| YouTube Channel

कुणञ्जरः (kuNaJjaraH)

 
शब्दकल्पद्रुमः
Sanskrit
कुणञ्जरः,
पुं,
(कुणं भुक्तान्नादिकं जरयति कुण + जॄ+ बाहुलकात् खच् ।) वृक्षविशेषः वनवेतुयाइति भाषा तत्पर्य्यायः कुणञ्जा कृणञ्जः ३अरण्यवास्तूकः अस्य गुणाः मधुरत्वम् ।रुचिकारित्वम् दीपनत्वम् पाचनत्वम् हित-त्वञ्च एतच्छाकगुणाः त्रिदोषनाशित्वम् ।मधुरत्वम् रुचिकारित्वम् दीपनत्वम् ईष-त्कषायत्वम् संग्राहित्वम् पित्तश्लेष्महरत्वम् ।लघुत्वञ्च इति राजनिर्घण्टः