कुण्डपायिनामयनन्याय (kuNDapAyinAmayananyAya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritकुण्डपायिनामयनन्याय जैमिन्युक्ते कुण्डपायिनामय-ननामकसन्ने ऽग्निहोत्रपदस्य प्रकृताग्निहोत्रात् कर्म्मान्तरत्वप्रतिपादके न्यायभेदे स च न्यायो जै० सू० दर्शितोयथा“प्रकरणान्तरे प्रयीजनान्यत्वम्” जै० सू० । “कुण्डपायिना-मयने श्रूयते--सायम् अग्निहोत्रं जुहोति, मासं दर्श-पूर्णमासाभ्यां यजते” इत्येवमादि । तत्र सन्दिह्यते, --किंनियते अग्निहोत्रे नियतयोश्च दर्शपूर्णमासयोर्मासो वि-धीयते कालः? अथ किं नियताग्निहोत्रात् नियताभ्याञ्चदर्शपूर्णमासाभ्यां कर्मान्तरविधानम्?--इति । किं तावत्प्राप्तं?--नियतेषु कालविधिः इति कुतः? कालविधिस-रूप एष शब्दोमासमिति । कथं कालविधिसरूपता? ।यत् अग्निहोत्रंजुहोति--इति विदितं, मासमित्यविदितम् ।एवं च अग्निहोत्रशब्दो दर्शपूर्णमासशब्दश्च न अर्थान्तर-वृत्तीभविष्यतः तस्मात् कालविधिः । ननु कुण्डपायिनाम-यनप्रकरणं बाध्येतैवम्’ । कामं बाध्यतां, वाक्यं हिबलवत्तरम् । एवं प्राप्ते ब्रूमः, --प्रकरणान्तरे श्रूय-माणं वाक्यं यस्य प्रकरणे तस्य वाचकं भवितुमर्हति ।ननु प्रत्यक्षोऽग्निहोत्रस्य दर्शपूर्णमासयोश्च गुण-विधिः । न, --इत्युच्यते । कथम्? । उपसद्भिश्चरित्वेतिह्युक्त्वा इदमभिधीयते, न च, उपसदोऽग्निहोत्रस्य द-र्शपूर्णमासयोश्च सन्ति । तस्मात् अशक्यः तत्र मासविधिः‘अथ उच्येत, --उपसदोऽपि विधीयन्ते’--इति । तथागुणबिधानार्थेऽस्मिन् वाक्ये अनेकगुणविधानात् वाक्यम्भिद्येत! अस्मिन् पक्षे पुनरतन्त्रम् अग्निहोत्रशब्दो नकर्म विशेक्ष्यति तेन वाक्यमेदो न भविष्यति । तस्मात्कर्मालरम् इति सिद्धम्” भाव्यम् ।तत्त्ववोधिन्यां विवृतमेतत् यथा“उपसद्भिश्चरित्वा मासमग्निहीत्रं जुहोति दर्शपौर्ण्णमा-साभ्यां मासं यजेतेति” श्रूयते । उपसदश्च ज्योतिष्टोमयागेदीक्षादिवसादूर्द्ध्वं सोमाभिषवदिवसात् पूर्व्वकर्त्तव्या हो-मविशेषा इति माधवाचार्य्यप्रभृतियाज्ञिकमीमांसकाः तत्-परिपाटी च(डावका) इत्यस्मद्देशप्रसिद्धजलपात्रसदृशाका-रकम्बुग्रीवादिवदनेकरेखाविशिष्टाग्रभागमहावीराख्यपा-त्रबिशेषः तत्संस्थानं यथा तस्मिन् पात्रे यवागूस-हितं दधि कृत्वा संदंशाकारकाष्ठद्वयेन तस्य ग्रीवां धृत्वादक्षिणावर्त्तेन परावृत्य एकवारं तत्र स्थितं प्रतप्तं यवा-गूदधि जुहोति वामावर्त्तेनापरवारमिति वारद्वयहो-मेनैकोपसषद्भवतीति याज्ञिकप्रसिद्धिः । उपसद्भिरि-त्यभेदे तृतीयाश्वमेधेनेत्यादिवत् तथाच उपसद्यागा-चरणं कृत्वेत्यर्थः एतेन “उपसत्कथ्यते त्वत्र सतिलैर्व्री-हिभिश्चरुरिति मीमांसानभिज्ञस्य कल्पनं निरस्तं मी-मांसासन्निबन्ध्रा केनापि तथानभिधानात् । अत्र “याव-ज्जीवमग्निहोत्र जुहोतीति” श्रुतिप्राप्ताग्निहोत्रमनूद्यउपसदानन्तर्य्यं माससाध्यत्वञ्चेति गुणद्वयं विधीयते किंवा विशिष्टकर्म्मान्तरमिति संशंये नायं कर्म्मान्तरविधिर्गौरवात् किन्तु कॢप्ताग्निहोत्रे गुणद्वयविधिर्लाघवा-त् नच प्रकरणान्तरपठितत्वेनाग्निहोत्रपदानुकॢप्तस्योप-स्थितिरिति वाच्यम् अग्निहोत्रशब्दस्य तत्रैव शक्तेर्नाना-र्थत्वाभावाच्च प्रकरणान्तरेऽशुम्पस्थितिसम्भवात् न च कथंत्रष्टैवाग्निहोत्रपदशक्तिः कौण्डपायिनामयनेऽपि तच्छक्तिसम्भवादि ते वाच्यं “यावज्जीवमग्निहोत्रं जुहोतीति”श्रुत्युक्ताग्निहोत्रस्य “यदग्नये च प्रजापतये च सायंप्रातर्जुहोतीति” श्रत्या देवताकाङ्क्षानिरासेनाग्निहोत्रपदस्ययागनामपरत्वेन तत्र रूढत्यात् इह तु देवताकाङ्क्षानि-रासार्थम् अग्नेर्हीत्रमिति व्युत्पत्तिकल्पनेनाग्निदेवताकत्वरूपोपाधिहोत्रगुणयोगाद्गौणत्वस्वापि ज्ञापितत्वात्नानाशक्तिकल्पने गौरवादिति प्राप्रे उच्यते प्राप्ते क-र्म्मणि गुणद्वयविधाने वाक्यभेदापत्तेः तथाहि किं मा-स एव विधीयते उतौपसद्भिश्चरित्वेति उपसदपि, नाद्यःनित्याग्निहोत्रे उपसदोऽसत्त्वेन तस्यापि विधातव्यत्वा-दित्युभयगुणविधौ वाक्यभेदापत्तेः प्रधानानुवादेन गुण-पकारकाङ्गतया एकगुणविधानेनाकाङ्क्षानिवृत्तौविधेयान्तरं प्रति आकाङ्क्षामुत्थाय्य वाक्यान्तरकल्पनेना-ग्निहोत्रं मासं कुर्य्यान् अग्निहोत्रमुपसदनन्तरं कुर्य्या-दिति विधिद्वये पर्य्यवसानात् अपूर्व्वद्वयं विधेयं स्यात् तत्रप्रत्येकगुणानुष्ठाने प्रत्येकमपूर्व्वमित्यपूर्व्वद्वयं मिलितानुष्ठा-ने च प्रत्येकजन्यापूर्व्वद्वयम् उभाभ्यां विलक्षणमपूर्व्वंवा जन्यत इति गौरवं विशिष्टैककर्म्मविधाने गुणानांप्रधानस्वरूपनिर्व्वाहकाङ्गतया साङ्गप्रधानजन्यमेकमेवा-पूर्व्वंविधेयं स्वादित्यपूर्बैक्यादेकविधिः । अतएवोक्तं“प्राप्तेकर्म्मणि नानेकोविधातुं शक्यते गुणः । अप्रा-प्ते तु विधीयन्ते बहवोऽप्येकयत्नतः” । विध्यन्तरप्राप्तेप्रधाने अनेकगुणोविधातुं न शक्यते वाक्यभेदापत्ते-रिति शेषः अप्राप्ते तु प्रधाने बहवोऽपि गुणा एक-यत्नत एकवाक्यात् विधीयन्ते नानागुणविशिष्टैकप्रधा-नविधिसम्भवेनापूर्बैक्यादित्यर्थः । नचैकगुणविविष्टापर-गुणोविधेयः यथाग्निहोत्रमुपसदनन्तरंमासंकुर्य्यादितिन वाक्यभेद इति वाच्यम् गुणानां परस्परं विशेषण-विशिष्यभावेनान्वयवोधे निराकाङ्क्षत्वात् तथाच जैमिनि-सूत्रं “गुणानाञ्च परार्थत्वादसम्बन्धः समत्वात्” । गुणा-नां विशेषणानां अङ्गानाञ्च परस्परमसम्भन्धः विशेष्यवि-शेषणभावेन नान्वयः परार्थत्वात् द्वयोरपि विशेष्यान्वयि-त्वात् तथासत्येव कथं नान्वयस्तत्राह समत्वात् द्वयोरे-व परसाकाङ्क्षतया तुल्यरूपत्वात् न परस्परं गुणप्रधा-नभावः । यत्तु परस्परवैशिष्ट्येन गुणद्वयैकविधित्वे वि-निगमकाभावादुभयोरपि विशेष्यत्वेन विशेषणत्वेन चविधेयत्वेन वाक्यभेदे इति, तन्न विनिगमकाभावेन वाक्य-स्य द्वैविध्येऽपि नापूर्व्वभेदकल्पना किन्तु कारणतावच्छे-दकभेदेन कारणभेदमात्रम् अन्यथा ईदृशवाक्यभेदस्य वि-शिष्टैकप्रधानविधिपक्षेऽपि सम्भवात् । किमुपसदानन्त-र्य्यविशिष्टे माससाध्यत्ववैशिष्ट्यं माससाध्यत्वविशिष्टे वाउपसदानन्तर्यवैशिष्ट्यमिति विनिगमकाभावात् । नचैकत्र द्व-यमिति न्यायेन विशेष्ये युगप द्विशेषणद्वयमिति वाच्यं वेदेविशिष्टवैशिष्ट्यबोधस्यौत्सर्गिकत्वात् । किञ्च विशेष्यविशेषणभावस्य द्वैविध्येऽपि बिशिष्टस्यानतिरिक्ततया कारणैक्यात्कार्य्यैक्याच्च न कार्य्यकारणभावमैदोऽपि एकाङ्गापूर्वं प्र-त्येव परस्परसापेक्षतया उभयोर्हेतुत्वादिति वाक्यार्थैक्या-न्नोक्तिभेदरूपवाक्यभेदोदोषाय कारणतावच्छेदकगौर-तथाचैतादृशलाघववृंहितकौण्डपायिनामयनप्रकरणपाठएव कर्म्मा तरत्वे प्रमाणं तथाच सिद्धान्तसूत्रम् “प्रकर-णान्यत्वे प्रयोजनान्यत्वमिति” अतएव प्रकरणाद्वाक्यस्यबलीयस्त्वात् शक्त्या नित्याग्निहोत्रस्योपस्थित्या गुणवि-धिरित्यपि निरस्तं तस्योक्तगौरवपराहतत्वात् । एवञ्चगौण्याग्निहोत्रपदप्रयोगस्तद्धर्म्मातिदेशार्थः अतएव“देवश्राद्धादौ श्राद्धशब्दोगौणस्तद्धर्म्मप्राप्त्यर्थः कौण्ड-पायिनामयन इवाग्निहोत्रशब्द इति” श्राद्धविवेकः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
