| YouTube Channel

कुटजाष्टक (kuTajASTaka)

 
वाचस्पत्यम्
Sanskrit
कुटजाष्टक
पु०
चक्रदत्तोक्ते अतिसारादिरोगनाशके औषध-भेदे यथा “तुलामथार्द्रां गिरिमल्लिकायाः संक्षुद्य पक्त्रा रस-माददीत तस्मिन् सुपूते पलसाम्भतानि श्लक्ष्णानि पिष्ट्वासह शाल्मलेन पाठां समङ्गातिविषां समुस्तां विल्वंच पुष्पाणि धातकीनाम् प्रक्षिप्य भूयो विपचेत् तुतावत् दर्वीप्रलेपः स्वरसस्तु यावत् पीतस्त्वसौ काल-विदा जलेन मण्डेन वाऽजापयसाऽथवाऽपि निहन्तिसर्वं त्वतिसारमुग्रम् कृष्णं सितं लोहितपीतकं वा ।दोषं ग्रहण्या विविधं रक्तं शूलं तथार्शांसि सशो-णितानि असृग्दरञ्चैवमसाध्यरूपं निहन्त्यवश्यं कुट-जाष्टकोऽयम्