| YouTube Channel

कुटन्नटं (kuTannaTaM)

 
शब्दकल्पद्रुमः
Sanskrit
कुटन्नटं,
क्ली,
(कुटन् वक्रीभवन् सन् नटति नटस्पन्दने + पचाद्यच् ।) कैवर्त्तीमुस्तकम् इत्यमरः ।२ १३१
केउटिया मुता इति ख्यातम् ।केशुर इति नीचोक्तिः इति तट्टीका
(अस्य व्यवहारो यत्र तद्यथा ।“पद्मकं चन्दनोशीरं पाठं मूर्व्वां कुटन्नटम्”
इति वाभटे चिकित्सास्थाने १० अध्याये ।अस्य पर्य्यायाः यथा ।“कुटन्नटं परं बल्यं मुस्ताभञ्च परीलवम्”
इति वैद्यकरत्नमालायाम्
कोसची मोथा गुडतजी इति इयन्तु वितु-न्नकनाम्नो वृक्षस्य त्वक् मुस्ताकृतिः
पर्य्यायाश्च-यथा ।“कुटन्नटं दासपुरं बालेयं परिपेलवम् ।प्लवगोपुरगोनर्द्दकैवर्त्तीमुस्तकानि ।मुस्तावत् पेलवपुटं शुक्राभं स्याद्वितुन्नकम्”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमभागे
गुणाश्चास्य वितुन्नकशब्दे ज्ञातव्याः
)