कुबलाश्व (kubalAzva)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Mahabharata
EnglishKubalāśva, v. Kuvalāśva.
वाचस्पत्यम्
Sanskritकुबलाश्व कुबलोऽश्वोऽस्य । १ दुर्वलाश्वयुक्ते सूर्य्यवंश्ये२ नृपभेदे तस्यधुन्धुमारसंज्ञाप्राप्तिः भा० व० २०१ अ०उक्ता यथा “मार्कण्डेय उवाच । इक्ष्वाकौ संस्थ्यिते राज-न्! शशादः पृथिवीमिमाम् । प्राप्तः परमधर्म्मात्मा सोऽयो-ध्यायां नृपोऽभवत् । शशादस्य तु दायादः ककुत्स्थो नामवीर्य्यवान् । अनेनाश्चापि काकुत्स्थः पृधुश्चानेनसः सुतः ।विष्वगश्वः पृथोः पुत्रस्तस्मादद्रिश्च जज्ञिवान् । अद्रेश्चयुवनाश्वस्तु श्रावस्तस्यात्मजोऽभवत् । तस्य श्रावस्तकोज्ञेयःश्रावस्ती येन निर्म्मिता । श्रावस्तस्य तु दायादोवृहदश्वो महाबलः । वृहदश्वस्य दायादः कुबलाश्व इतिस्मृतः । कुबलःश्वस्य पुत्राणां सहस्राण्येकविंशतिः ।सर्वे विद्यासु निष्णाता बलवन्तः सुदारुणाः । कुबलाश्वश्चपितृतो गुणैरभ्यधिकोऽभवत् । समये तं पिता राज्येवृहदश्वोऽभ्यषेचयत् । कुबलाश्वं महाराज । शूरमुत्तम-धार्म्मिकम् । पुत्रसंक्रामितश्रीस्तु वृहदश्वो महीपतिः ।जगाम तपसे धीमांस्तपोवनममित्रहा” । इत्युपक्रम्यमधुकैटभयोःसमुत्पत्तिबधकथान्ते २०३ अ०“मार्कण्डेयौवाच । धुन्धुर्नाम महाराज! तयोःपुत्रोःमहाद्युतिः । स तपोऽतप्यत महत् महावी-र्य्यपराक्रमः । अतिष्ठदेकपादेन कृशो धमनिसन्ततः ।तस्मै ब्रह्मा ददौ प्रीतो वरं वव्रे स च प्रभुम् ।देवदानवयक्षाणां सर्पगन्धर्वरक्षसाम् । अबध्योऽहं भवेयंवै वर एष वृतो मया । एवं भवतु गच्छेति तमुवाच पि-तामहः । स एवमुक्तस्तत्पादौ मूर्द्ध्नाऽऽस्पृश्य जगाम ह ।स तु धुन्धुर्वरं लब्ध्वा महावीर्य्यपराक्रमः । अनुस्मरन्पितृबधं द्रुतं विष्णुमुपागमत् । स तु देवान् स-गन्धर्वान् जित्वा धुन्धुरमर्षणः । बबाधे सर्वानसकृद्विष्णुंदेवांश्च वै भृशम् । समुद्रे बालुकापूर्णे उज्जालक इतिस्मृते । आगम्य च स दुष्टात्मा तं देशं भरतर्शभ! ।वाधते स्म परं शक्त्या तमुतङ्काश्रमं विभो! । अन्तर्भूमिगतस्तत्र बालुकान्तर्हितस्तथा । मधुकैटभयोः पुत्रोधुन्धुर्भीमपराक्रमः । शेते लोकविनाशाय तपोबलमुपा-श्रितः । उतङ्कस्याश्रमाभ्यासे निःश्वसन् पावकार्च्चिषः ।एतस्मिन्नेव काले तु राजा सवलवाहनः । उतङ्कविप्रस-हितः कुबलाश्वो महीपतिः । पुत्रैः सह महीपालः ।प्रययौ भरतर्षभ! । सहस्रैरेकविंशत्या पुत्राणामरिम-र्द्दनः । कुबलाश्वो नरपतिरन्वितो बलशालिनाम् । तमा-विशत्ततो विष्णुर्भगवांस्तेजसा प्रभुः । उतङ्कस्य नियोगेन लोकानां हितकास्यवा । तस्मिन् प्रयाते दुर्द्धर्षेदिवि शब्दो महानभूत् । एष श्रोमानबध्योऽद्य धुन्धु-मारो भविष्यति । दिव्यैश्च पुष्पैस्तं देवाः समन्तात् पर्य्य-वाकिरन् । देवदुन्दुमयश्चापि नेदुः स्वयमनीरिताः ।शीतश्च वायुः प्रववौ प्रयाणे तस्य धीमतः । विपां-शुलां महीं कुर्वन् ववर्ष च सुरेश्वरः । अन्तरीक्षे विमा-नानि देवतानां युधिमिर! । तत्रैव समवृश्यन्त धुन्धुर्यत्रमहासुरः । कुबलाश्वस्य धुन्धोश्च युद्धं कौतूहलान्विताः ।देवगन्धवसहिताः समवैक्षत्महर्षयः । नारायणेन कौरव्य!तेजसाप्यायितस्तदा । स गतो न्रपतिः क्षिप्रं पुत्रैस्तैःसर्वतो दिशम् । अर्णवं खानयामास कुबलाश्वोमहीपतिः ।कुबलाश्वस्य पुत्रैश्च तस्मिन् वै बालुकार्णवे । सप्तभिर्द्दिवसैःखात्वा दृष्टो धुन्धुर्म्महाबलः । आसीद्घोरं वपुस्तस्य बा-लुकान्तर्हितं महत् । दीप्यमानो यथा सूर्य्यस्तेजसाभरतर्षभ! । ततो धुन्धुर्म्महाराज! दिशमावृत्यपश्चिमाम् । सुप्तोऽभूद्राजशार्द्दूल! कालानलसम-द्युतिः । कुबलाश्वस्य पुत्रैस्तु सर्वतः परिवारितः ।अभिद्रुतः शरैस्तीक्ष्णैर्गदाभिर्म्मुसलैरपि । पट्टिशैः परिघैःप्रासैः खड्गैश्च विमलैः शितैः । स बध्यमानः सं-क्रुद्धः समुत्तस्थौ महाबलः । क्रुद्धश्चाभक्षयत्तेषां श-स्त्राणि विविधानि च । आस्याद्वमन् पावकं स संव-र्त्तकसमं तदा । तान् सर्वान्नृपतेः पुत्रानदहत् स्वेनतेजसा । मुखजेनाग्निना क्रुद्धो लोकानुद्वर्त्तयन्निव ।क्षणेन राजशार्द्दूल! पुरेव कपिलः प्रभुः । सगरस्यात्म-जान् क्रुद्धस्तदद्भुतमिवाभवत् । तेषु क्रोधाग्निदग्धेषुतदा भरतसत्तम! । तं प्रबुद्धं महात्मानं कुम्भकर्णमिवापरम् । आससाद महातेजाः कुबलाश्वो महीपतिः ।तस्य वारि महाराज! सुस्राव बहु देहतः । तदापीयततत्तेजो राजा वारिमयं नृप! । योगी योगेन वह्निञ्चशमयामास वारिणा । ब्रह्मास्त्रेण च राजेन्द्र! दैत्यंक्रूरपराक्रमम् । ददाह भरतश्रेष्ठ! सर्वलोकाभयाय वै ।सोऽस्त्रेण दग्ध्वा राजर्षिः कुबलाश्वो महासुरम् । सुर-शत्रुममित्रघ्नं त्रैलोक्येशैवापरः । धुन्धोर्बधात्तदाराजा कुबलाश्वो महामनाः । धुन्धुमार इति ख्यातोनाम्नाऽप्रतिरथोऽभवत्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
