| YouTube Channel

कुमारभृत्या (kumArabhRtyA)

 
शब्दसागरः
English
कुमारभृत्या
f.
(-त्या) Care of a pregnant or lying-in woman, midwifery.
E.
कुमार a child, and भृत्या cherishing.
Yates
English
कुमार-भृत्या (त्या) 1.
f.
Care of a
pregnant or lying-in woman,
midwifery
nursing.
Wilson
English
कुमारभृत्या
f.
(-त्या) Care of a pregnant or lying-in woman,
midwifery.
E.
कुमार a child, and भृत्या cherishing.
Monier Williams Cologne
English
कुमार—भृत्या
f.
care of a young child or of a pregnant or lying-in woman, midwifery,
Ragh.
iii, 12.
Apte Hindi
Hindi
कुमारभृत्या
स्त्री*
कुमार-भृत्या -
छोटे-छोटे बच्चों की देखरेख
कुमारभृत्या
स्त्री*
कुमार-भृत्या -
"गर्भावस्था में स्त्री की देखरेख, प्रसूति विद्या"
Shabdartha Kaustubha
Kannada
कुमारभृत्या
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸೂಲಗಿತ್ತಿತನ /ಧಾತ್ರಿಯ ಕಾರ್ಯ /ಆಯುರ್ವೇದದ ಅಂಗಗಳಲ್ಲೊಂದು
व्युत्पत्तिः - > कुमारस्य भृत्या भरणम्
L R Vaidya
English
kumAra-BftyA {% f. %} 1. care of a young child
2. care of a woman in pregnancy or confinement, midwifery, R.iii.12.
शब्दकल्पद्रुमः
Sanskrit
कुमारभृत्या,
स्त्री,
(कुमारस्य गर्भस्य निर्विघ्नप्रस-वार्थं गर्भचिकित्साकुशलैः भिषग्भिः धात्र्या वाभृत्या पालनम् ।) गर्भिण्याः परिचर्य्या इतिहारावली
तत्पर्य्यायः बालतन्त्रम् गर्भिण्य-वेक्षणम् इति त्रिकाण्डशेषः
(यथा, रघुः १२ ।“कुमारभृत्याकुशलैरनुष्ठितेभिषग्भिराप्तैरथ गर्भभर्म्मणि ।पतिः प्रतीतः प्रसवोन्मुखीं प्रियांददर्श काले दिवमभ्रितामिव”
)
वाचस्पत्यम्
Sanskrit
कुमारभृत्या स्त्री भृ--क्यप् भृत्या भरणम् त० कुमार-रक्षणोपायभूते सुश्रुतोक्ते कौमारभृत्याख्ये कौमारतन्त्रे ।कुमारभृत्या अधिकृत्यम् प्रवृत्तं तन्त्रम् अण् कौमारभृत्यकुमाररक्षणोपायज्ञापके तच्छास्त्रांशे “शल्यं शालक्यंकायचिकित्सा भूतविद्या कौमारभृत्ये त्यादिना अष्टधा-शास्त्रं विभज्य तल्लक्षणमुक्तं तत्रैव यथा“कौमारभृत्यं नाम कुमारभरणधात्रीक्षीरदोषसंशोध-नार्थं दुष्टस्तन्यग्रहसमुत्थानाञ्च व्याधीनामुपशमनार्थम् ।विवृतमुत्तरत्र तत्रैव यथा“नवग्रहाकृतिज्ञानं स्कन्दस्य निषेधनम् अपस्मार-शकुन्योञ्च रेवत्याश्च पुनःपृथक् पूतनायास्तथान्धायामण्डिका शीतपूतना नैगमेयचिकित्सा ग्रहोत्पत्तिःसयोनिजा कौमारतन्त्रमित्येतच्छारीरेषु कीर्त्ति-तम्” ।तत्प्रकारस्तत्रैव उत्तरतन्त्रे दर्शितो यथा“अथातो नवग्रहाकृतिविज्ञानीयमध्यायं व्याख्यास्यामः ।वालग्रहाणां विज्ञान साधनञ्चाप्यनतरम् ऊत्पत्तिंकारणञ्चैव सुश्रुतैकमनाः शृणु स्कन्दग्रहस्तु प्रथमः२ स्कन्दापस्मार एवच शकुनी रेवती चैव पूतना चा-न्धपूतना पूतना शीतनामा तथैव मुखमण्डि-का नवसो नैगमेयश्च यः पिष्टग्रहसंज्ञितः धात्रीमा-त्रोःप्राक् प्रदिष्टापचाराच्छौचभ्रष्टान्मङ्गलाचारहीनान् ।त्रस्तान् हृष्टांस्तर्ज्जितान् क्रन्दितान्वा पूजाहेतोर्हिंस्युरेतेकुमारात् ऐश्वर्य्यस्थास्ते शक्या विशन्तो देहं दुष्टंमानुषैर्विश्वरूपाः आप्तं वाक्यं तत्समीक्ष्याभिधास्ये लि-ङ्गान्येषां यानि देहे भवन्ति शूनाक्षः क्षतजसगन्धिकःस्तनद्विड्वक्रास्यो हतचलितैकपक्ष्मनेत्रः उद्विग्नः सुलु-लितचक्षुरल्परोदी स्कन्दार्त्तो भवति गाढमुष्टिवर्च्चाः ।निःसंज्ञो भवति पुनर्भवेद्विसंज्ञः संरब्धः करचरणैश्च नृत्य-तीव विण्मुत्रे सृजति विनद्य जृम्भमाणः फेनञ्च प्रसृ-जति तत्सखाभिपन्नः स्रस्ताङ्गो भयचकितो विहङ्ग-गन्धिः संस्राविव्रणपरिपीडितः समन्तात् स्फोटैश्च प्रत-ततनुः सदाहपाकैर्विज्ञेयो भवति शिशुः क्षतः शकुन्या ।रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा ज्वरमुख-पाकवेदनार्त्तः रेवत्या व्यंथततनुश्च कर्णनासं मृद्नातिघ्रुवमभिपीडितः कुमारः स्रस्ताङ्गः स्वपिति सुखं दिवान रात्रौ विडमिन्नं सृजति काकतुल्यगन्धिः छर्द्या-र्त्तो हृषिततनूरुहः कुमारस्तृष्णालुर्भवति पूतनागृ-हीतः यो द्वेष्टि स्तनमतिसारकासहिक्काच्छर्दीभि-र्ज्वरसहिताभिरर्द्यमानः दुर्वर्णः सततमधःशयोऽम्लग-न्धिस्तं ब्रूयुर्वरभिषजोऽन्धपूतनार्त्तम् उद्विग्नो भृश-म तवेपते प्ररुद्यात् संलीनः स्वपिति यस्य चान्त्रकूजः ।विस्राङ्गो भृशमतिसार्य्यते यस्तं जानीयाद्भिषगिहशीतपूतनार्त्तम् म्लानाङ्गः सुरुचिरपाणिपादवक्त्रो ब-ह्नाशी कलुषासरावृतोदरो यः सोद्वेगो भवति मू-त्रतुल्यगन्धिः ज्ञेयः शिशुरथ वक्त्रमण्डिकार्त्तः यःफेनं वमति विनम्यते मध्ये सोद्वेगं बिलपति चोर्द्ध्व-मीक्षमाणः जीर्य्येत प्रततमथो वसासगन्धि र्न्निःसंज्ञोभवति हि नैगमेयजुष्टः प्रस्तब्धो यः स्तनद्वेषी मु-ह्यते चाविशन्मुहुः तं बालं चिराद्धन्ति ग्रहः सम्पूर्णलक्षणः विरीतमतःसाध्यं चिकत्सेदचिरार्दितम् ।गृहे पुराणहविषाभ्यज्य बालं शुचौ शुचिः सर्षपान्प्रकिरेत्तेषां तैलैर्दीप्रञ्च कारयेत् सदा सन्निहितञ्चापिजुहुयाद्ध्वव्यवाहनम् सर्वगन्धौषधीवीजैर्गन्धमाल्यैर-लङ्कृतम् अग्नये कृत्तिकाभ्यश्च स्वाहा स्वाहेति संस्म-रन् नमः स्कन्दाय देवाय ग्रहाधिपतये नमः शि-रसा त्वाभिवन्देऽहं प्रतिगृह्णीष्व मे बलिम् नीरु-जो निर्विकारश्च शिशुर्म्मे जायतां ध्रुवम् ।अथातः स्कन्दग्रहप्रतिषेधं व्याख्यास्यामः स्कन्दग्रहो-पसृष्टानां कुमाराणाञ्च शस्यते वातघ्नद्रुमपत्राणांनिःक्वाथःपरिषेचने तेषां मूलेषु सिद्धञ्च तैलमभ्यञ्जने हितम् ।सर्वगन्धसुरामण्डकैटर्य्यावापमिष्यते देवदारुणि रा-स्नायां मधुरेषु द्रुमेषु सिद्धं सर्पिश्च सक्षीरं पान-मस्मै प्रयोजयेत् सर्षपा सर्पनिर्म्मोको वचा काकादनीघृतम् उष्ट्राजाविगवाञ्चैव रोमाण्युद्धूपनं शिशोः ।सोमवल्लीमिन्द्रवल्लीं शमीं विल्वस्य कण्टकान् मृगाद-न्याश्च मूलानि ग्रथितान्येव धारयेत् रक्तानि माल्यानितथा पताका रक्ताश्च गन्धा बिविधाश्च भक्ष्याः घण्टाच देवाय बलिर्न्निवेद्यः सकुक्कुटः स्कन्दगृहे हिताय ।स्नानं त्रिरात्रं निशि चत्वरेषु कुर्य्यात्पुनः शालियवैर्न्न-वैस्तु अद्भिश्च गायत्र्यभिमन्त्रिताभिः प्रज्वालनं चाहु-तिभिश्च वह्नेः रक्षामतः प्रवक्ष्यामि बालानां फाप-नाशिनीम् अहन्यहनि कर्त्तव्या या भिषग्मिरत-न्द्रितैः तपसां तेजसां चैव यशसां वपुषां तथा ।निधानं योऽव्ययो देवः ते स्कन्दः प्रसीदतु ग्रहसेनापतिर्देवो देवसेनापतिर्बिभुः देवसेनापरिपुहरः पातुत्वां भगवान् गुहः देव देवस्य महतः पावकस्य यःसुतः गङ्गोमाकृत्तिकानाञ्च ते शर्म्म प्रयच्छतु रक्त-माल्याम्बरः श्रीमान् रक्तचन्दनभूषितः रक्तदिब्यवपुर्द्देवःपातु त्वां क्रौञ्चसूदनः” ।“अथातः स्कन्दापस्मारप्रतिषेधं व्याख्यास्यामः विल्वःशिरीषो गोलोमी सुरसादिश्च यो गणः परिषेके प्रयो-क्तव्यः स्कन्दापस्मारशान्तये सर्वगन्धविपक्वन्तु तैलम-भ्यञ्जने हितम् क्षीरवृक्षकषाये काकोल्यादौ गणेतथा विपक्तव्यं घृते वापि पानीयं पयसान्वितम् ।उत्सादनं वचाहिङ्गुयुक्तं स्कन्दग्रहे हितम् गृध्रोलू-कपुरीषाणि केशाहस्तिनखा घृतम् वृषभस्य रोमाणियोज्यान्युद्धूपनेऽपि अनन्तां कुक्कुटीं विम्बीं मर्क्क-टीञ्चापि धारयेत् पक्कापक्कानि मांसानि प्रसन्नं रुधिरंपयः घृतोदनो निवेद्यश्च स्कन्दापस्मारिणोऽवटे ।चतुःपथे कर्त्तव्यं स्नानमस्य यतात्मना स्कन्दाप-स्मारसंज्ञोयः स्कन्दस्य दयितः सखा विशाखसंज्ञश्चशिशोः शिवोऽस्तु विकृताननः” ।“अथातः शकुनीप्रतिषेधं व्याख्यास्यामः शकुन्यभिपरीतस्यकार्य्यो वैद्येन जानता वेतसाम्रकपित्थानां निःक्वाथःपरिषेचने कषायमधुरैस्तैलं कार्य्यमग्थञ्जने शिशोः ।मधुकोशीरह्रीवेरशारिवोत्पलपद्मकैः रोध्रप्रियङ्गुमञ्जि-ष्ठागैरिकैः प्रदिहेच्छिशुम् व्रणेषूक्तानि चूर्णानि पथ्या-नि विविधानि स्कन्दग्रहे धूपनानि तानीहापिप्रयोजयेत् शतावरीमृगैर्वारुनागदत्तीनिदिग्धिकाः ।लक्ष्मणां सहदेवीञ्च वृहतीञ्चापि धारयेत् तिलतण्डु-लकं माल्यं हरितालं मनःशिला बलिरेष करञ्जेषुनिवेद्यो नियतात्मना निकुञ्चे प्रयोक्तव्यं स्नानमस्ययथाविधि स्कन्दग्रहोपशमनं घृतं तच्चेह पूजितम् ।कुर्य्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः अन्तरि-क्षचरा देवी सर्वालङ्कारभूषिता अवोमुखी तीक्ष्णतुण्डाशकुनीते प्रसीदतु दुर्द्दर्शना महाकाया पिङ्गाक्षी भैर-वस्वना लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु” ।“अथातो रेवतीप्रतिषेधं व्याख्यास्वामः अश्वगन्न्धाजशृङ्गीच शारिवा सपुनर्न्नवा सुहे विदारी तथा कषायाःसेचने हिताः तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्ज्जरसेऽपिवा धवाश्वकर्णककुभधातकीतिन्द कीषु काकोल्या-दिगणे चैवं पानीयं सर्प्पिरिष्यते कुलत्थाः शङ्खचूर्णञ्चप्रदेहाः सर्वगन्धिकाः गृध्रोलूकपूरीषाणि यवायवफखी घृतम् सन्ध्ययोरुभयोः कार्य्यमेतदुद्ध्वूपर्नेशिशोः वरुणारिष्टकमयं रूचकं सेन्दुकं तथा!सततं धारयेच्चापि कृतं वा पौत्रजीविकम् शुक्लाःसुमनसो लाजाः पयः शाल्योदनं तथा बलिर्न्निवेद्योगोतीर्थे रेवत्यै प्रयतात्मना सङ्गमे भिषक्-स्नानं कुर्य्याद्वात्रीकुमारयोः नानावस्त्रधरा देवी चित्रमा-ल्यानुलेपना चलत्कुण्डलिनी श्यामा रेवती तेप्रसीदतु लम्बा कराला विनता तथैव बहुपुत्रिका ।रेवती सततं माता सा ते देवी प्रसीदतु” ।“अथातः पूतनाप्रतिषेधं व्याख्यास्यामः कपोतवङ्काऽर-लुको वरुणः पारिभद्रकः आस्फोता चैव येज्याः स्युर्व्वा-लानां परिषेचने वचा व्यस्था गोलोमी हरितालं मनःशिला कुष्ठं सर्ज्जरसश्चवि तैलार्थे वर्ग इष्यते हितंघृतं तुगाक्षीर्य्यां सिद्धं मधुरकेषु कुष्ठतालीशखदिरंचन्दनस्यन्दने तथा देवदारुवचाहिङ्गुकुष्ठं गिरिकद-म्बकः एलाहरेणवश्चापि योज्या उद्धूपने सदा ग-न्धनाकुलिकुम्भीकामज्जानो वदरस्य कर्कटास्थि घृ-तञ्चैव धूपनं सर्षपैः सह काकादनीं चित्रफलां वि-म्बीं गुञ्जाञ्च धारयेत् मत्स्यौदनञ्च कुर्व्वीत कृशरंपललं तथा शरावसम्पुटे कृत्वा बलिं शून्यगृहे हरेत् ।उच्छिष्टेनाभिषेकेण शिरसि स्नानमिष्वते पूज्या चपूतना देवी बलिभिः सोपहारकैः मलिनाम्बरसंवी-ता मलिना रूक्षमूर्द्धजा शून्यागाराश्रिता देवी दारकंपांतु पूतना दुर्द्दर्शना सुदुर्गन्धा कराला मेघकालिका भिन्नागाराश्रया देवी दारकं पातु पूतना” ।“अथातोऽन्धपूतनाप्रतिसेधं व्यास्थास्यामः तिक्तकद्रुमपत्राणां कार्य्यंः क्वाथोऽवसेचने सुरासौवीरकं कुष्ठंहरितालं मनःशिला तथा सर्ज्जरसश्चैव तैलार्थमुपदि-श्यते पिप्पलः पिप्पलीमूलं वर्गो मधुरको मधु शालपर्णीवृहत्यौ घृतार्थमुपदिश्यते सर्व्वगन्धैः प्रदेहश्च गा-त्रेष्वक्ष्णोश्च शीतलैः पूरीषं कौक्कुटं केशांश्चर्म्म सर्प-त्वचन्तथा जीर्णाञ्च भिक्षुसङ्घाटीं धूपनायोपकल्पयेत् ।कुक्कुटीं मर्कटीं शिम्बीमनन्ताञ्चापि धारयेत् मांसमामंतथा पक्वं शोणितञ्च चतुःपथे निवेद्यमन्तश्च मृहेशिशोरक्षानिमित्ततः शिशोश्च स्नपनं कुर्य्यात् सर्व्व गन्धा-दिकैः शुभैः कराला पिङ्गला मुण्डा कषायाम्बरबा-सिनी देवी बालमिमं प्रीता संरक्षत्वन्धपतना” ।“अथातः शीतपूतनाप्रतिषेमं व्याख्यास्यामः कपित्थं सु-वहां विम्बीन्तथा विल्वं प्रचीबलम् नन्दीं भल्लात-कीञ्चापि परिषेके प्रयोजयेत् वस्तमूत्रं गवां मूत्रं सुस्तञ्चसुरदारु कुष्ठञ्च सर्व्वगन्धञ्च तैलार्थमवचारयेत् ।रोहिणीसर्ज्जखदिरपलाशककुभत्वचः निःक्वाथ्यतस्मिन्निःक्वाथे सक्षीरं विपचेत्ततः गृध्रोलूकपूरीषाणिवस्तगन्धामहेस्त्वचः निम्बपत्राणि मधुकं धूपनार्थेप्रयोजयेत् धारयेदपि लम्बाञ्च गुञ्जां काकादनीं तथा ।नद्यां मुद्गकृतैश्चान्नैस्तर्पयेच्छीतपूतनाम् देव्यै देयश्चोप-हारो वारुणीरुधिरं तथा जलाशयान्ते बालस्य स्नपनंचोपदिश्यते मुद्गौदनाशना देवी सुराशोणितपायिनी ।जलाशयालया देवी पातु त्वां शीतपूतना” ।“अथातोमुखमण्डिकाप्रतिषेधं व्याख्यास्यामंः कपित्थ-विल्वतर्क्कारीमांसीगन्धर्वहस्तकाः कुवेराक्षी योज्याःस्युर्बालानां परिषेचने सरसैर्भृङ्गवृक्षाणां तथा-जहरिगन्धयोः तैलं वसाञ्च संयोज्य पचेदभ्यञ्जनेशिशोः मधूलिकायां पयसि तुगाक्षीर्य्याङ्गणे तथा ।मधुरे पञ्चमूले कनीयसि वृतं पचेत् वचासर्ज्जरसःकुष्ठं सर्पिश्चोद्धूपने हितम् धारयेदपि जिह्वाश्च चाष-चीरल्लिसर्प्पजाः वर्णकं चूर्ण्णकं माल्यमञ्जनं पारदंतथा मनःशिलाञ्चोपहरेद्गोष्ठमध्ये बलिं तथा पायसंसपुरोडाशं बल्यर्थ मुपहारयेत् मन्त्रपूताभिरद्भिश्च तत्रैवस्नपनं हितम् अलङ्कृता रूपवती सुभगा कामरूपिणी ।गोष्टमध्यालयरता पातु त्वां मुखमण्डिका” ।“अथातो नैगमेयप्रतिषेधं व्याख्यास्यामः विल्वाग्नि-न्थिपूतीकाः कार्य्याः स्युः परिषेचने सुरासौवीरधा-त्याम्लैः परिषेकश्च शस्यते प्रियङ्गुसरलानन्ताशत-पुष्फाकुटन्नटैः पचेत्तैलं सगोमूत्रैर्दधिमन्त्वम्लका-ञ्जिकैः पञ्चमूलद्वयक्वाथे क्षीरे मधुरकेषु पचेद्-घृतञ्च मेधावी खर्ज्जूरीमस्तकेऽपि वचां वयस्थांगोलोभीं जटिलां चापि धारयेत् उत्सादनं हितंचात्र स्कन्दापस्मारनाशनम् सिद्धार्थ कवचाहिङ्गु-कुष्ठञ्चेंवाक्षतैः सह भल्लातकाजमोदाश्च हितमुद्धूपनंशिशोः मर्क्कटोलूकगृध्राणां पूरीषाणि नवग्रहे धूपःसुप्ते जने कार्य्योबालस्यहितमिच्छता तिलतण्डुलकंमाल्यं भक्ष्यांश्च विविधानपि कुमारपितृमे-धाय वृक्षमूले निवेदयेत् अधस्ताद्वटवृक्षस्य स्नपनंचोपदिश्यते बलिं न्यग्रोधवृक्षेषु तिथौ षष्ठ्यां निवे-दयेत् अजाननश्चलाक्षिभ्रूः कामरूपी महायशाः ।बालं पालयिता देवो नैगमेयोऽभिरक्षतु” ।“अथातोग्रहोत्पत्तिमध्यायं व्याख्यास्यामः नव स्क-न्दादयः प्रोक्ता बालानां इमे ग्रहाः श्रीमन्तोदिव्यवपुषो नारीपुरुषविग्रहाः एते गुहस्व रक्षार्थंकृत्तिकोमाग्निशूलिभिः सृष्टाः शरवणस्थस्य रक्षि-तस्यात्मतेजसा स्त्रीविग्रहा ग्रहा वे तु नाना-रूपा मयेरिताः गङ्गोमाकृत्तिकानाञ्च ते भागाराजसा मताः नैगमेयस्तु पार्व्वत्या सृष्टो मेषान-नो ग्रहः कुमारधारो देवस्य गुहस्यात्मसमः सखा ।स्कन्दापस्मारसंज्ञो यः सोऽग्निनाग्निसमद्युतिः सच स्कन्दसखो नाम विशाख इति चोच्यते स्कन्दः-सृष्टो भगवता देवेन त्रिपुरारिणा बिभर्त्ति चापरांसंज्ञां कुमार इति ग्रहः बाललीलाधरो योऽयं देवोरुद्राग्निसम्भवः मिथ्याचारेषु भगवान् स्वयं नैषप्रवर्त्तते कुमारः स्कन्दसामान्यादत्र केचिदपण्डिताः ।गृह्लन्तीत्यल्पविज्ञाना ब्रुवते देहचिन्तकाः ततो भगवतिस्कन्दे सुरसेनापतौ कृते उपतस्थुर्ग्रहाः सर्व्वे दीप्त-शक्तिधरं गुहम् उचुः प्राञ्जलयश्चैनं वृत्तिं नः संवि-धत्स्व वै तेषामर्थे ततः स्कन्दः शिवं देवमचोद-यत् ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् ।तिर्य्यग्योर्नि मानुषञ्च दैवञ्च त्रितयं जगत् परस्प-रोपकारेण वर्त्तते धार्य्यतेऽपि देवा मनुष्यान् प्रीणन्तितैर्य्यग्योनींस्तथैव वर्त्तमानैर्य्यथाकालं शीतवर्षोष्ण-मारुतैः इज्याञ्जलिनमस्कारजपहोमव्रतादिभिः ।नराः सम्यक् प्रयुक्तैश्च प्रीणन्ति त्रिदिवेश्वरान् भागधेयंविभक्तञ्च शेषं किञ्चिन्न विद्यते तद्युष्माकं शुभा वृत्ति-र्ब्बालेष्वेव भविष्यति कुलेषु येषु नेज्यन्ते देवाः पितरएव व्राह्मणाः साधवश्चैव गुरवोऽतिथयस्तथा ।निवृत्ताचारशौचेषु परपाकोपभोजिषु उच्छन्नबलिभिक्षेषुभिन्नकांस्योपमोजिषु गृहेषु तेषु ये बालास्तान् गृ-ह्णीध्वमशङ्गिताः तत्र वो विपुला वृत्तिः पूजा चैवभविष्यति एवं ग्रहाः समुत्पन्ना बालान् गृह्णन्ति चा-प्यतः ग्रहोपसृष्टा बालास्तु दुश्चिकत्स्यतमा मताः ।वैकल्यं मरणं चाशु ध्रुवं स्कन्दग्रहे मतम् स्कन्द-ग्रहोत्य ग्रतमः सर्वेष्वेव यतःस्मृतः अन्योवा सर्वरूप-स्तु साध्यो ग्रह उच्यते” “कुमारभृत्याकुशलै-रनुष्ठिते भिषग्वराप्तैरथ गर्भभर्मणि” रघुः