| YouTube Channel

कुटिलं (kuTilaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुटिलं, त्रि, (कुट् वक्रीभावे + बाहुलकात् इलच् ।)अनृजु वाँका इति भाषा तत्पर्य्यायः अरालम्२ वृजिनम् जिह्मम् ऊर्म्मिमत् कुञ्चितम् ६नतम् आविद्धम् भुग्नम् वेल्लितम् १०वक्रम् ११ इत्यमरः ७१
मङ्गुरम् १२ ।इति हेमचन्द्रः
वेङ्कु १३ विनतम् १४ उन्दुरम्१५ इति शब्दरत्नावली
(यथा, विष्णुपुराणे २३ ।“ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् ।निरीक्ष्य कस्त्रिभुवने मम यो गतो भयम्”
)तगरपुष्पे क्ली इति राजनिर्घण्टः
(अस्य पर्य्यायायथा, --“कालानुशारिवा वक्रं तगरं कुटिलं शठम् ।महोरगं नतं जिह्मं दीनं तगरपादिकम्”
इति वैद्यकरत्नमालायाम्
क्ली,
छन्दोभेदः
)