| YouTube Channel

कुदिन (kudina)

 
Spoken Sanskrit
English
कुदिन kudina
n.
evil day
कुदिन kudina
n.
rainy day
कुदिन kudina
n.
civil day
Monier Williams Cologne
English
1. कु—दिन
n.
an evil day
a rainy day.
2. कु—दिन
n.
(= क्षिति-द्°) a civil day,
Āryabh.
कु-दिन a See 2. कु.
Monier Williams 1872
English
कुदिन कु-दिन, अम्, n. (see 1. कु), an evil
day
a rainy or cloudy day.
Shabdartha Kaustubha
Kannada
कुदिन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಒಂದು ಸಾವನ ದಿನ /ಸೂರ್ಯನ ಉದಯದಿಂದ ಮರುದಿನದ ಉದಯದವರೆಗಿನ ಕಾಲ
व्युत्पत्तिः - > कोः पृथिव्याः भ्रमणेन दिनम्
प्रयोगाः - > "उदयादुदयं भानोः सावनं तत् प्रकीर्तितम् सावनानि स्युरेतेन यज्ञकालविधिस्तुतैः ॥"
उल्लेखाः - > सू० सि० १४-१८
कुदिन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಜ್ಯೋತಿಷದಲ್ಲಿ ನಿಷಿದ್ಧವಾದ ದಿವಸ /ತಿಥಿವಾರಾದಿ ಶುದ್ಧಿಯಿಲ್ಲದ ದಿವಸ
L R Vaidya
English
ku-dina {% n. %} an evil day.
वाचस्पत्यम्
Sanskrit
कुदिन
न०
कोः पृथिव्याः भ्रमणेन दिनम् सावनदिने ।तदुक्तं सू० सि० “ओदयादोदयं भानोः सावनं तत्प्रकीर्त्तितम् सावनानि स्युरेतेन यज्ञकालविधिस्तु तैः”“सूर्य्यस्योदयादुदयकालमारभ्याव्यवहितोदयकालपर्यन्तं यत्कालात्मकं तत् सावनं मानज्ञैरुक्तम् एतेनोदयद्बया-न्तरात्मककालस्य गणनया सावनानि वसुद्व्यष्टाद्रीत्या-दिना मध्यमाधिकारोक्तानि भवन्ति तद्व्यवहारमाह ।यज्ञकालविधिरिति यज्ञस्य यः कालस्तस्य गणना तैःसावनैः तुकारोऽन्यमाननिरासार्थकैवकारपरः” रङ्गना० ।निरुपपदसावनदिनस्य सूर्य्यसंवन्धिसावनदिनपरत्वं युगेतत्संख्या तत्रैव दर्शिता यथा“ओदयादोदयं भानोर्भूमिसावनवासराः”
“ननु भोदया भगणैरित्यादिना पूर्बं सर्वेषां सावनदि-वसा उक्ता इत्यत्र कस्य ग्राह्या इत्यतः सूर्य्यसावनस्व-रूपकथनच्छलेनोत्तरमाह ओदयादिति सूर्य्यस्योदय-कालमारभ्याव्यवहिततदुदयकालपर्यन्तं यः कालः सएको दिवसः इति ये दिवसास्ते भूमिसावनवासराः ।भूदिवसा उदयस्य भूसम्बन्धेनावगमात् सावनदिवसा-श्चेत्यर्थः तथा निरुपपदसावनभूमिशब्दाभ्यांसूर्य्यस्य वासरा एव नान्येषां सोपपदत्वाभावादितिभावः” रङ्गना० ते कियन्त इत्यतस्तत्प्रमाणमाह“वसुद्व्यष्टाद्रिरूपाङ्क सप्ताद्रितिथयोयुगे” सू० सि० ।“अष्टाश्विगजसप्तभूगोनगसप्तपञ्चभूमिता १५७७९१७८२८युगे सूर्य्यसावनदिवसाः” रङ्गना० सि० शि० अन्यथोक्तं यथा“भूदिनानि शरवेदभूपगोसप्तसप्ततिथयोऽयुताहताः १५-७७९१९४५०००० भभ्रमास्तु भगणैर्विवर्जिता यस्यतस्य कुदिनानि तानि वा” सि० शि० ।“एषामुपपत्तिः प्रागेवोक्ता एकस्मिन् रविवर्षे यावन्तोभभ्रमाः स्युस्तावन्त एवैकोना रविसावनदिवसा भवन्ति ।यतो रविः प्राग्गत्या एकं पर्यायं गतः अतो भगणसंख्ययोना भभ्रमाः क्वहा भवन्ति एवमन्येषामपि ग्र-हाणां कुदिनानि स्युरित्युपपन्नम्” प्रमि० ।“इनोदयद्वयान्तरं तदर्कसावनं दिनम् तदेव मेदिनी-दिनं भवासरस्तु भभ्रमः” इति सिद्धान्तशिरोमणिः ।“इनोदयद्वयान्तरमिति अर्कोदययोरन्तरं यत् तदर्कसा-वनं दिनम् तदेव कुटिनसंज्ञं ज्ञेयम् अतोऽपिपूर्ववन्मासवर्षादिकल्पना अत्रार्कग्रहणमुपलक्षण तेना-न्येषामपि ग्रहाणां तदुदयद्वयान्तरं तत्सावनमिति” प्रमि० ।तद्दिवसस्य कार्य्यविशेषे आदर्त्तव्यतामाह सू० सि०-“सूतकादिपरिच्छेदो दिनमासाब्दपास्तथा मध्यमाग्रहभुक्तिस्तु सावनेनैव गृह्यते” ।“सूतकं जन्ममरणसम्बन्धि आदिपदग्राह्यं चिकित्सि-तचान्द्रायणादि तस्य परिच्छेदो निर्णयः दिना-घिपमासेश्वरवर्षेश्वराः तथा--समुच्चये ग्रहाणां गति-र्मध्यमा तुकारात् स्फुटगतेर्निरासः तस्याः प्रति-क्षणं वैलक्षण्याद्दिनसम्बन्धस्याभावात् एतेन स्पष्टगत्यास्पष्टग्रहस्य चालनं निरस्तं स्थूलत्वादिति सूचितम् ।सावनमानेन एवकारादन्यमाननिरासः” प्रमि० ।“प्रायश्चित्तं सूतकाद्यं चिकित्सा यज्ञाद्येवं कर्म वा-रादिकं शास्त्रे त्वस्मिन् खेचराणां चारा वि-ज्ञातव्याः सावनात् भास्करीयात्” श्रीपतिः
कुवासरभूमिदिनादयोऽप्यत्र ज्योतिषनिषिद्धे दिने