुम्भाण्डवचनैरेवं दानवेन्द्रः प्रचोदितः ।वाचं रूक्षामतिक्रुद्धः प्रोवाच वदताम्बरः”
अयञ्च वाणपराजयान्ते श्रीकृष्णप्रसादात् तद्रा-ष्ट्रस्वामी बभूव
यदुक्तं तत्रैव १८३ २७ --३८ ।श्रीकृष्ण उवाच ।“कुम्भाण्ड ! मन्त्रिणां श्रेष्ठ ! प्रीतोऽस्मि तव सुव्रत ! ।सुकृतन्ते विजानामि राष्ट्रिकोऽस्तु भवानिह
सज्ञातिपक्षः सुसुखी निर्वृतोऽस्तु भवानिह ।राज्यञ्चं ते मया दत्तं चिरं जीव ममाश्रयात्”
)कुष्माण्डम् कुष्माण्डीपर्य्याये कुम्भाण्डीदर्शनात्