| YouTube Channel

कुबि (kubi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कुम्ब्
मूलधातुः:
कुबि
धात्वर्थः:
आच्छादने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
कुम्बति
अनुबन्धादिविशेषः:
कुबेरः
धातुः:
कुम्ब्
मूलधातुः:
कुबि
धात्वर्थः:
आच्छादने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
कुम्बयति-ते, कुम्बति-ते
अनुबन्धादिविशेषः:
इदित्
धातुप्रदीपः
Sanskrit
कुबिँ कुबि आच्छादने
- कुम्बति चुकुम्ब कुम्बा ।। 426 ।।
कुबिँ कुबि आच्छादने
- कुम्बयति कुम्बा 116
धातुवृत्तिः
Sanskrit
कुबिँ कुबि (अर्थः) छादने
( कुम्बतीत्यादि कुम्बा ) गुरुमत्त्वादकारः "चिन्तिपूजिकथिकुम्बिचर्चश्च'' इत्यङ्विधौ चौरादिकस्य ग्रहणम् 423
कुबिँ कुबि (अर्थः) छादने
( कुम्बयति कुम्बति कुम्बा )द्य "चिन्तिपूजि'' इत्यादिना युचोऽपवादोऽकारः एवं स्वामिकाश्यपमैत्रेयादयो बशन्तं पठन्ति अपरे तु भकारान्तं पठन्ति, कुम्भयतीत्यादि 120
कृदन्तरूपमाला
Sanskrit
1 {@“कुबि आच्छादने”@} 2 ‘णिचि कुंबयतीति स्याच्छादने शपि कुम्बति।।’ 3 इति देवः।
कुम्बकः-म्बिका, कुम्बकः-म्बिका, चुकुम्बिषकः-षिका, चोकुम्बकः-म्बिका, 4 कुम्बिता-त्री, कुम्बयिता-त्री, चुकुम्बिषिता-त्री, चोकुम्बिता-त्री, 5 कुम्बितः
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककुठि 6 धातुवज्ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(२२६)
02
=>
(१-भ्वादिः-४२६। सक। सेट्। पर।)
03
=>
(श्लो-१४०)
04
=>
[पृष्ठम्०२१५+ २६]
05
=>
[[आ। ‘ऊर्ध्वप्रसर्बान्न तु चर्बिता मही दिक्कुंबितेऽर्के परिलुम्बि{??}ताम्बुजे।।’ धा। का। १-५५।]]
06
=>
(२०९)
1 {@“कुबि आच्छादने”@} 2 ‘णिचि कुम्बयतीति स्यात्, छादने शपि कुम्बति।।’ 3 इति देवः।
‘कुभि’ इत्येके।
स्त्रियां ‘चिन्तिपूजिकथिकुम्बिचर्चश्च’ 4 इति युजपवादो अङ्, कुम्बा-इति रूपम्।
कुम्बकः-म्बिका, चुकुम्बयिषकः-षिका, कुम्बकः-म्बिका, चुकुम्बिषकः-षिका, चोकुम्बकः-म्बिका, इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककुण्ठयतिवत् 5 ज्ञेयानि।
इदित्करणात् णिचो वैकल्पिकत्वम्।
प्रासङ्गिक्यः
01
=>
(२२७)
02
=>
(१०-चुरादिः-१६५६-सक। सेट्। उभ।)
03
=>
(श्लो। १४०)
04
=>
(३-३-१०५)
05
=>
(२१०)