| YouTube Channel

कुत्तिः (kuttiH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कुथ पूतीभावे”@} 2 पूतीभावः = दौर्गन्ध्यम् इति सिद्धान्तकौमुदी।
पवित्रीकरणमिति तत्त्वबोधिनी।
‘कुथ्नाति कुन्थेत् संक्लेशे, पूतीभावे तु कुथ्यति।।’ 3 इति देवः।
कोथकः-थिका, कोथकः-थिका, 4 चुकुथिषकः-चुकोथिषकः-षिका, चोकुथकः-थिका
कोथिता-त्री, कोथयिता-त्री, चुकुथिषिता-त्री, चुकोथिषिता-त्री, चोकुथिता-त्री
5 कुथ्यन् 6 - 7 न्ती, कोथयन्-न्ती, चुकुथिषन्-चुकोथिषन्-न्ती
-- 8 कोथिष्यन्-न्ती-ती, कोथयिष्यन्-न्ती-ती, चुकुथिषिष्यन्-चुकोथिषिष्यन्-न्ती-ती
-- कोथयमानः, कोथयिष्यमाणः, चोकुथ्यमानः, चोकुथिष्यमाणः
कुत्-कुथ्-कुथौ-कुथः
-- -- -- कुथितम्-तः, कोथितः-तम्, चुकुथिषितः-चुकोथिषितः, चोकुथितः-तवान्
9 कुथः, कोथः, चुकुथिषुः-चुकोथिषुः, चोकुथः
कोथितव्यम्, कोथयितव्यम्, चुकुथिषितव्यम्-चुकोथिषितव्यम्, चोकुथितव्यम्
कोथनीयम्, कोथनीयम्, चुकुथिषणीयम्-चुकोथिषणीयम्, चोकुथनीयम्
कोथ्यम्, कोथ्यम्, चुकुथिष्यम्-चुकोथिष्यम्, चोकुथ्यम्
ईषत्कोथः-दुष्कोथः-सुकोथः
-- -- -- कुथ्यमानः, कोथ्यमानः, चुकुथिष्यमाणः-चुकोथिष्यमाणः, चोकुथ्यमानः
कोथः, कोथः, चुकुथिषः-चुकोथिषः, चोकुथः
कोथितुम्, कोथयितुम्, चुकुथिषितुम्-चुकोथिषितुम्, चोकुथितुम्
कुत्तिः, कोथना, चुकुथिषा-चुकोथिषा, चोकुथा
कोथनम्, कोथनम्, चुकुथिषणम्-चुकोथिषणम्, चोकुथनम्
10 कुथित्वा-कोथित्वा, कोथयित्वा, चुकुथिषित्वा-चुकोथिषित्वा, चोकुथित्वा
प्रकुथ्य, प्रकोथ्य, प्रचुकुथिष्य-प्रचुकोथिष्य, प्रचोकुथ्य
कोथम् २, कुथित्वा २, कोथित्वा २, कोथम् २, कोथयित्वा २, चुकुथिषम् २-चुकोथिषम् २, चुकुथिषित्वा २-चुकोथिषित्वा २, चोकुथम् २, चोकुथित्वा २।
प्रासङ्गिक्यः
01
=>
(२१८)
02
=>
(४-दिवादिः-१११८। अक। सेट्। पर।)
03
=>
(श्लो-३८)
04
=>
[[२। ‘रलो व्युपधात्--’ (१-२-२६) इति सनि कित्त्वविकल्पः।]]
05
=>
[[३। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनः शित्त्वात् ‘सार्वधातुकमपित्’ (१-२-४) इति ङित्त्वम्। तेनाङ्गस्य गुणो न।]]
06
=>
[[आ। ‘तं प्लुष्यद्दृष्टिनृत्यद्रुषमपि गतत्रासमुत्कुथ्यदङ्गं पोथ्यं प्रोचे स्वरेण स्वजनविगुधितं क्षिप्यता पुष्पमाध्वीम्।।’ धा। का। २-५६।]]
07
=>
[[४। ‘शप्श्यनोर्नित्यम्’ (७-१-८१) इति नुम्।]]
08
=>
[पृष्ठम्०२०८+ २३]
09
=>
[[१। ‘इगुपध--’ (३-१-१३५) इति कर्तरि कः प्रत्ययः। गजपृष्ठस्थितरत्नकम्बलस्य नाम। कुशतृणम्। ‘कुथास्तरणतल्पेषु किं स्यात् सुखतरं ततः।’ रामा। २-३०-१४।]]
10
=>
[[२। ‘रलो व्युपधात्--’ (१-२-२६) इति कित्त्वविकल्पः।]]