| YouTube Channel

कुण्डलं (kuNDalaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुण्डलं,
क्ली,
(कुण्ड्यते रक्ष्यते इति कुडि रक्षायां+ वृषादित्वात् कलच् यद्वा कुण्डं तदाकारंलाति गृह्णातीति ला + कः ।) स्वनामख्यात-कर्णभूषणम् (यथा विष्णुध्याने ।“ध्येयः सदा सवितृमण्डलमध्यवर्त्तीनारायणः सरसिजासनसन्निविष्टःकेयूरवान् कनककुण्डलवान् किरीटी”
)तत्पर्य्यायः कर्णवेष्टनम् इत्यमरः १०३ ।पाशः वलयः इति मेदिनी
(पुं, कौरव्यकुलज-सर्पविशेषः यथा महाभारते ५७ १३ ।“एरकः कुण्डलो वेणी वेणीस्कन्धः कुमारकः ।बाहुकः शृङ्गवेरश्च धूर्त्तकः प्रातरातकौ ।कौरव्यकुलजास्त्वेते प्रविष्टा हव्यवाहनम्”
पुंलिङ्गे ऽस्य रक्तकाञ्चनवाचकता उक्ता यथा, वैद्यकरत्नमालायाम् ।“रक्तपुष्पः कोविदारो युग्मपत्रस्तु कुण्डलः”
)