कुण्डपायिनामयन (kuNDapAyinAmayana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritकुण्डपायिनामयन ६ त० अलुक् स० । सत्रभेदे तदिति-कर्त्तव्यतादिकम् आश्व० श्रौ० १२ । २ । ३--सूत्रादौ उक्तं यथा“कुण्डपायिनामयनम्” सू० । “एतन्नामकमिदं सत्रमधि-कृतं वेदितव्यम्” वृ० । “मासन्दीक्षिता भवन्ति” सू० । “अयंमासशब्द एकान्नविंशतिरात्रे उपचरितः, एकान्नविंशति-रात्रादिकं सावनवद्भवतीत्यर्थः” वृ० । “ते मासि सोमंक्रीणन्ति” सू० । “अयमप्युपचार एव दीक्षाकाले ।मास्यतीते दीक्षिताः सोमं क्रीणन्तीत्यर्थः” वृ० । “तेषांद्वादशोपसदो भवन्ति” सू० । “सात्रिकाणान्दीक्षाणामपवादोदीक्षाविधिः, तथा सात्रिकाणामुपसदामपवादोऽयमुपस-द्विधिः” वृ० । “सोममुपनह्य प्रवर्ग्यपात्राण्युत्साद्योपनह्यवा मासमग्निहोत्रं जुह्वति” सू० । “उपत्सस्वतीतासु प्रव-र्ग्य पात्राण्युत्साद्योपनह्य वा तानि तानि, ते एकं मासम्अग्निहोत्रं जुह्वति सायं प्रातः” वृ० । “प्रातरुपक्रमः साय-मपवर्गः” सू० “प्रातःकालस्य प्रथमप्राप्तत्वात् उपसत्कालेद्वादशाहेऽतीतेऽग्नि होत्रस्य प्रातरारम्भान्नैमित्तिकादग्नि-होत्रात् कर्म्मात्तरमेतदिति न्यायविदां प्रसिद्धम्” वृ० ।“मासं दर्शपूर्णमासाभ्यां यजन्ते” सू० । “अग्निहोत्र-मासेऽतीते ततः अनन्तरमेकं मासं दर्शपूर्णमासाभ्यां य-जन्ते” वृ० । “कृष्णपक्षेऽहरहः पौर्णमास्या, शुक्लपक्षेऽह-रहरमावास्यया, मित्रावरुणयोरयने तथा दृष्टत्वात्”सू० । “एवमत्र सम्पादनीयम्--यथा कृष्णपक्षादौपौर्णमास्याऽहः सम्भवति, तत्र दीक्षारम्भः कर्त्तव्यइति” वृ० । “मासं वैश्वदेवेन” सू० । “अहरहरनेनयष्टव्यम् । वैश्वानरपार्जन्या तु न भवति आरम्भा-र्थत्वात्तस्याः, स चारम्भःसत्रे न प्रसक्त इति” वृ० । “भासंवरुणप्रघामैः मासं शाकमेधैः एतैरहरहर्यजेरन्” मू० “ए-काहेनापवृज्य प्रकृतेर्द्व्यहसमापनीयत्वाद्द्व्यहेन वा कुर्य्या-त् । अध्वर्युप्रत्ययात्समापनमिति स्थितिः” वृ० । “मासं शु-नासीरोषेण” मू० । “अनेनाप्यहरहरेव” वृ० । “यदहर्मासःपूर्यते तदहरिष्टिं समाप्याग्निप्रणयनादिधर्मोत्सादनादिवौपवसथिकं कर्म० कृत्वा श्वोभूते प्रसुनुयुः” सू० । “यस्मिन्नहनिमासः पूर्यते तस्मिन्नहनि शुनासीरीयेष्टिं समाप्य तदन-न्तरं यदि पूर्वमेव प्रवर्ग्यपात्राण्युत्सादितानि तदाग्नि-प्रणयनाद्यौपवसथिकंकर्म कृत्वा सुत्यारम्भः” वृ० । “तद्धैकउपसद्भ्य एवानन्तरं कुर्वन्ति तथादृष्टत्वात् सौत्यान्मासा-नग्निहोत्रादीन् वदन्तः” सू० । “तदिदमग्निप्रणयनाद्यौप-वसथिकं कर्म कुण्डपायिनामयने अग्निहोत्रादिमासेभ्यःकर्त्तव्यमित्युक्तम् तत्रैक आहुः तत्कर्माग्निहोत्रादि-मासेभ्यः प्रागुपसद्भ्योऽनन्तरं कर्त्तव्यमिति । तत्र हेतु-माहुः प्रकृतौ तथादृष्टत्वादिति । न त्वग्निहोत्रादिमा-सेभ्य उपरिष्टात्, क्रियमार्णे वा औपवसथिके सुत्यानन्तर-स्य विद्यमानत्वादिति । तथादृष्टत्वात्साधारणमिति, तत्-परिहारार्थमग्निहोत्रादिमासान् सौत्यानिति । कथम्?अस्य सत्रस्य गवामयनप्रकृतिकत्वात्तस्य सांवत्सरिकत्वात्कुण्डपायिनामयने त्रिवृदादयः षण्मासा एकः पक्षः, अग्निहोत्रादयः षण्मासा अपरः पक्ष इति मन्यमानाः ।एवं च उपसदाञ्च सुत्याञ्च सुत्ये औपवसथिकस्य कृतत्वान्नकश्चिद्धेतुदोष इति वदन्तोऽग्निहोत्रादिमासेभ्यः प्रागुप-सद्भ्यः ऊर्ध्वमौपवसथिकं कुर्वन्ति । एतदुक्तम् भवति ।अग्निहोत्रादिमासान् सुत्यानिति मन्यमानाः तेभ्यःपुरस्तादुपसद्भ्य ऊर्ध्वं औपवसथिकं कर्म केचित् कुर्वन्तिप्रकृतौ तथादृष्टत्वादिति । यदेतदग्निहोत्रादिमासान् सौ-त्यानिति वदन्ति तदनुपपन्नम् । कुतः? सोमयागस्वरू-पत्वात् सुत्यानाम्’ अग्निहोत्रादीनां तु हविर्यज्ञस्वरूप-त्वादसुत्यत्वमिति । यत्पुनरिदमुक्तं गवामयनप्रकृतिकत्वा-दग्निहोत्रादिमासैः पूर्वपक्षसिद्धिरिति । तदयुक्तम्सोमयागानामेव गवामयनप्रकृतिकत्वं पूर्वपक्षस्त्वमुत्तरपक्ष-स्त्वञ्चेति । अग्निहोत्रादयोऽस्मिन् सत्रे अप्राकृता आ-गन्तवः कर्मविशेषाः अतस्तेषान्तत्स्थानापन्नत्वमपि न सम्भवति । अतस्तेषां सुत्यत्वन्न सम्भवति । सुत्यत्वासम्भ-वे तथादृष्टत्वादित्यस्य हेतोः साधारण्यादसाधकत्वादित्य-नेनाभिप्रायेणोक्तं भगवताचार्येण “तदनुपपन्नम् इति” वृ०“पश्वर्थंद्ध्यग्निप्रणयनन्तस्य च श्वःसुत्यानिमित्तम्” सू० । “परो-क्तस्य हेतोरसाधकत्वमुक्त्वा स्वपक्षं समर्थयति । औपवसथेषुकर्मसु यः पशुभागः सः श्वःसुत्यानिमित्तमिति प्रत्यक्षं श्रू-यते ‘अग्नीषोमाभ्यामिन्द्रो वृत्रमहंस्तावेनमब्रूताम्’ इ-त्यादिना । अतो वचनात् पशोः सुत्यानन्तर्यमेव स-म्पादनीयम् । तत्र यदग्निप्रणयनन्तत् सोमयागार्थमेबपशोरप्युपकरोति प्रसङ्गादिति पश्वर्थमित्युक्तम् । अतोऽ-ग्निप्रणयनस्य पशोः श्वःसुत्यानन्तर्यमेव कर्त्तुं युक्तम्” वृ० ।“अतिप्रणीतचर्यायां च वैगुण्यं दर्शपूर्णमासयोः तथा-ग्निहोत्रस्य” सू० “एवं तावदौपवसथिकस्य अग्निप्रणयना-देरग्निहोत्रादिमासेभ्य ऊर्द्ध्वमेव कर्त्तव्यतां प्रतिपाद्येदा-नीमग्निप्रणयनस्याग्निहोत्रादिमासेभ्यः पुरस्तात् क्रिया-यां दर्शपूर्णमासयोरग्निहोत्रस्य च वैगुण्यं भवती-ति प्रतिपादयति । कुतः? इति चेत्, प्रकृतौ नैयमिकेऽति-प्रणीते उत्तरवेद्यान्तयोर्यागादिदर्शनात् । अतो वैगुण्यकर-त्वादग्निप्रणयनन्तावत् पुरस्तान्न कर्त्तव्यमित्यस्य विशेषोऽ-न्येभ्य इत्युक्तम्” वृ० । “सदो हविर्धानान्याग्नीध्रीयाग्नि-षोमप्रणयनवसतीवरीग्रहणानि पश्वर्थानि भबन्ति सुत्या-र्थान्येके” सू० । “एवंतावदौपवसथिकेषुयः, सःश्वःसुत्यानि-मित्तत्वादग्निहोत्रादिमासेभ्य ऊर्ध्वं कर्त्तव्यैत्युक्तम् ।अग्निप्रणयनञ्च सुत्यार्थत्वात् पशोरप्युपकारकत्वाच्च पु-रस्तात् क्रियायाञ्चाग्निहोत्रादीनां वैगुण्यकरत्वात्तद्वदि-त्युक्तम् । इदानीं येषां श्वःसुत्यावचनं नास्ति श्रुत्यादिभि-स्तु सुत्याङ्गभावोऽस्त्येव अङ्गभावश्च सन्निपत्योपकार-द्वारेण, तेषां सुत्याकर्मणोद्देशादिसाधन इत्यकल्परूपाणांसदआदीनामग्निहोत्रादिमासेभ्यः पुरस्तात् करणे किञ्चि-ददृष्टं दृष्टं वा प्रयोजनं नास्ति । तेषां पुरस्तात् करणेप्रमाणं च नास्ति, कुतः?” वृ० । “तत्कालाश्चैव तद्गुणाः”सू० । “यस्य प्रधानस्य यः कालः स एव कालस्तद्गुणानांप्रधानकाल एव अङ्गानां मुख्यकाल इत्यर्थः ।तदेतन्न्यायविदां प्रसिद्ध्वम् । अत एव प्रसिद्धवदुप-दिष्टवानाचार्यः ‘तत्कालाश्चैव तद्गुणाः, इति ।एतदुक्तं भवति यस्मात् प्रधानकाला एव प्रधानगुणाःतस्मात् सदआदीनामग्निहोत्रादिमासेभ्यः पुरस्तादक्रियैव ।तत्कालाश्चैव तद्गुणा इति चशब्दोऽत्र पठितः प्रधान-काले च गुणाः कर्त्तव्या इत्यर्थः । सदआदीनाम्पश्वर्थ-तावचनम् अभ्युपगम्य सदआदोनि पश्वर्थानि वा भवन्तु, सुत्यार्थानि वा, सर्वथा तावदग्निहोत्रादिभ्यः पुरस्तात्क्रिया न स्यादित्ययमभिप्रायः । अङ्गानां प्रधानकाल-त्वमुक्त “तत्कालाश्चैव तद्गुणाः, इति । यानि पुनरङ्गानिब्रधानकालाद्विप्रकृष्टानि, यथा ‘अग्निमारुतादूर्ध्वमनुयाजै-श्वरन्ति” इति तेषां पश्वर्थता नास्ति सौमिकैः पदार्थैर्व्य-वधानादिति । अतोऽनुयाजसदृशानि कर्मान्तराणि सोमा-ङ्गत्वेनैव विधीयन्त इति प्राप्ते उच्यते” वृ० । “सिद्धस्वभा-वानां न व्यवधानादन्यत्वं यथा पृष्ठ्याभिप्लवयोः” सू० ।“प्रकृतौ सिद्धस्वभावानां पदार्थानां विकृतौ पदार्थान्तर-व्यवधानमात्रेण तेषामन्यत्वं न स्यात् । अनन्यत्वे च प्रा-कृतोषकारत्वेनाङ्गत्वमपि स्यात् । प्राकृतानां विकृतावुप-कारद्वारेण हि पदार्थानां प्राप्तानानामनुपकारकत्वमित्ययुक्तंयदि परं व्यवधानादन्यत्वं भवति । अतो विप्रकृष्टकालाअपि पदार्थास्तद्गुणा एव भवन्ति, तद्ध्यनपगमादिति कर्मा-न्तरत्वपक्षे वाक्यभेदादिति प्रसज्येत । यथा पृष्ठ्याभिप्लव-योरिति व्यवधानादन्यत्वाभावे दृष्टान्तः । यथा पृष्ठ्यस्यवाभिप्लवस्य वान्यस्य वा सङ्घाते रूपविशेषस्य मध्येयजमानमरणस्य निमित्तेन नैमित्तिकमहरन्तरमुप-जायते तत्र तेन व्यवधानमस्ति, तथा पृष्ठ्यादिसङ्घा-तविशेषबुद्धिर्नापैति तद्वदत्रापीति । यस्माद्व्यवधानात्पदार्थान्यत्वं नास्ति, अत एवौपवसथिकस्याग्निहो-त्रादिमासेभ्यः पुरस्तात् क्रियाशङ्कानिराकरणार्थमिदंप्रकरणमारब्धम् । कानिचिदङ्गानि तत्कालानि कानि-चिद्विप्रकृष्टकालानीत्येवमुभयथा व्यवहारोऽस्ति । सर्वथातावदग्रिहोत्रादिमासेभ्यः पुरस्तादौपवसथिकं न कर्त्त-व्यमिति प्रकरणार्थः” वृ० । “सगुणानां ह्येव कर्मणामुद्धारउपजनो वा” सू० “अयमप्यग्निहोत्रादिमासेभ्यः उपरि-ष्टादौपवसथिकक्रियायां हेतुः । यस्मात् प्रधानकर्मणामु-द्धारे उपजने--उत्कर्षे च सगुणानामेव सर्वत्रोद्धारादिर्दृष्टःयथा स्नानभोजनविहाराणामहरहः कार्याणाङ्कस्यचिदु-द्धारे सगुणस्यैवोद्धारो दृष्टः, उत्कर्षे च सगुण एवोत्कृष्यते, एतेषां नित्यकार्याणामन्तराले अन्यन्नैमित्तिकमुपजायमानंसगुणमेवोपजायते, एवमत्रापि वैशेषिकैरग्निहोत्रादिभि-रुत्कृष्यमाण, सौत्यं कर्म आत्मनो गुणभूतेन औपवसथिकेनसहोत्कृष्यते । हिशब्दः प्रसिद्धौ । यस्मात् सर्वत्र उद्धा-रोपजनोत्कर्षाः सगुणानामेव दृष्टाः तस्मादत्रापि सगुणस्यसौत्यस्य उत्कर्षो युक्त इति सूत्रार्थः” वृ० । “सुब्र-ह्मण्या त्वत्यन्तम्” सू० । “प्रासङ्गिकोऽयं सुब्रह्मण्यावि-चारः प्रकृतावुपसत्सुत्याकालत्वात् । सुब्रह्मण्यायाःअग्निहोत्रादिमासानाञ्च सुत्योपसदभावात् सुब्रह्मण्यायाअभावशङ्का स्यात्, तत इदमुच्यते । सुब्रह्मण्याया अयंविशेषः । अत्यन्तं--नित्यं कर्त्तव्या, अग्निहोत्रादिमासेष्वपिअप्राकृतोऽयङ्काल इति नोत्स्रष्टव्या । अनवधृतेहका-लसंशयत्वात् । प्रकृतावुपसत्सुत्याकाला सती सुब्रह्मण्यातकालविशेषविशिष्टाऽऽहूयते । इह पुनरप्राकृतत्वात्कालस्यतेनोपलक्षणं प्रकृत्या सुब्रह्मण्याया अयुक्तमिति मन्य-मानेनानवधृता कालसङ्ख्याविशेषणाऽऽह्वातव्या । सुत्यामा-गच्छेति कालसंशयत्वादित्यस्यायमर्थः । प्रकृतौ द्वादशा-हे सुत्यानीत्यादयःसङ्ख्याविशेषाः किमुपसदहःसङ्ख्या-विशेषप्रयुक्ताः आहोस्वित्प्राक्सुत्याबन्त्यहानि । तत्र तदहः-सङ्ख्याप्रयुक्ता इत्येवङ्कालसंशयत्वादित्यर्थः” वृ० ।“उत्सर्गमेके सुत्योपसद्गुणत्वात्” सू० । “सुब्रह्मण्यायाउत्सर्गमेके इच्छन्ति सुत्योपसद्गुणत्वात् । किमिदं सुत्यो-पसद्गुणत्वमिति? सुत्यानामेवायङ्गुणो नोपसदां क्रमा-ल्लिङ्गं बलीय इति । अतोऽयमुपसदाङ्गुण उपसत्का-लवर्त्तित्वात् उपसद्गुणत्वोपचारः अग्निहोत्रादिमासा-नामसुत्यत्वात् उपसत्कालत्वात् सुव्रह्मण्योत्सर्गमेक आहु-रित्यर्थः” वृ० । “क्रिया त्वेव प्रवृत्ते ह्यन्तमगत्वाऽवस्थानेदोषः” सू० । “अस्याः क्रियैव निश्चीयते सोमयागसाध-नसंस्कारत्वात् मन्त्रस्य, प्रकृतौ सोमयागादूर्ध्वं यावत्सु-त्याकालस्तावदाहूयते । तद्वदत्राप्याह्वातव्या । तावतः-कालस्योपसत्स्वेवैतत्सम्बन्धादस्या उपसत्सम्बन्धः तदभा-वान्नास्यास्त्यागो युक्तः । अत्रायमपि विशेषोऽस्ति ।औचित्यादपि न त्याज्या । आदितआरभ्य सर्वेष्वेवाहः-स्वाह्वयन्ति कथमिदानीं नाह्वयन्ति । नूनमयं सोमोऽ-स्मभ्यन्न दास्यत इति देवतायाः शङ्का स्यात् तन्निवृत्त्य-र्थमाह्वातव्या । प्रारब्धस्य मध्ये त्यागस्य कारणाभा-वात् त्यागे दोष एव स्यादित्यभिप्रायः । परवदर्थविचा-रोऽत्र स्वपदार्थपरिज्ञानार्थ एव । अतिप्रैषः श्वःसुत्यरू-पोह्यत इति” वृ० । “त्रिवृता मास पञ्चदशेन मासम्सप्तदशेन मासम् एकविंशेन मासम् त्रिणवेन मासम्अष्टादशत्रयस्त्रिंशानि द्वादशाहस्य दशाहानि । महा-व्रतञ्चातिरात्रश्च” सू० । “अत्र पृष्ठ्यस्य पञ्चभिरहोभिः पञ्चमासाः कर्त्तव्याः । षष्ठेनाष्टादशाहानि दशरात्रो महा-व्रतमुदयनीयः । कृत्स्नोक्तत्वान्नात्र प्रायणीयः” वृ० । “सर्वेणयज्ञेन यजन्ते य एतदुपयन्ति” सू० । “स्तुतिवादोऽयं बहू-नामत्र सम्भवादृत्विक्समासोऽनेन सूत्रकारेण न सूत्रितः ।स कर्त्तव्यश्चेत् परप्रत्ययादेव कर्त्तव्यः” नारायणवृत्तिःकात्या० श्रौ० २४, ४, २, सूत्रादौ विशेष उक्तो यथा“कण्डपायिनामयनं पौर्णमासीदीक्षम्” सू० । कुण्डपा-विनामयनमिति सत्रस्य संज्ञा तस्य पौर्णमास्यां दीक्षाभवति” कर्कः । “चतुर्य्यो वाऽपरपक्षस्य” सू० । इति वि-कल्पः फाल्गुनापरपक्षस्य वा चैत्र्यां पौर्णमास्यामिति”कर्कः “मासं दीक्षाः” सू० । “तस्य भवन्ति” कर्कः । “सोम-मुपनह्य सुत्यास्थानेषु मासमग्निहोत्रं जुह्वति” सू० ।सोमोपनहनं कृत्वा यानि सुत्यास्थानानि तेष्वग्निहोत्र-होमः । अग्निहोत्रं च सायारम्भं प्रातरपवर्गम् तत्रद्वावपि होमौ कालैक्यात्तन्त्रेणोपक्रमितव्यौ । प्रधानस्यतु भेदः चतुर्गृहीतेनाग्नेयीं सायमाहुतिं हुत्वा पुनश्चतु-र्गृहीतेन सौरीमाहुतिं जुहोति तन्त्रेणोत्तरां जुहोति ।गार्हपत्यकार्य्यं तत्र प्रागभिहितेएव न शालाद्वार्थ्ये, ज्योतिष्टोमे हि तच्छ्रुतम् न चाग्निहोत्रं ज्योतिष्टोमःन च तदङ्गत्वमिति आहवनीयस्त्वतिप्रणीत एव” कर्कः“सोमबन्धनपूर्वकम् अत्राग्निहोत्रशब्दोनित्याग्निहोत्रधर्मा-तिदेशार्थः ततश्च तद्धर्मकं कर्मान्तरं मासपूर्तिपर्य्यन्तंप्रत्यहं भवति” सं० व्या० । “दर्शपूर्णमासाभ्यां मासम्” सू० ।“नयेयुः” कर्कः । “पक्षादौ यद्यद्धविस्तत्सर्वस्मिन्” सू० ।“पक्षस्यादौ प्रतिपदि यद्यद्धविस्तदेव सर्वस्मिन् पक्षे भवतिसकले शुक्ले दर्शेष्टिः, सकले कृष्णे पौर्णमासेष्टिः” सं० व्या० ।“सारस्वते च प्रथमे” सू० । “एवमेव” कर्कः “तन्त्रेण वासमस्तचोदितत्वात्” सू० । “वाशब्दः पक्षव्यावृत्तौतन्त्रेणैव दर्शपूर्णमासौ कर्त्तव्यौ समस्तयोर्हि चोदना “दर्श-पौर्ण्णमासाभ्यां मासमिति” नह्यत्र कालभेदकः तस्मादग्नि-होत्रवदत्रापि तन्त्रमेव” कर्कः “नदर्शपौर्णमासस्य पक्ष-भेदेनानुष्ठानम् किं तर्हि तन्त्रेण कर्तव्यौ” कुतः? समस्तचोदितत्वात् समस्तयोरेव दर्शपौर्ण्णमासयोः प्रत्यहं मासपर्यन्तं विहितत्वात् सारस्वते तु पक्षभेदेनैव, तत्र तथैवविधानात्” सं० व्या० । ‘अग्निहोत्रं च” सू० । “अस्य सूत्रस्यपूर्वमेवाभिहितो न्यायः” कर्कः तन्त्रेण न तु नित्याग्नि-होत्रवत्सायम्प्रातः पृथक्पृथगिति अतो दिवसे एव साय-म्प्रातस्तनमग्निहोत्रं तन्त्रेणैव होतव्यम् एककालत्वाद-ङ्गानि तन्त्रेण प्रधानाहुतयस्तु भिन्नाः” सं० व्या० । “पृथङ्-मासाश्चातुर्मास्यपर्वभिः” सू० “नीयन्वे वैश्वदेवेन मासम्”“वरुणप्रघासैर्मासम् साकमेधैर्मासम् शुनासीरीयेणमासमिति ताण्ड्य० श्रुतेः” कर्कः । “पृथक् पृथक्-चत्वारो मासा नेयाः” सं० व्या० । “साकमेधा दर्शपूर्ण-मासवत्” सू० । “तन्त्रेणेत्युक्तो न्यायः” कर्कः । “सोमावा सामान्वात्” सू० । “एते अग्निहोत्रादयः सोमा वाभवन्ति कुतः सामान्यात् सत्रं हि सोमयागैः पूरणीयम्”सं० व्या० । “न जुहोतिशब्दात्” सू० । “नैतदेवम् सोमा इति कुतः?एतत्? जुहोतिशब्दात् “मासमग्निहोत्रं जुहोतीति” जुहोतिशब्दोऽत्र भवति न चासौ सोमयागेषु प्रसिद्धः तस्मान्नसोमा इति” सं० व्या० । “काममितरे” सू० । “इतरे तर्हिदर्शपूर्णमासादयो भवन्तु सोमाः न हि तत्र जुहोतिशब्दइति नेत्युच्यते दर्शपूर्णमासादयः शब्दा निरुपपदा एवदर्शपौर्ण्णमासादोन् सोमान् प्रत्थाययन्ति सोमोपपदाःनिरुपपदाश्चैते मासं दर्शपौर्ण्णमासाभ्यामिति तस्माद्दर्श-पौर्ण्णमासादयोऽपि न सोमा एते” सं० व्या० । दर्शपीर्ण्ण-मासादयः कामं सोमा भवन्तु यतस्तत्र जुहोतिशब्दो-नास्ति परमार्थतस्तु तेऽप्यत्र सोमा न भवन्ति यतो दर्श-पूर्णमासादयः शब्दा निरुपपदा अत्र श्रूयन्ते न चातु-र्मास्यसोमा दर्शपूर्णमाससोमा इत्येवं सोमोपपदाः अ-तस्तेऽपि न सोमा इति सिद्धान्तः । एवं षण्मासाः प-रिपूर्णाः मासश्चात्र सर्वत्र सावनस्त्रिंशद्दिनात्मकः अथो-त्तरेषु षट्सु मासेष्वहान्याह” कर्कः । “दृतिवातवतोरयन-पूर्वपक्षेण षण्मासान्” सू० । “दृतिवातवतोरयनस्य पूर्व्व-पूर्व्वपक्षेण षण्मासान् नयेयुः । तत्र विशेषमाह” कर्कः“उत्तमे त्रयोऽभिप्लवा दशरात्रो महाव्रतम्” सू० । “उत्तमेद्वादशे मासे एतान्यहानि भवन्ति” सं० व्या० । “उपरिष्टा-दतिरात्रं भवति” सू० । “अनुग्रहश्रुतेः यदन्यतरतोऽति-रात्रस्तेनाहीन इति” देव० “अन्ते एक उदयनीयातिरात्रएव भवति न प्रायणीय इत्यर्थः” कर्कः । “उभयतो वा” सू०“अतिरात्रो भवति सत्रत्वात् अनुग्रहश्रुतिस्तु अहीनत्वेनसंस्तौति तत्कथम्? हविर्यज्ञैर्व्यवहितत्वात्” देव० “अथ-वोभयतोऽतिरात्रं भवति प्रायणीयश्चोदयनीयश्चात्र द्वावपिभवत इत्यर्थः” सं० व्या० । “हविर्यज्ञेभ्योऽतिरात्रमेके सो-मानन्तर्यात्” स० हविर्यज्ञेभ्योऽवसितेभ्यः एके प्रायणीयम-तिरात्रमिच्छन्ति एवं सोमानन्तर्यं भवतिए के तन्नेच्छन्तिअग्नीषोमीयोत्तरकालता हि तस्य प्रकृतौ दृष्टा इहापि तद्व-देव तस्मात् प्रागेव हविर्यज्ञेभ्यः प्रायणीयः” कर्कः उभयतोऽतिरात्रपक्षे प्रायणीयमतिरात्रमेके आचार्याः” हविर्यज्ञेभ्योऽग्निहोत्रदर्शपूर्णमासचातुर्मास्यपर्वभ्यः परं कुर्वन्तिएवं हि सर्व्वेषां सोमयागानामानन्तर्यमव्यवधानं कृतंभवति इतरथा हविर्वज्ञैर्व्यवधानं स्यात् एके एतन्नवाञ्छन्ति यतः प्रकृतौ प्रायणीयस्याग्नीषोमीयोत्तरकालतादृष्टा इहापि च तद्वदेवानुष्ठानं युक्तम् तस्माद्धविर्यज्ञेभ्यःपूर्व एव प्रायणीयो भवति । अन्येभ्यः सत्रेभ्योऽत्र विशे-षमाह” सं० व्या० । “अत्सरुकाः कुण्डप्रतिरूपाश्चमसाः” सू० ।अत्सरुकाः अवृन्तका कुण्डप्रतिरूपाः वृत्ताकाराः कर्कः ।“अत्र अत्सरुका अवृन्ता मूलज्ञापकचिह्नदण्डरहिताःकुण्डप्रतिरूपाः कुण्डाकारा वृत्ताश्च भवन्ति” सं० व्या० । “पञ्च-र्त्विजस्त्रीणि त्रीणि कर्माणि कुर्युः” सू० । “अत्र कुण्डपा-यिनामयने वक्ष्यमाणाः पञ्चर्त्विजस्त्रीणित्रीणि कर्म्माणिकुर्वन्ति त्रयाणांत्रयाणामृत्विजां कर्माणि एकैकः करोति”स० व्या० “होताध्वर्यवपोत्रीये च” सू० । “चशब्दाद्धौत्रं च”कर्कः । “उद्गाता नैष्ट्राच्छावाकीये” सू० । “मैत्रावरुणो ब्रह्मत्व-प्रातिहर्त्रे” । “प्रस्तोता ब्राह्मणाच्छंसिग्रावस्तोत्रोये”सू० । “सर्वत्र प्रथमान्तः कर्ता” सं० व्या० “प्रतिप्रस्थाताग्नी-ध्रौन्नेत्रे” सू० । “चकारःस र्वत्रानुवर्त्तते” कर्कः । “मुख्या-सनेभ्योऽनुसंसर्पमितराणि” सू० । “आसनशब्दः स्थान-वाची मुख्यस्थानेभ्यः अनु सृप्त्वा--सृप्त्वा परकीयाणिकर्माणि कुर्युः स्वकर्मकर्त्तृकस्य चरितार्थत्वात्” कर्कः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
