| YouTube Channel

कुम्भयोनि (kumbhayoni)

 
शब्दसागरः
English
कुम्भयोनि
m.
(-निः)
1. A name of AGASTYA, a saint so called.
2. Also
of VASISHṬHA
and of DRONA, the military preceptor of the
Kurus and Pandus.
E.
कुम्भ a jar, and योनि a womb
born in a
water jar, &c.
Yates
English
कुम्भ-योनि (निः) 2.
m.
Agastya.
Spoken Sanskrit
English
कुम्भयोनि - kumbhayoni -
f.
- having a jar-shaped vagina
कुम्भयोनि - kumbhayoni -
f.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
कुम्भयोनि - kumbhayoni -
m.
- name of droNa
कुम्भयोनि - kumbhayoni -
m.
- name of vasiSTha
कुम्भयोनि - kumbhayoni -
m.
- born in a water-jar
कुम्भयोनि - kumbhayoni -
f.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
कुरुम्बा - kurumbA -
f.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
कुरुम्बिका - kurumbikA -
f.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
देवद्रोणी - devadroNI -
f.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
द्रोणपुष्पी - droNapuSpI -
f.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
फलेपुष्पा - phalepuSpA -
f.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
सुपुष्पा - supuSpA -
f.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
सुपुष्पी - supuSpI -
f.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
कोटि - koTi -
f.
- Ceylon slitwort [ Leucas aspera - Bot. ]
खरपर्णिनी - kharaparNinI -
f.
- Ceylon slitwort [ Leucas aspera - Bot. ]
गोजिह्वा - gojihvA -
f.
- Ceylon slitwort [ Leucas aspera - Bot. ]
वृक्षसारक - vRkSasAraka -
m.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
द्रोणपुष्प - droNapuSpa -
n.
- Ceylon slitwort [ Leucas zeylanica - Bot. ]
Wilson
English
कुम्भयोनि
m.
(-निः)
1 A name of AGASTYA, a saint so called.
2 Also of VAŚIṢṬHA
and,
3 Of DROṆA, the military preceptor of the Kurus and Pāṇḍus.
E.
कुम्भ a jar, and यानि a womb
born in a water jar, &c.
Monier Williams Cologne
English
कुम्भ—योनि
m.
‘born in a water-jar’,
N.
of Agastya,
MBh.
Ragh.
BhP.
of Droṇa (the military preceptor of the Kurus and Pāṇḍus),
L.
of Vasiṣṭha,
L.
कुम्भ—योनि
f.
the plant Phlomis ceylanica (commonly द्रोण-पुष्पी),
L.
‘having a jar-shaped pudendum’,
N.
of an Apsaras,
MBh.
iii, 1785.
Apte Hindi
Hindi
कुम्भयोनिः
पुं*
कुम्भ-योनिः -
अगस्त्य मुनि के विशेषण
कुम्भयोनिः
पुं*
कुम्भ-योनिः -
कौरव और पाण्डवों के सैन्यशिक्षाचार्य गुरु द्रोण का विशेषण
कुम्भयोनिः
पुं*
कुम्भ-योनिः -
वशिष्ठ का विशेषण
Shabdartha Kaustubha
Kannada
कुम्भयोनि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಗಸ್ತ್ಯ ಮಹರ್ಷಿ
कुम्भयोनि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ವಸಿಷ್ಠ ಮಹರ್ಷಿ
कुम्भयोनि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ದ್ರೋಣಾಚಾರ್ಯ
व्युत्पत्तिः - > कुम्भः योनिरुत्पत्तिस्थानमस्य
प्रयोगाः - > "प्रससादोदयादम्भः कुम्भयोनेर्महौजसः" "कुम्भयोनिरलङ्कारं तस्मै दिव्यपरिग्रहम् ।"
उल्लेखाः - > रघु० ४-२१, रघु० १५-५५
L R Vaidya
English
kuMBa-yoni {% m. %} 1. an epithet of Agastya, प्रससादोदयादंभः कुंभयोनेर्महौजसः R.iv.22, xv.55
2. an epithet of Droṇa, the military preceptor of the Kauravas and Pāṇḍavas
3. epithet of Vasishṭha.
Bopp
Latin
कुम्भयोनि f. (BAH. e कुम्भ et योनि) nomen Apsarasis cu-
jusdam. IN. 2. 30.
Mahabharata
English
Kumbhayoni^1, an Apsaras. § 336 (Indralokābhigamanap.): III, 43, 1785 (among the Apsarases who danced in the palace of Indra).
Kumbhayoni^2 (“born in a water-jar”) = Agastya: III, 8596
XII, ††13216 (Agastyaḥ…Maitrāvaruṇiḥ).
Kumbhayoni^3 (do.) = Droṇa: VII, 6947, 6956, 8364, 8367, 8371, 8820.
पुराणम्
English
कुम्भयोनि / KUMBHAYONI I. agastya. (See under agastya).
कुम्भयोनि / KUMBHAYONI II. A deva woman who danced in Indrasabhā when arjuna came to Indraloka. (Vana Parva, Chapter 43, Verse 30).
शब्दकल्पद्रुमः
Sanskrit
कुम्भयोनिः,
पुं,
(कुम्भः योनिर्जन्मस्थानं यस्य ।) अगस्त्य-मुनिः (यथा रघुः २१ ।“प्रससादोदयादम्भः कुम्भयोनेर्महौजसः”
)वशिष्ठमुनिः (एतयोर्मुनिसत्तमयोरुत्पत्तिविवरणंतु उर्व्वशीकृते कन्दर्पपीडितयोर्मित्रावरुणयोःस्खलितेनैकस्मिन् कुम्भे सङ्गतेन रेतसा यथा घटितंतथा तत् रामायणोत्तरकाण्डे ६६ -- ६७ सर्गेविशेषतो द्रष्टव्यम्
) द्रोणाचार्य्यः इति मेदिनी
(अस्य उत्पत्तिकथायथा महाभारते १३१ ९-१४ ।“गङ्गाद्वारं प्रति महान् बभूव भगवानृषिः ।भरद्वाज इति ख्यातः सततं शंसितव्रतः
सोऽभिषेक्तुं ततो गङ्गां पूर्व्वमेवागमन्नदीम् ।महर्षिभिर्भरद्वाजो हविर्द्धाने चरन् पुरा
ददर्शाप्सरसं साक्षात् घृताचीमाप्लुतामृषिः ।रूपयौवनसंम्पन्नां मददृप्तां मदालसाम्
तस्याः पुनर्नदीतीरे वसनं पर्य्यवर्त्तत ।व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः
तत्र संसक्तमनसो मरद्वाजस्य धीमतः ।ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे
ततः सममवद्रोणः कलसे तस्य धीमतः ।अध्यगीष्ट वेदांश्च वेदाङ्गानि सर्ष्वशः
)द्रोणपुष्पीष्टक्षः इति राजनिर्घण्टः
(स्त्रो, अप्स-रोविशेषः यथा महाभारते ४३ ३० ।“गोपाली सहजन्या कुम्भयोनिः प्रजागरा ।चित्रसेना चित्रलेखा सहा मधुरस्वना”
)
वाचस्पत्यम्
Sanskrit
कुम्भयोनि
पु०
कुम्भः योनिरुत्पत्तिस्थानमस्य अगस्त्ये मुनौ“प्रससादोदयादम्भः कुम्भयोनेर्महौजसः” रघुः वशिष्ठेमुनौ तयोः यथा ततौत्पत्तिस्तथाह रामा० उ० का०९३ अ० “अशरीरः शरीरस्य कृते न्यस्य महामुनिः वसि-ष्ठस्तु महातेजा जगाम पितुरन्तिकम् सोऽभिवाद्य ततःपादौ देवदेवस्य धर्मवित् पितामहमथोवाच वायुभूतैदंवचः भगवन्निमिशापेन विदेहत्वमुपागमम् देवदेव!महादेव! वायुभूतोऽहमण्डज! सर्वेषां देहहीनानांमहद्दुःखं भविष्यति लुप्यन्ते सर्वकार्य्याणि हीनदेहस्य वै प्रभो! देहस्यान्थस्य सद्भावे प्रसादं कर्तुमर्हसि ।तमुवाच ततोव्रह्मा स्वयंभूरमितप्रभः मित्रावरुण-जन्तेज आविशत्वं महायशः! अयोनिजस्त्वं भविता-तत्रापि द्विजसत्तम! धर्मेण महता युक्तः पुनरेष्यसि मे व-शम् एवमुक्तस्तु देवेन अभिवाद्य प्रदक्षिणम् कृत्वापितामहं तूर्णं प्रययौ वरुणालयम् तमेव कालं मित्रीऽ-पि वरुणत्वमकारयत् क्षीरोदेन सहोपेतः पूज्यमानः सु-रेश्वरैः एतस्मिन्नेव काले तु उर्वशी परमाप्सराः यद्र-च्छया तमुद्देशमागता सखोभिर्वृता तां दृष्ट्वा रूपसप-न्नां क्रीडन्तीं वरुणालये तदाऽऽविशत्परो हर्षो वरुणंचोर्वशीकृते तां पद्मपलाशाक्षीं पूर्णचन्द्रनिभाननाम् ।वरुणोवरयामास मैथुनायाप्सरोवराम् प्रत्युवाच ततःसा तु वरुणं प्राञ्जलिः स्थिता मित्रेणाहं वृता साक्षा-त्पूर्व मेव सुरेश्वर! वरुणस्त्वव्रवीद्वाक्यं कन्दर्पशरपीडि-तः इदं तेजः समुत्स्रक्ष्ये कुम्भेऽस्मिन्देक्निर्मिते ।एव मुत्सृज्य सुश्रोणि! त्वय्यहं वरवर्णिनि! कृतकामो-भविष्यामि यदि नेच्छसि गमम् तस्य तल्लोकनाथस्यवरुणस्य सुभाषितम् उर्वशी परमप्रीता श्रुत्वा वाक्य-मुवाच काममेतद्भवत्वेवं हृदयं मे त्वयि स्थितम् ।भावश्चाप्यधिकं तुभ्यन्देहो मित्रस्य तु प्रभो! उर्वश्याएवमुक्तस्तु रेतस्तन्महदद्भुतम् ज्वलदग्निसमप्रख्यं तस्मिन्कुम्भे न्यवासृजत् उर्वशी त्वगमत् तत्र मित्रोवै यत्रदेवता तान्तु मित्रः सुसंक्रुद्धौर्वशीमिदमब्रवीत् मया-ऽभिमन्त्रिता पूर्वं कस्मात्त्वमवसर्जिता पतिमन्यं वृत-वती किमर्थं दुष्टचारिणि! अनेन दुष्कृतेन त्वं मत्-क्रोधकलुषीकृता मनुष्यलोकमास्थाय कञ्चित्काल-श्रिवत्स्यिसि” इति तस्य तस्यां शापमुक्त्वा“यः कुम्भो रघुश्रेष्ठ! तेजःपूर्णोमहात्मनोः तस्मिं-स्तेजोमयौ बिप्रौ सम्भूताघृषिसत्तमौ पूर्वं समभवत्तत्रअगस्त्योभगवानृषिः नाहं सुतस्तवेत्युक्त्वा मित्रंतस्मादपाक्रमत् तद्धि तेजस्तु मित्रस्य उर्वश्याः पूर्वमा-हितम् तस्मिन् समभवत्कुम्भे तत्तजोयत्र वारुणम् ।कस्यचित्त्वय कालस्य मि त्रावरुनसंभवः वसिष्ठस्ते-जसा युक्तो जज्ञे इक्ष्वाकुदैवतम्” ।अत्रैवमाख्यायिका प्रथममुर्वशीं मित्रो दृष्ट्वा तामागन्त्रितवान्तयाच त्वन्निवासमागमिष्यामीत्युक्तस्तदा वरुणलोकस्थ एवमित्रस्तद्दर्शनाद्धटस्खलितं निजतेजः कुम्भे उत्सृज्य स्व-न्निवास जगाम पश्चाद्वरुणोऽपि तां दृष्ट्वा स्खलितं तेजःकुम्भे व्यसृजत् ततोमित्रनिवासंगता मित्रेण शप्ता चेति ।रामा० श्लोकस्यायमर्थः नाहं सुतस्तवेति यद्यपि मित्रे-णापि कुम्भे रेत उत्सृष्टं तथापि तवैकस्य पुत्रो नभवामीत्युक्त्वाऽपाक्रामत् एवमुक्तौ वीजमाह तद्धि तेजैतिअगस्त्योत्पत्तिहेतुभूतं मित्रस्व तेजः पूर्वमुर्वशीनिमित्त-वरुणवीर्यविसर्गात्पूर्ब माहितं यस्मिन् कुम्भे तस्मिन्नेवकुम्भे वारुणं तेजः समभवत् संगतमभवत् यत्र कुम्भेमित्रस्व तेज आसीत् अतस्तेजोन्तरसंगमादुत्प-त्तेर्नैकस्य तव सुत इत्युक्तमगस्त्येन मित्रं प्रति ।“अगस्त्यश्च वशिष्ठश्च मित्रावरुणयोरृषी रतः सुषि-चतोः कुम्भे उर्वश्याः सन्निधौ तथा” भाग० १८ ।३ अप्सरोभेदेस्त्री “गोपाली सहजन्या कुम्भयोनिःप्रजागरा” भा० व० ४३ अ० द्रोणाचार्य्ये
पु०
तदुपत्ति-कथा द्रोणशब्दे वक्ष्यते द्रोणपुष्पीवृक्षे
पु०
राजनि०