| YouTube Channel

कुटजलेह (kuTajaleha)

 
Shabdartha Kaustubha
Kannada
कुटजलेह
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅತಿಸಾರವನ್ನು ಹೋಗಲಾಡಿಸುವ ಒಂದು ಲೇಹ್ಯ
वाचस्पत्यम्
Sanskrit
कुटजलेह
पु०
चक्रदत्तोक्ते अतिसारनाशके लेहभेदे यथा“शतं कुटजमूलस्य क्षुण्णं तोयार्पणैः पचेत् क्वाथे पादा-वशेषेऽस्मिन् लेहं पूते पुनः पचेत् सौवर्चलयवक्षारवि-डसैन्धवपिप्पलीम् धातकीन्द्रयवाजाजीचूर्णं दत्त्वा पल-द्वयम् लिह्याद्वदरमात्रं तत् शीतं क्षौद्रेण संयुतम् ।पक्वापक्वमतीसारं नानावर्णं सवेदनम् दुर्व्वारं ग्रहणी-रोगं जयेच्चैव प्रवाहिकाम्” ।अर्शोरोगनाशके तत्रोक्ते लेहभेदे यथा-“कुटजत्वक्पलशतं जलद्रोणे विपाचयेत् अष्टभागाव-शिष्टन्तु कषायमवतारयत् वस्त्रपूतं पुनः क्काथं पचेल्लेह-त्वमागतम् भल्लातकविडङ्गानि त्रिकटुत्रिफलान्तथा ।रसाञ्जनं चित्रकञ्च कुटजस्य फलानि वचामतिविषांविल्वं प्रत्येकञ्च पलं पलम् त्रिंशत्पलानि गुडस्य चूर्णीकृत्य निधापयेत् मधुनः कुडवं दद्यात् घृतस्य कुडवन्त-था एष लेहः शमयति चार्शोरक्तसमुद्भवम् वातिकंपैत्तिकञ्चैव श्लैष्मिकं सान्निपातिकम् ये दुर्नामजारोगास्तान् सर्व्वान् नाशयत्यपि अम्लपित्तमतीसारंपाण्डुरोगमरोचकम् ग्रहणीमार्द्दवं कार्श्यं श्वयथुंकामलामपि अनुपानं घृतं दद्यात् मधु तक्रं जलंपयः रोगानीकविनाशाय कौटजो लेह उच्यते”