| YouTube Channel

कुण्डं (kuNDaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुण्डं,
क्ली,
(कुणतीति “ञमन्तात् डः” उणां१ ११३ इति डः ।) मानभेदः (कुण्ड्यतेरक्ष्यते जलं यत्र कुडि + अधिकरणे अप् ।)देवजलाशयः इति मेदिनी
जलाधारविशेषः ।चौवाच्चा इति भाषा
तज्जलगुणाः अग्निकफकारित्वम् रूक्षत्वम् ।मधुरत्वम् लघुत्वञ्च इति राजनिर्घण्टः
कफा-जनकत्वम् इति राजवल्लभः
*
(पात्रविशेषः ।यथा, रघौ ८४ ।“भुवं कोष्णेण कुण्डोध्नी मेध्येनावभृतादपि”
)होमीयाग्न्यालयः तत्तु प्रायश्चतुर्हस्तमितं भवतितस्य विधिः तत्र मत्स्यपुराणम् ।“प्रागुदक्प्लवनां भूमिं कारयेद्यत्नतो नरः”
प्रागुदक्प्लवनां पूर्व्वनीचां उत्तरनीचां वा
तत्र वशिष्ठपञ्चरात्रे विज्ञानललितायाञ्च ।“सर्व्वाधिकारिकं कुण्डं चतुरस्रन्तु सर्व्वदम्” ।चतुरस्रं चतुष्कोणम्
भविष्योत्तरम् ।“सहस्रे त्वथ होतव्ये कुर्य्यात् कुण्डं करात्मकम् ।द्विहस्तमयुते तच्च लक्षहोमे चतुष्करम्”
द्विहस्तादिके यामलः ।“पूर्व्वपूर्व्वस्य कुण्डस्य कोणसूत्रेण निर्म्मितम् ।उत्तरोत्तरकुण्डानां मानं तत्परिकीर्त्तितम्”
पूर्व्वपूर्व्वस्य कुण्डस्य हस्तद्विहस्तादिमितस्य कोण-सूत्रेण ईशानान्निरृतिकोणदत्तसूत्रेण परिमितंयन्मानं उत्तरोत्तरकुण्डानां तदेव पारिभाषिकंद्विहस्तादिमानं तु प्रकृतहस्तद्वैगुण्यादिमितम् ।तथात्वे द्विहस्तादिमितस्य चतुर्हस्तपरिमाणा-पत्तेः कृषकस्य भूमेः परिमाणवत्
वशिष्ठपञ्चरात्रे ।“यावान् कुण्डस्य विस्तारः खननं तावदिष्यते ।हस्तैके मेखलास्तिस्रो वेदाग्निनयनाङ्गुलाः
कुण्डे द्विहस्ते ता ज्ञेया रसवेदगुणाङ्गुलाः ।चतुर्हस्ते तु कुण्डे ता वसुतर्कयुगाङ्गुलाः”
मेखला ब्रह्मचारिमेखलावत् कुण्डवेष्टिता मृद्घ-टिताः ताश्च खातदेशाद्वाह्ये एकाङ्गुलरूपं कण्ठंपरित्यज्य उच्छ्रायेण विस्तारेण चेत्यादिक्रमेणवेदाद्यङ्गुलाः एतद्विपरीतास्तन्त्रान्तरोक्ता व्यव-हारविरुद्धाः वेदाश्चत्वारः अग्नयस्त्रयः नयने द्वेरसाः षट् गुणास्त्रयः वसुतर्कयुगानि अष्टषट्-चत्वारि
पिङ्गलामते ।“खातादेकाङ्गुलं त्यक्त्वा मेखलानां विधिर्भवेत्”
एककुण्डस्य पश्चिमदिक्कर्त्तव्यतामाह महादा-ननिर्णये वशिष्ठपञ्चरात्रम् ।“भुक्तौ मुक्तौ तथा पुष्टौ जीर्णोद्धारे तथैव ।सदा होमे सदा शान्तावेकं वारुणदिग्गतम्”
शारदातिलके ।“होतुरग्र योनिरासामुपर्य्यश्वत्थपत्रवत् ।मुष्ट्यरत्न्येकहस्तानां कुण्डानां योनिरीरिता
षट्चतुर्द्व्यङ्गुलायामविस्तारोन्नतिशालिनी ।एकाङ्गुलन्तु योन्यग्रं कुर्य्यादीषदधोमुखम्
एकैकाङ्गुलतो योनिं कुण्डेष्वन्येषु वर्द्धयेत् ।यवद्वयक्रमेणैव योन्यग्रमपि वर्द्धयेत्
स्थलादारभ्य नालं स्याद्योन्या मध्ये सरन्ध्रकम्”
आसां मेखलानां अश्वत्थपत्रवदित्यनेन चतुरङ्गुल-विस्तृतमूलात् यथोक्तक्रमेण एकाङ्गुलान्तःसंकु-चितविस्तारा
यामले ।“नालमेखलयोर्म्मध्ये परिधेः स्थापनाय ।रग्ध्रं कुर्य्यात्तथा विद्वान् द्वितीयमेखलोपरि”
परिधीं स्तद्विन्यासानाह छन्दोगपरिशिष्टे ।“बाहुमात्राः परिधय ऋजवः सत्वचोऽव्रणाः ।त्रयो भवन्त्यशीर्णाग्रा एकेषान्तु चतुर्द्दिशम्
प्रागग्रावभितः पश्चादुदगग्रमथापरम् ।न्यसेत् परिधिमन्यश्चेदुदगग्रः पूर्व्वतः”
अव्रणाः छिद्ररहिताः अभितोऽग्नेः पार्श्वद्वयेदक्षिणतः उत्तरतः पश्चात् पश्चिमे उदगग्रं उत्तरा-ग्रम्
त्रैलोक्यसारेऽपि ।“कुम्भद्वयसमायुक्ता अश्वत्थदलवन्नता ।अङ्गुष्ठमेखलायुक्ता मध्ये त्वाज्यस्थितिर्यथा”
कुम्भद्वयसमायुक्ता गजकुम्भाकारमूलदेशयुक्तानता नम्रा अङ्गुष्ठमितमृद्घटितमेखलावेष्टनयुक्तातथात्वे हस्तगलिताज्यस्थित्या कुण्डे तत्पातो भव-तीत्यर्थः
पञ्चरात्रे ।“कल्पयेदन्तरे नाभिं कुण्डस्याम्बुजसन्निमाम् ।मुष्ट्यरत्न्येकहस्तानां नाभिरुत्सेधविस्तृता
नेत्रवेदाङ्गुलोपेता कुण्डेष्वन्येषु वर्द्धयेत् ।यवद्वयक्रमेणैव नाभिं पृथगुदारधीः
नाभिक्षेत्रं त्रिधा कृत्वा मध्ये कुर्व्वीत कर्णिकाम् ।वहिरंशद्वये नाष्टौ पत्राणि परिकल्पयेत्”
*
तत्र कुण्डस्य दोषानाह विश्वकर्म्मा ।“खाताधिके भवेद्रोगी हीने धेनुधनक्षयः ।वक्रकुण्डेच सन्तापो मरणं छिन्नमेखले
मेखलारहिते शोको ह्यधिके वित्तसंक्षयः ।भार्य्याविनाशकं कुण्डं प्रोक्तं योन्या विना कृतम्
अपत्यध्वंसनं प्रोक्तं कुण्डं यत् कण्ठवर्जितम्”
अत एव वशिष्ठसंहितायाम् ।“तस्मात् सम्यक् परीक्ष्यैवं कर्त्तव्यं शुभवेदिकम् ।हस्तमात्रं स्थण्डिलं वा संक्षिप्ते होमकर्म्मणि”
इति तिथ्यादितत्त्वम्
कुण्डं, क्ली
स्त्री,
(कुण्ड्यते रक्ष्यते मक्ष्यादि अस्मिन् ।कुडि रक्षणे + अच् ।) स्थाली इत्यमरभरतौ