| YouTube Channel

कुद्दालः (kuddAlaH)

 
Apte Hindi
Hindi
कुद्दालः
पुं*
- "कु - दृ - णिच् - अण्, पृषो*, कु - दल् - णिच् - अण् पृषो*"
"कुदाली, खुर्पा"
कुद्दालः
पुं*
- "कु - दृ - णिच् - अण्, पृषो*, कु - दल् - णिच् - अण् पृषो*"
कांचन वृक्ष
Wordnet
Sanskrit
Synonyms:
कोविदारः, चमरिकः, कुद्दालः, युगपत्रकः, काञ्चनारः, कणकारकः, ताम्रपुष्पः, कुदारः, रक्तकाञ्चनः, विदलः
noun
विभूषणार्थम् उपयुज्यमानानां विविधवर्णयुक्तानां पुष्पाणां वृक्षः।
"वाटिकायां कोविदारस्य भिन्नप्रकारकाः वृक्षाः सन्ति।"
Synonyms:
निर्लेखनम्, क्ष्णूः, अभ्रिः, कुद्दालः
noun
उपकरणविशेषः।
"निर्लेखनेन पात्रेभ्यः दुग्धं दधि इत्यादि निष्कास्यते।"
Synonyms:
काञ्चनारः, कोविदारः, चमरिकः, कुद्दालः, युगपत्रकम्, कणकारकः, कान्तपुष्पः, करकः, कान्तारः, यमलच्छदः, काञ्चनालः, ताम्रपुष्पः, कुदारः, रक्तकाञ्चनः, विदालः, कुण्डली, रक्तपुष्पः, चम्पः, युगपत्रः, कनकान्तकः, कनकारकः, कर्बुदारः, गण्डारिः, गिरिजः, चमरिकः, ताम्रपुष्पकः, महापुष्पः, युग्मपर्णः, युग्मपत्रः, वरलब्धः, विदलः, शोणपुष्पकः, सत्काञ्चनारः, सिंहास्यः, हयवाहनसङ्करः, हयवाहनशङ्करः, सुवर्णारः, स्वल्पकेसरी, आस्फोतः, कषायः
noun
वृक्षविशेषः यस्य पुष्पाणि शोभनीयानि सन्ति।
"उद्यानपालः काञ्चनारस्य शाखां अधोगृहीत्वा पुष्पाणि विचिनोति।"
Synonyms:
काञ्चनारः, कोविदारः, चमरिकः, कुद्दालः, युगपत्रकम्, कणकारकः, कान्तपुष्पः, करकः, कान्तारः, यमलच्छदः, काञ्चनालः, ताम्रपुष्पः, कुदारः, रक्तकाञ्चनः, विदालः
noun
काञ्चनारवृक्षस्य पुष्पम्।
"उद्यानपालः काञ्चनारस्य मालां विरचयति।"
शब्दकल्पद्रुमः
Sanskrit
कुद्दालः,
पुं,
(कुं भूमिं दालयति कु + दल् + णिच्+ अण् पृषोदरात् द्वित्वे साधुः ।) कोविदार-वृक्षः इत्यमरः २२
(यथास्य पर्य्यायाः ।“कोविदारश्चमरिकः कुद्दालो युगपत्रकः ।कुण्डलीताम्रपुष्पश्च स्मन्तकः स्वल्पकेशरी”
इति भावप्रकाशस्य पूर्व्वखण्डे भागे
गुणा-श्चास्य काञ्चनारशब्दे उक्ताः
) भूमिदारणास्त्रम् ।इति मेदिनी
कोदाल इति भाषा (यथामहाभारते १०७ २३ ।“समासाद्य विलं तच्चाप्यखनन् सगरात्मजाः ।कुद्दालैर्ह्रेषुकैश्चैव समुद्रं यत्नमास्थिताः”
)
कृदन्तरूपमाला
Sanskrit
1 {@“दल विशरणे”@} 2 घटादिः।
3 ‘दलिवलिस्खलिरणिध्वनित्रपिक्षपयश्च’ इति घटादिषु भोजसम्मतः पाठः।
भ्वादिषु ‘दल विशरणे’ इति पठितस्यैव घटादिषु तस्मिन्नेवार्थे मित्त्वार्थोऽनुवाद इति सिद्धान्तकौमुद्यादितः ज्ञायते।
मा।
धातुवृत्त्यादिषु तु, ‘दल विदारणे’ इति चुरादिषु पठितस्यापि घटादिषु मित्त्वार्थोऽर्थविशेषे भोजसम्मतः पाठ इति दृश्यते।
उभयथाऽपि नार्थे भेदः।]] ‘विदारणे शपि दलेद् दालयेदिति णौ दलेः।।’ 4 इति देवः।
उद्दालकः-लिका, 5 दलकः-दालकः-लिका, दिदलिषकः-षिका, दादलकः-लिका
दलिता-त्री, दलयिता-दालयिता-त्री, दिदलिषिता-त्री, दादलिता-त्री
दलिष्यन्-न्ती-ती, दलयिष्यन्-दालयिष्यन्-न्ती-ती, दिदलिषिष्यन्-न्ती-ती
-- 6 -- दलयमानः-दालयमानः, -- दादल्यमानः
-- दलयिष्यमाणः, दालयिष्यमाणः -- दादलिष्यमाणः
प्रदल्-प्रदलौ-प्रदलः
-- -- -- दलितम्-तः, दलितः-दालितः, दिदलिषितः, दादलितः-तवान्
दलम्, 7 कुद्दालः, दलः-दालः, दिदलिषुः, दादलः
दलितव्यम्, दलयितव्यम्-दालयितव्यम्, दिदलिषितव्यम्, दादलितव्यम्
दलनीयम्, दलनीयम्-दालनीयम्, दिदलिषणीयम्, दादलनीयम्
दाल्यम्, दल्यम्-दाल्यम्, दिदलिष्यम्, दादल्यम्
ईषद्दलः-दुर्दलः-सुदलः
-- -- दल्यमानः, दल्यमानः-दाल्यमानः, दिदलिष्यमाणः, दादल्यमानः
दालः, 8 दाडि9मम्, दलः-दालः, दिदलिषः, दादलः
दलितुम्, दलयितुम्-दालयितुम्, दिदलिषितुम्, दादलितुम्
10 दलितिः, दलना-दालना, दिदलिषा, दादला
दलनम्, दलनम्-दालनम्, दिदलिषणम्, दादलनम्
दलित्वा, दलयित्वा-दालयित्वा, दिदलिषित्वा, दादलित्वा
प्रदल्य, प्रदलय्य-प्रदाल्य, प्रदिदलिष्य, प्रदादल्य
दालम् २, दलित्वा २, दलम् २-दालम् २-दालम् २, दलयित्वा २-दालयित्वा २, दिदलिषम् २, दिदलिषित्वा २, दादलम्
दादलित्वा २।
प्रासङ्गिक्यः
01
=>
(८२२)
02
=>
(१-भ्वादिः-५४८। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(श्लो १५९)
05
=>
[[५। ‘घटादयो मितः’ (ग। सू। भ्वादौ) इति मित्संज्ञायाम्, ‘मितां ह्रस्वः’ (६-४-९२) णावुपधाह्रस्वः। एवं मित्त्वपक्षे ण्यन्ते सर्वत्र ज्ञेयम्। पाणिनिमते घटादिष्वस्य पाठाभावात्, मित्त्वाभावपक्षे दालकः इत्यादीनि रूपाणीति ज्ञेयम्।]]
06
=>
[पृष्ठम्०७२७+ २५]
07
=>
[[१। कुं = भूमिं दलतीति कुद्दालः = आयुधविशेषः। ‘कर्मण्यण्’ (३-२-१) इत्यण्। पृषोदरादित्वात् (६-१-११०) कुशब्दोत्तरं दकारः प्रवृत्तः।]]
08
=>
[[२। भावघञन्तात् दालशब्दात्, ‘निर्वृत्तेऽक्षद्यूतादिभ्यः’ (४-४-१९) इति प्रकरणे निर्वृत्तार्थे ‘भावप्रत्ययान्तादिमब् वक्तव्यः’ (वा। ४-४-२०) इति इमप्प्रत्ययः।]]
09
=>
[लि]
10
=>
[[३। ‘तितुत्रेष्वग्रहादीनाम्--’ (वा। ७-२-९) इति वचनात् भणितिः इत्यादाविवात्रापि इडागमो ज्ञेयः।]]