| YouTube Channel

कुथोदरी (kuthodarI)

 
Monier Williams Cologne
English
कुथोदरी
f.
N.
of a daughter of Nikumbha,
KalkiP.
Shabdartha Kaustubha
Kannada
कुथोदरी
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಕುಂಭಕರ್ಣನ ಮಗನಾದ ನಿಕುಂಭನ ಮಗಳು /ಕೀಲಕಂಜನೆಂಬ ರಾಕ್ಷಸನ ಹೆಂಡತಿ
Wordnet
Sanskrit
Synonyms:
कुथोदरी
noun
एका राक्षसी।
"कुथोदर्याः वर्णनं पुराणेषु अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
कुथोदरी,
स्त्री,
(कुथं हिंसात्मकमुदरं यस्याः सा ।)निकुम्भदुहिता कुम्भकर्णपौत्त्री सा कल्किदेवेन हता यथा ।मुनय ऊचुः ।“शृणु विष्णुयशःपुत्त्र ! कुम्भकर्णात्मजात्मजा ।कुथोदरीति विख्याता गगनार्द्धसमुत्थिता
कीलकञ्जस्य महिषी विकञ्जजननी सा ।हिमालये शिरः कृत्वा पादौ निषधाचले
शेते स्तनं पाययन्ती विकञ्जं प्रस्नुतस्तनी ।तस्या निश्वासवातेन विवशा वयमागताः
दैवेनैव समानीताः प्राप्तास्तव पदाम्बुजम् ।मुनयो रक्षणीयास्ते रक्षःसु विपत्सु
इति तेषां वचः श्रुत्वा कल्किः परपुरञ्जयः ।सेनागणैः परिवृतो जगाम हिमवद्गिरिम्”
इत्यादि
“सा क्रुधोत्थाय सहसा ननर्द्द परमाद्भुतम् ।तेन नादेन महाता वित्रस्तांश्चाभवन् जनाः ।निपेतुः सैनिकाः सर्व्वे मूर्च्छिता धरणीतले
सा रथांश्च गजांश्चापि विवृतास्या भयानका ।जघास प्रश्वासवातैः समानीय कुथोदरी
सेनागणास्तदुदरं प्रविष्टाः कल्किना सह ।यथर्क्षमुखवातेन प्रविशन्ति पिपीलिकाः
तद्दृष्ट्वा देवगन्धर्व्वा हाहाकारं प्रचक्रिरे ।तत्रस्था मुनयः शेपुर्जेपुश्चान्ये महर्षयः
निपेतुरन्ये दुःखार्त्ता ब्राह्मणा ब्रह्मवादिनः ।रुरुदुः पृष्ठयोधा ये जहृषुस्तन्निशाचराः
जगतां कदनं दृष्ट्वा सस्मारात्मानमात्मना ।कल्किः कमलपत्राक्षः सुरारातिनिसूदनः
वाणाग्निं चेलचर्म्मभ्यां कम्बलैर्यानदारुभिः ।प्रज्वाल्योदरमध्येन् करवालं समाददे
तेन खङ्गेन महता कुक्षिं निर्भिद्य बन्धुभिः ।बलिभिर्भ्रातृभिर्व्वाहैर्वृतः शस्त्रास्त्रपाणिभिः
वहिर्ब्बभूव सर्व्वेशः कल्किः कल्कविनाशनः ।सहस्राक्षो यथा वृत्रकुक्षिं दम्भोलिनेमिना
योनिरन्ध्राद्गजरथास्तुरगाश्चाभवन् वहिः ।नासिकाकर्णविवरात् केऽपि तस्या विनिर्गताः
ते निर्गतास्ततस्तस्याः सैनिकारुधिरोक्षिताः ।तां विव्यधुर्निःक्षिपन्तीं तरसा चरणौ करौ
ममार सा भिन्नदेहा भिन्नकुक्षिशिरोधरा ।नादयन्ती दिशो द्यां खं चूर्णयन्ती पर्व्वतान्” ।इति कल्किपुराणे १६ अध्यायः
वाचस्पत्यम्
Sanskrit
कुथोदरी स्त्री कुम्भकर्ण्णपौत्र्यां निकुम्भदुहितरि सा चकल्किना हता यथाह कल्किपु० १६ अ०“मुनय ऊचुः शृणु विष्णुयशःपुत्र! कुम्भकर्णात्म-जात्मजा कुथोदरीति विख्याता गगनार्द्धसमुत्थिता
कीलकञ्जस्य महिषी निकञ्जजननी सा हिमाल-ये शिरः कृत्वा पादौ निषधाचले
शेते स्तनं पाय-यन्ती निकञ्जं प्रस्नुतस्तनी तस्या निश्वासवातेन विवशावयमागताः
दैवेनैव समानीताः प्राप्तास्तव पदा-म्बुजम् मुनयो रक्षणीयास्ते रक्षःसु विपत्सुच
इति तेषां वचः श्रुत्वा कल्किः परपुरञ्जयः ।मेनागणैः परिवृतो जगाम हिमवद्गिरिम्” ।इत्युपक्रम्य तया सह युद्धे ससैन्यकल्केस्तदुदरवेशमुप-वर्ण्य्य “कल्किः कमलपत्राक्षः सुरारातिनिसूदनः वा-णाग्निचेलचर्म्मभ्यां कम्बलैर्यानदारुभिः प्रज्वाल्योदर-मध्येन करवालं समाददे
तेन खड्गेन महताकुक्षिं निर्भिद्य बन्धुभिः बलिभिर्भ्राष्टभिर्व्वाहैर्वॄतःशस्त्रास्त्रपाणिभिः वहिर्व्वभूव सर्व्वेशः कलिकःकल्कविनाशनः सहस्राक्षो यथा वृत्तकुक्षिं दम्भोलि-नेमिना
योनिरन्ध्राद्गजरथास्तुरगाश्चाभवत् बहिः ।नासिकाकर्णविवरात् केऽपि तस्या विनिर्गताः ते निर्गतास्ततस्तस्याः सैनिका रुधिरोक्षिताः तां विव्यधुर्निः-क्षिपन्तीं तरसा चरणौ करौ
ममार सा भिन्नदेहाभिन्नकुक्षिशिरोधरा”