| YouTube Channel

कुपथः (kupathaH)

 
Wordnet
Sanskrit
Synonyms:
कुपथः, कुमार्गः
noun
असाधुः मार्गः।
"ते अन्धकारे कुपथे अचरन्।"
Synonyms:
अपथम्, अपथिः, विमार्गः, कुपथः, असन्मार्गः
noun
चलनायोग्यः विकटः दुर्घटः वा मार्गः।
"अपथे सञ्चारः क्रियते इत्यतः तेन बहुविषमताः अनुभूताः।"
शब्दकल्पद्रुमः
Sanskrit
कुपथः,
पुं,
कुत्सितः पन्थाः (पाणिनिमते कापथइति नित्यं स्यात् वोपदेवमते तु “पथि पुरुषेवा” इति सूत्रेण विभाषया कोः कादेशः ।) का-पथः इति शब्दरत्नावली (यथा, श्रीमद्भागवते५ १० “स्वधर्म्मपथमकुतोभयमपहायकुपथपाषण्डमसमञ्जसं निजमनीषया मन्दः प्रवर्त्त-यिष्यति”
कुपथः सेव्यत्वेनास्त्यस्य अर्श आदित्वात् अच् ।कुपथगामिनि, त्रि यथा महाभारते ६७ २९ ।“कुपथस्तु महावीर्य्यः श्रीमान् राजन् ! महासुरः ।सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः”
)