| YouTube Channel

कुतूहलं (kutUhalaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुतूहलं,
क्ली,
(कुतूं चर्म्ममयतैलादिपात्रबत् अन्त-र्हलति सोत्सुकं करोति हल् + अच् ।) अपूर्व्व-बस्तुदिदृक्षाद्यतिशयः तत्पर्य्यायः ।कौतूहलम् कौतुकः कुतुकम् इत्यमरः ।१ ३१
चित्रम् इति शब्दरत्नावली ।(यथा, नैषधे ११९ ।“प्रियावियोगाद्विधुरोऽपि निभरकुतूहलाक्रान्तमना मनागभूत्”
नायकालङ्कारविशेषः तल्लक्षणं यथा साहित्य-दर्पणे ११९ ।“रम्यवस्तुसमालोके लोलता स्यात्कुतूहलम्”
)