| YouTube Channel

कुथि (kuthi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कुन्थ्
मूलधातुः:
कुथि
धात्वर्थः:
हिंसा-सङ्क्लेशनयोः
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
कुन्थति
धातुप्रदीपः
Sanskrit
कुथिँ कुथि
मानकरूपान्तरम् - पुथिँ
पुथि
मानकरूपान्तरम् - लुथिँ
लुथि
मानकरूपान्तरम् - मथिँ
मथि हिंसा, संक्लेशनयोः
(18)- कुन्थति कुन्थ्यते पुन्थति पुन्थ्यते लुन्थति लुन्थ्यते मन्थति मन्थ्यते कुन्थ संक्लेश इति क्र्य्यादौ-कुथ्नाति कुथ्यते ।। 42-45 ।।
क्षीरतरङ्गिणी
Sanskrit
कुथिँ कुथि
मानकरूपान्तरम् - पुथिँ
पुथि
मानकरूपान्तरम् - लुथिँ
लुथि
मानकरूपान्तरम् - मन्थँ
मन्थ हिंसा, संक्लेशयोः
(अर्थविवरणम्) हिंसा प्राण्युपघातः
, (अर्थविवरणम्) संक्लेशो बाधा
कुन्थति, कुन्थ्यते नोपधात् थफान्ताद् वा (1223) कित् - कुन्थित्वा, कुथित्वा क्र्यादौ कुन्थ संश्लेषणे (तु0946) कुथ्नाति पुन्थति लुन्थति मन्थति, मथ्यते, मथितम्, मन्थित्वा, मथित्वा मन्थः (उ0411) इनिः किच्च मथिन् मन्थाः अचि - मन्थः उणादौ मन्थाणः, शानच्च ज्वलादौ मथे विलोडने (1587) मथति, मथः, माथः क्र्यादौ मन्थ विलोडने (944) मथ्नाति, मथ्यते मथिमाथीत्यपीति दौर्गाः - मन्थति, मन्थ्यते, मान्थति, मान्थ्यते 41-44
धातुवृत्तिः
Sanskrit
कुथिँ कुथि
मानकरूपान्तरम् - पुथिँ
पुथि
मानकरूपान्तरम् - लुथिँ
लुथि
मानकरूपान्तरम् - मथिँ
मथि (अर्थः) हिंसा, संक्लेशनयोः
( कुन्थति चुकुन्थेतृयादि ) मन्थिवत् विशेषस्त्_विदित्वात् ङ्किति नलोपाभावः ( कुनथ्यत इत्यादि ) तथा हिंसार्थत्वात् ( सूत्रम्) "नयतिहिंसा'' (इति सूत्रम्) इति कर्मव्यतिहारे हिंसायां तङ्निषेधश्च एवं पुन्थतिलुन्थमन्थतयो ऽपि मन्थतिस्तु सर्वत्र मन्थतिवत् अत्र क्षीश्रस्वामी मन्थं सानुषङ्गमनिदितं पठित्वा मथ्यतइति चोदात्यहूमथीति दौर्गा मन्यन्त इत्याह संमतायां तु द्वावपि पठ्येते खङ्गोपकुन्थं शत्रुं मारयति खङ्गोपकुन्थमिति वा ( सूत्रम्) रसार्थानां समानकर्मकाणाम् (इति सूत्रम्) इति अनुप्रयोगधातुना समानकर्मकाणां र्हिसार्थानां तृतीयान्त उपपदे वा णमुलिति णमुल् ( सूत्रम्) "तृतीयाप्रभृतीनि'' (इति सूत्रम्) इति समासविकल्पः सर्वस्मिन्नेवात्र णमुलप्रकरणे क्रियाभेदे सति वासरूपेण क्त्वापीति वृत्तावुक्तम् तेन खङ्गेनोपकुन्थ्येति ( सूत्रम्) "समानकर्तृकयोः पूर्वकाले'' (इति सूत्रम्) इति क्त्वापि भवति एवं खङ्गोपकुन्थमित्यप्युदाहार्यम् ।कुन्थ संश्लेषण इति क्र्यादौ कुथ पूतीभावे पुथ हिंसायामितिं दिवादौ पुथ भाषार्थश्चुरादौ 46
कृदन्तरूपमाला
Sanskrit
1 {@“कुथि हिंसासंक्लेशनयोः”@} 2 ‘कुथ्नाति कुन्थेत् संक्लेशे, पूतीभावे तु कुथ्यति।’ 3 इति देवः।
4 कुन्थकः 5 -न्थिका, कुन्थकः-न्थिका, चुकुन्थिषकः-षिका, चोकुन्थकः-न्थिका
कुन्थिता-त्री, कुन्थयिता-त्री, चुकुन्थिषिता-त्री, चोकुन्थिता-त्री
6 व्यतिकुन्थन्-न्ती, कुन्थयन्-न्ती, चुकुन्थिषन्-न्ती
-- कुन्थिष्यन्-न्ती-ती, कुन्थयिष्यन्-न्ती-ती, चुकुन्थिषिष्यन्-न्ती-ती
-- -- कुन्थयमानः, कुन्थयिष्यमाणः, 7 चोकुन्थ्यमानः, चोकुन्थिष्यमाणः
8 कुन्-कुन्थौ-कुन्थः
-- -- -- कुन्थितम्-तः, कुन्थितः, चुकुन्थिषितः, चोकुन्थितः-तवान्
कुन्थः, कुन्थः, चुकुन्थिषुः, चोकुन्थः
कुन्थितव्यम्, कुन्थयितव्यम्, चुकुन्थिषितव्यम्, चोकुन्थितव्यम्
कुन्थनीयम्, कुन्थनीयम्, चुकुन्थिषणीयम्, चोकुन्थनीयम्
कुन्थ्यम्, कुन्थ्यम्, चुकुन्थिष्यम्, चोकुन्थ्यम्
ईषत्कुन्थः-दुष्कुन्थः-सुकुन्थः
-- -- कुन्थ्यमानः, कुन्थ्यमानः, चुकुन्थिष्यमाणः, चोकुन्थ्यमानः
कुन्थः, कुन्थः, चुकुन्थिषः, चोकुन्थः
9 कुन्थितुम्, कुन्थयितुम्, चुकुन्थिषितुम्, चोकुन्थितुम्
10 कुन्था, कुन्थना, चुकुन्थिषा, चोकुन्था
कुन्थनम्, कुन्थनम्, चुकुन्थिषणम्, चोकुन्थनम्
कुन्थित्वा, कुन्थयित्वा, चुकुन्थिषित्वा, चोकुन्थित्वा
प्रकुन्थ्य, प्रकुन्थ्य, विचुकुन्थिष्य, सञ्चोकुन्थ्य
11 खङ्गोपकुन्थं, खङ्गेनोपकुन्थं, खङ्गेनोपकुन्थ्य 12
कुन्थम् २, कुन्थित्वा २, कुन्थम् २, कुन्थयित्वा २, चुकुन्थिषम् २, चुकुन्थिषित्वा २, चोकुन्थम्
चोकुन्थित्वा २।
प्रासङ्गिक्यः
01
=>
(२२०)
02
=>
(१-भ्वादिः-४३। सक। सेट्। पर।)
03
=>
(श्लो-९८)
04
=>
[[२। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
05
=>
[[B। ‘ममन्थ विश्वं सुजनानकुन्थकान् प्रपुन्थ्य बन्धूनपि लुन्थति स्म यः।’ धा। का। १-७।]]
06
=>
[[३। ‘न गतिहिंसार्थेभ्यः’ (१-३-१५) इति कर्मव्यतीहारे तङ्निषेधः।]]
07
=>
[[४। इदित्त्वात् ‘अनिदिताम्--’ (६-४-२४) इति नलोपो न।]]
08
=>
[[५। ‘संयोगान्तस्य लोपः’ (८-२-२३) इति थकारलोपः।]]
09
=>
[पृष्ठम्०२१०+ २३]
10
=>
[[१। ‘गुरोश्च हलः’ (३-३-१०३) इत्यप्रत्ययः।]]
11
=>
[[२। ‘हिंसार्थानां समानकर्मकाणाम्’ (३-४-४८) इति णमुल्। ‘तृतीयाप्रभृतीनि--’ (२-२-२१) इति समासविकल्पः।]]
12
=>
[वा शत्रुं मारयति]