कुमारभृत्या (kumArabhRtyA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishApte Hindi
Hindiकुमारभृत्या
कुमार-भृत्या -
छोटे-छोटे बच्चों की देखरेख
कुमारभृत्या
कुमार-भृत्या -
"गर्भावस्था में स्त्री की देखरेख, प्रसूति विद्या"
Shabdartha Kaustubha
Kannadaकुमारभृत्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸೂಲಗಿತ್ತಿತನ /ಧಾತ್ರಿಯ ಕಾರ್ಯ /ಆಯುರ್ವೇದದ ೮ ಅಂಗಗಳಲ್ಲೊಂದು
व्युत्पत्तिः - > कुमारस्य भृत्या भरणम्
L R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritकुमारभृत्या, (कुमारस्य गर्भस्य निर्विघ्नप्रस-वार्थं गर्भचिकित्साकुशलैः भिषग्भिः धात्र्या वाभृत्या पालनम् ।) गर्भिण्याः परिचर्य्या । इतिहारावली ॥
तत्पर्य्यायः । बालतन्त्रम् २ गर्भिण्य-वेक्षणम् ३ । इति त्रिकाण्डशेषः ॥
(यथा, रघुः । ३ । १२ ।“कुमारभृत्याकुशलैरनुष्ठितेभिषग्भिराप्तैरथ गर्भभर्म्मणि ।पतिः प्रतीतः प्रसवोन्मुखीं प्रियांददर्श काले दिवमभ्रितामिव” ॥
)
वाचस्पत्यम्
Sanskritकुमारभृत्या स्त्री भृ--क्यप् भृत्या भरणम् ६ त० । कुमार-रक्षणोपायभूते सुश्रुतोक्ते कौमारभृत्याख्ये कौमारतन्त्रे ।कुमारभृत्या अधिकृत्यम् प्रवृत्तं तन्त्रम् अण् । कौमारभृत्यकुमाररक्षणोपायज्ञापके तच्छास्त्रांशे । “शल्यं शालक्यंकायचिकित्सा भूतविद्या कौमारभृत्ये त्यादिना अष्टधा-शास्त्रं विभज्य तल्लक्षणमुक्तं तत्रैव यथा“कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोध-नार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थम् ।विवृतमुत्तरत्र तत्रैव यथा“नवग्रहाकृतिज्ञानं स्कन्दस्य च निषेधनम् । अपस्मार-शकुन्योञ्च रेवत्याश्च पुनःपृथक् । पूतनायास्तथान्धायामण्डिका शीतपूतना । नैगमेयचिकित्सा च ग्रहोत्पत्तिःसयोनिजा । कौमारतन्त्रमित्येतच्छारीरेषु च कीर्त्ति-तम्” ।तत्प्रकारस्तत्रैव उत्तरतन्त्रे दर्शितो यथा“अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः ।वालग्रहाणां विज्ञान साधनञ्चाप्यनतरम् । ऊत्पत्तिंकारणञ्चैव सुश्रुतैकमनाः शृणु । १ स्कन्दग्रहस्तु प्रथमः२ स्कन्दापस्मार एवच । ३ शकुनी ४ रेवती चैव ५ पूतना चा-न्धपूतना ६ । पूतना ७ शीतनामा च तथैव ८ मुखमण्डि-का । नवसो ९ नैगमेयश्च यः पिष्टग्रहसंज्ञितः । धात्रीमा-त्रोःप्राक् प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान् ।त्रस्तान् हृष्टांस्तर्ज्जितान् क्रन्दितान्वा पूजाहेतोर्हिंस्युरेतेकुमारात् । ऐश्वर्य्यस्थास्ते न शक्या विशन्तो देहं दुष्टंमानुषैर्विश्वरूपाः । आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लि-ङ्गान्येषां यानि देहे भवन्ति । शूनाक्षः क्षतजसगन्धिकःस्तनद्विड्वक्रास्यो हतचलितैकपक्ष्मनेत्रः । उद्विग्नः सुलु-लितचक्षुरल्परोदी स्कन्दार्त्तो भवति च गाढमुष्टिवर्च्चाः १ ।निःसंज्ञो भवति पुनर्भवेद्विसंज्ञः संरब्धः करचरणैश्च नृत्य-तीव । विण्मुत्रे सृजति विनद्य जृम्भमाणः फेनञ्च प्रसृ-जति तत्सखाभिपन्नः २ । स्रस्ताङ्गो भयचकितो विहङ्ग-गन्धिः संस्राविव्रणपरिपीडितः समन्तात् । स्फोटैश्च प्रत-ततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या ३ ।रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुख-पाकवेदनार्त्तः । रेवत्या ४ व्यंथततनुश्च कर्णनासं मृद्नातिघ्रुवमभिपीडितः कुमारः । स्रस्ताङ्गः स्वपिति सुखं दिवान रात्रौ विडमिन्नं सृजति च काकतुल्यगन्धिः । छर्द्या-र्त्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति च पूतनागृ-हीतः ५ । यो द्वेष्टि स्तनमतिसारकासहिक्काच्छर्दीभि-र्ज्वरसहिताभिरर्द्यमानः । दुर्वर्णः सततमधःशयोऽम्लग-न्धिस्तं ब्रूयुर्वरभिषजोऽन्धपूतनार्त्तम् ६ । उद्विग्नो भृश-म तवेपते प्ररुद्यात् संलीनः स्वपिति च यस्य चान्त्रकूजः ।विस्राङ्गो भृशमतिसार्य्यते च यस्तं जानीयाद्भिषगिहशीतपूतनार्त्तम् ७ । म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो ब-ह्नाशी कलुषासरावृतोदरो यः । सोद्वेगो भवति च मू-त्रतुल्यगन्धिः स ज्ञेयः शिशुरथ वक्त्रमण्डिकार्त्तः ८ । यःफेनं वमति विनम्यते च मध्ये सोद्वेगं बिलपति चोर्द्ध्व-मीक्षमाणः । जीर्य्येत प्रततमथो वसासगन्धि र्न्निःसंज्ञोभवति हि नैगमेयजुष्टः ९ । प्रस्तब्धो यः स्तनद्वेषी मु-ह्यते चाविशन्मुहुः । तं बालं न चिराद्धन्ति ग्रहः सम्पूर्णलक्षणः । विरीतमतःसाध्यं चिकत्सेदचिरार्दितम् ।गृहे पुराणहविषाभ्यज्य बालं शुचौ शुचिः । सर्षपान्प्रकिरेत्तेषां तैलैर्दीप्रञ्च कारयेत् । सदा सन्निहितञ्चापिजुहुयाद्ध्वव्यवाहनम् । सर्वगन्धौषधीवीजैर्गन्धमाल्यैर-लङ्कृतम् । अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संस्म-रन् । नमः स्कन्दाय देवाय ग्रहाधिपतये नमः । शि-रसा त्वाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम् । नीरु-जो निर्विकारश्च शिशुर्म्मे जायतां ध्रुवम् ।अथातः स्कन्दग्रहप्रतिषेधं व्याख्यास्यामः । स्कन्दग्रहो-पसृष्टानां कुमाराणाञ्च शस्यते । वातघ्नद्रुमपत्राणांनिःक्वाथःपरिषेचने । तेषां मूलेषु सिद्धञ्च तैलमभ्यञ्जने हितम् ।सर्वगन्धसुरामण्डकैटर्य्यावापमिष्यते । देवदारुणि रा-स्नायां मधुरेषु द्रुमेषु च । सिद्धं सर्पिश्च सक्षीरं पान-मस्मै प्रयोजयेत् । सर्षपा सर्पनिर्म्मोको वचा काकादनीघृतम् । उष्ट्राजाविगवाञ्चैव रोमाण्युद्धूपनं शिशोः ।सोमवल्लीमिन्द्रवल्लीं शमीं विल्वस्य कण्टकान् । मृगाद-न्याश्च मूलानि ग्रथितान्येव धारयेत् । रक्तानि माल्यानितथा पताका रक्ताश्च गन्धा बिविधाश्च भक्ष्याः । घण्टाच देवाय बलिर्न्निवेद्यः सकुक्कुटः स्कन्दगृहे हिताय ।स्नानं त्रिरात्रं निशि चत्वरेषु कुर्य्यात्पुनः शालियवैर्न्न-वैस्तु । अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं चाहु-तिभिश्च वह्नेः । रक्षामतः प्रवक्ष्यामि बालानां फाप-नाशिनीम् । अहन्यहनि कर्त्तव्या या भिषग्मिरत-न्द्रितैः । तपसां तेजसां चैव यशसां वपुषां तथा ।निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु । ग्रहसेनापतिर्देवो देवसेनापतिर्बिभुः । देवसेनापरिपुहरः पातुत्वां भगवान् गुहः । देव देवस्य महतः पावकस्य च यःसुतः । गङ्गोमाकृत्तिकानाञ्च स ते शर्म्म प्रयच्छतु । रक्त-माल्याम्बरः श्रीमान् रक्तचन्दनभूषितः । रक्तदिब्यवपुर्द्देवःपातु त्वां क्रौञ्चसूदनः” १ ।“अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः । विल्वःशिरीषो गोलोमी सुरसादिश्च यो गणः । परिषेके प्रयो-क्तव्यः स्कन्दापस्मारशान्तये । सर्वगन्धविपक्वन्तु तैलम-भ्यञ्जने हितम् । क्षीरवृक्षकषाये च काकोल्यादौ गणेतथा । विपक्तव्यं घृते वापि पानीयं पयसान्वितम् ।उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् । गृध्रोलू-कपुरीषाणि केशाहस्तिनखा घृतम् । वृषभस्य च रोमाणियोज्यान्युद्धूपनेऽपि च । अनन्तां कुक्कुटीं विम्बीं मर्क्क-टीञ्चापि धारयेत् । पक्कापक्कानि मांसानि प्रसन्नं रुधिरंपयः । घृतोदनो निवेद्यश्च स्कन्दापस्मारिणोऽवटे ।चतुःपथे च कर्त्तव्यं स्नानमस्य यतात्मना । स्कन्दाप-स्मारसंज्ञोयः स्कन्दस्य दयितः सखा । विशाखसंज्ञश्चशिशोः शिवोऽस्तु विकृताननः” २ ।“अथातः शकुनीप्रतिषेधं व्याख्यास्यामः । शकुन्यभिपरीतस्यकार्य्यो वैद्येन जानता । वेतसाम्रकपित्थानां निःक्वाथःपरिषेचने । कषायमधुरैस्तैलं कार्य्यमग्थञ्जने शिशोः ।मधुकोशीरह्रीवेरशारिवोत्पलपद्मकैः । रोध्रप्रियङ्गुमञ्जि-ष्ठागैरिकैः प्रदिहेच्छिशुम् । व्रणेषूक्तानि चूर्णानि पथ्या-नि विविधानि च । स्कन्दग्रहे धूपनानि तानीहापिप्रयोजयेत् । शतावरीमृगैर्वारुनागदत्तीनिदिग्धिकाः ।लक्ष्मणां सहदेवीञ्च वृहतीञ्चापि धारयेत् । तिलतण्डु-लकं माल्यं हरितालं मनःशिला । बलिरेष करञ्जेषुनिवेद्यो नियतात्मना । निकुञ्चे च प्रयोक्तव्यं स्नानमस्ययथाविधि । स्कन्दग्रहोपशमनं घृतं तच्चेह पूजितम् ।कुर्य्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः । अन्तरि-क्षचरा देवी सर्वालङ्कारभूषिता । अवोमुखी तीक्ष्णतुण्डाशकुनीते प्रसीदतु । दुर्द्दर्शना महाकाया पिङ्गाक्षी भैर-वस्वना । लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु” ३ ।“अथातो रेवतीप्रतिषेधं व्याख्यास्वामः । अश्वगन्न्धाजशृङ्गीच शारिवा सपुनर्न्नवा । सुहे विदारी च तथा कषायाःसेचने हिताः । तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्ज्जरसेऽपिवा । धवाश्वकर्णककुभधातकीतिन्द कीषु च । काकोल्या-दिगणे चैवं पानीयं सर्प्पिरिष्यते । कुलत्थाः शङ्खचूर्णञ्चप्रदेहाः सर्वगन्धिकाः । गृध्रोलूकपूरीषाणि यवायवफखी घृतम् । सन्ध्ययोरुभयोः कार्य्यमेतदुद्ध्वूपर्नेशिशोः । वरुणारिष्टकमयं रूचकं सेन्दुकं तथा!सततं धारयेच्चापि कृतं वा पौत्रजीविकम् । शुक्लाःसुमनसो लाजाः पयः शाल्योदनं तथा । बलिर्न्निवेद्योगोतीर्थे रेवत्यै प्रयतात्मना । सङ्गमे च भिषक्-स्नानं कुर्य्याद्वात्रीकुमारयोः । नानावस्त्रधरा देवी चित्रमा-ल्यानुलेपना । चलत्कुण्डलिनी श्यामा रेवती तेप्रसीदतु । लम्बा कराला विनता तथैव बहुपुत्रिका ।रेवती सततं माता सा ते देवी प्रसीदतु” ४ ।“अथातः पूतनाप्रतिषेधं व्याख्यास्यामः । कपोतवङ्काऽर-लुको वरुणः पारिभद्रकः । आस्फोता चैव येज्याः स्युर्व्वा-लानां परिषेचने । वचा व्यस्था गोलोमी हरितालं मनःशिला । कुष्ठं सर्ज्जरसश्चवि तैलार्थे वर्ग इष्यते । हितंघृतं तुगाक्षीर्य्यां सिद्धं मधुरकेषु च । कुष्ठतालीशखदिरंचन्दनस्यन्दने तथा । देवदारुवचाहिङ्गुकुष्ठं गिरिकद-म्बकः । एलाहरेणवश्चापि योज्या उद्धूपने सदा । ग-न्धनाकुलिकुम्भीकामज्जानो वदरस्य । कर्कटास्थि घृ-तञ्चैव धूपनं सर्षपैः सह । काकादनीं चित्रफलां वि-म्बीं गुञ्जाञ्च धारयेत् । मत्स्यौदनञ्च कुर्व्वीत कृशरंपललं तथा । शरावसम्पुटे कृत्वा बलिं शून्यगृहे हरेत् ।उच्छिष्टेनाभिषेकेण शिरसि स्नानमिष्वते । पूज्या चपूतना देवी बलिभिः सोपहारकैः । मलिनाम्बरसंवी-ता मलिना रूक्षमूर्द्धजा । शून्यागाराश्रिता देवी दारकंपांतु पूतना । दुर्द्दर्शना सुदुर्गन्धा कराला मेघकालिका । भिन्नागाराश्रया देवी दारकं पातु पूतना” ५ ।“अथातोऽन्धपूतनाप्रतिसेधं व्यास्थास्यामः । तिक्तकद्रुमपत्राणां कार्य्यंः क्वाथोऽवसेचने । सुरासौवीरकं कुष्ठंहरितालं मनःशिला । तथा सर्ज्जरसश्चैव तैलार्थमुपदि-श्यते । पिप्पलः पिप्पलीमूलं वर्गो मधुरको मधु । शालपर्णीवृहत्यौ च घृतार्थमुपदिश्यते । सर्व्वगन्धैः प्रदेहश्च गा-त्रेष्वक्ष्णोश्च शीतलैः । पूरीषं कौक्कुटं केशांश्चर्म्म सर्प-त्वचन्तथा । जीर्णाञ्च भिक्षुसङ्घाटीं धूपनायोपकल्पयेत् ।कुक्कुटीं मर्कटीं शिम्बीमनन्ताञ्चापि धारयेत् । मांसमामंतथा पक्वं शोणितञ्च चतुःपथे । निवेद्यमन्तश्च मृहेशिशोरक्षानिमित्ततः । शिशोश्च स्नपनं कुर्य्यात् सर्व्व गन्धा-दिकैः शुभैः । कराला पिङ्गला मुण्डा कषायाम्बरबा-सिनी । देवी बालमिमं प्रीता संरक्षत्वन्धपतना” ६ ।“अथातः शीतपूतनाप्रतिषेमं व्याख्यास्यामः । कपित्थं सु-वहां विम्बीन्तथा विल्वं प्रचीबलम् । नन्दीं भल्लात-कीञ्चापि परिषेके प्रयोजयेत् । वस्तमूत्रं गवां मूत्रं सुस्तञ्चसुरदारु च । कुष्ठञ्च सर्व्वगन्धञ्च तैलार्थमवचारयेत् ।रोहिणीसर्ज्जखदिरपलाशककुभत्वचः । निःक्वाथ्यतस्मिन्निःक्वाथे सक्षीरं विपचेत्ततः । गृध्रोलूकपूरीषाणिवस्तगन्धामहेस्त्वचः । निम्बपत्राणि मधुकं धूपनार्थेप्रयोजयेत् । धारयेदपि लम्बाञ्च गुञ्जां काकादनीं तथा ।नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम् । देव्यै देयश्चोप-हारो वारुणीरुधिरं तथा । जलाशयान्ते बालस्य स्नपनंचोपदिश्यते । मुद्गौदनाशना देवी सुराशोणितपायिनी ।जलाशयालया देवी पातु त्वां शीतपूतना” ७ ।“अथातोमुखमण्डिकाप्रतिषेधं व्याख्यास्यामंः । कपित्थ-विल्वतर्क्कारीमांसीगन्धर्वहस्तकाः । कुवेराक्षी च योज्याःस्युर्बालानां परिषेचने । सरसैर्भृङ्गवृक्षाणां तथा-जहरिगन्धयोः । तैलं वसाञ्च संयोज्य पचेदभ्यञ्जनेशिशोः । मधूलिकायां पयसि तुगाक्षीर्य्याङ्गणे तथा ।मधुरे पञ्चमूले च कनीयसि वृतं पचेत् । वचासर्ज्जरसःकुष्ठं सर्पिश्चोद्धूपने हितम् । धारयेदपि जिह्वाश्च चाष-चीरल्लिसर्प्पजाः । वर्णकं चूर्ण्णकं माल्यमञ्जनं पारदंतथा । मनःशिलाञ्चोपहरेद्गोष्ठमध्ये बलिं तथा । पायसंसपुरोडाशं बल्यर्थ मुपहारयेत् । मन्त्रपूताभिरद्भिश्च तत्रैवस्नपनं हितम् । अलङ्कृता रूपवती सुभगा कामरूपिणी ।गोष्टमध्यालयरता पातु त्वां मुखमण्डिका” ८ ।“अथातो नैगमेयप्रतिषेधं व्याख्यास्यामः । विल्वाग्नि-न्थिपूतीकाः कार्य्याः स्युः परिषेचने । सुरासौवीरधा-त्याम्लैः परिषेकश्च शस्यते । प्रियङ्गुसरलानन्ताशत-पुष्फाकुटन्नटैः । पचेत्तैलं सगोमूत्रैर्दधिमन्त्वम्लका-ञ्जिकैः । पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु च । पचेद्-घृतञ्च मेधावी खर्ज्जूरीमस्तकेऽपि च । वचां वयस्थांगोलोभीं जटिलां चापि धारयेत् । उत्सादनं हितंचात्र स्कन्दापस्मारनाशनम् । सिद्धार्थ कवचाहिङ्गु-कुष्ठञ्चेंवाक्षतैः सह । भल्लातकाजमोदाश्च हितमुद्धूपनंशिशोः । मर्क्कटोलूकगृध्राणां पूरीषाणि नवग्रहे । धूपःसुप्ते जने कार्य्योबालस्यहितमिच्छता । तिलतण्डुलकंमाल्यं भक्ष्यांश्च विविधानपि । कुमारपितृमे-धाय वृक्षमूले निवेदयेत् । अधस्ताद्वटवृक्षस्य स्नपनंचोपदिश्यते । बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवे-दयेत् । अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः ।बालं पालयिता देवो नैगमेयोऽभिरक्षतु” ९ ।“अथातोग्रहोत्पत्तिमध्यायं व्याख्यास्यामः । नव स्क-न्दादयः प्रोक्ता बालानां य इमे ग्रहाः । श्रीमन्तोदिव्यवपुषो नारीपुरुषविग्रहाः । एते गुहस्व रक्षार्थंकृत्तिकोमाग्निशूलिभिः । सृष्टाः शरवणस्थस्य रक्षि-तस्यात्मतेजसा । स्त्रीविग्रहा ग्रहा वे तु नाना-रूपा मयेरिताः । गङ्गोमाकृत्तिकानाञ्च ते भागाराजसा मताः । नैगमेयस्तु पार्व्वत्या सृष्टो मेषान-नो ग्रहः । कुमारधारो देवस्य गुहस्यात्मसमः सखा ।स्कन्दापस्मारसंज्ञो यः सोऽग्निनाग्निसमद्युतिः । सच स्कन्दसखो नाम विशाख इति चोच्यते । स्कन्दः-सृष्टो भगवता देवेन त्रिपुरारिणा । बिभर्त्ति चापरांसंज्ञां कुमार इति स ग्रहः । बाललीलाधरो योऽयं देवोरुद्राग्निसम्भवः । मिथ्याचारेषु भगवान् स्वयं नैषप्रवर्त्तते । कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः ।गृह्लन्तीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः । ततो भगवतिस्कन्दे सुरसेनापतौ कृते । उपतस्थुर्ग्रहाः सर्व्वे दीप्त-शक्तिधरं गुहम् । उचुः प्राञ्जलयश्चैनं वृत्तिं नः संवि-धत्स्व वै । तेषामर्थे ततः स्कन्दः शिवं देवमचोद-यत् । ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् ।तिर्य्यग्योर्नि मानुषञ्च दैवञ्च त्रितयं जगत् । परस्प-रोपकारेण वर्त्तते धार्य्यतेऽपि च । देवा मनुष्यान् प्रीणन्तितैर्य्यग्योनींस्तथैव च । वर्त्तमानैर्य्यथाकालं शीतवर्षोष्ण-मारुतैः । इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः ।नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् । भागधेयंविभक्तञ्च शेषं किञ्चिन्न विद्यते । तद्युष्माकं शुभा वृत्ति-र्ब्बालेष्वेव भविष्यति । कुलेषु येषु नेज्यन्ते देवाः पितरएव च । व्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा ।निवृत्ताचारशौचेषु परपाकोपभोजिषु । उच्छन्नबलिभिक्षेषुभिन्नकांस्योपमोजिषु । गृहेषु तेषु ये बालास्तान् गृ-ह्णीध्वमशङ्गिताः । तत्र वो विपुला वृत्तिः पूजा चैवभविष्यति । एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चा-प्यतः । ग्रहोपसृष्टा बालास्तु दुश्चिकत्स्यतमा मताः ।वैकल्यं मरणं चाशु ध्रुवं स्कन्दग्रहे मतम् । स्कन्द-ग्रहोत्य ग्रतमः सर्वेष्वेव यतःस्मृतः । अन्योवा सर्वरूप-स्तु न साध्यो ग्रह उच्यते” । “कुमारभृत्याकुशलै-रनुष्ठिते भिषग्वराप्तैरथ गर्भभर्मणि” रघुः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
