| YouTube Channel

कुञ्जरच्छाय (kuJjaracchAya)

 
Apte Hindi
Hindi
कुञ्जरच्छायः
पुं*
कुञ्जरः-च्छायः -
ज्योतिष का एक योग जिसमें चन्द्रमा मघा नक्षत्र में और सूर्य हस्त नक्षत्र में विराजमान होता है।
वाचस्पत्यम्
Sanskrit
कुञ्जरच्छाय
न०
कुञ्जरस्यछायायत्र “योगोमघात्रयो-दश्यां कुञ्जरच्छायसंज्ञितः भवेन्मघायां संस्थे शशिन्यर्केकरस्थिते” इत्युक्ते योगभेदे विवृतमेतत् ति० त० यथा“करे हस्तायां तत्स्थे सूर्य्ये मघासंस्थे चन्द्रे चेतिमघात्रयोदश्यां कुञ्जरच्छायसंज्ञितो योगो भवति हस्ता-वस्थानञ्च सूर्य्यस्य कन्यादशमांशोत्तरकिञ्चिदधिकसपा-दत्रयोदशांशं १३, २० यावत् नचानेन कुञ्जरच्छाययोगःसङ्केतितो नतु गजच्छायेति वाच्यं कुञ्जरच्छायस्य गज-च्छायादिका संज्ञा जाता अस्येतीतच्प्रत्ययेन गजच्छाया-याअपि सङ्केतितत्वात् (धुस्तूरः कनकाह्वयः) इतिवत् ।व्यक्तं कृत्यचिन्तामणौ “कृष्णपक्षे त्रयोदश्यां मघास्विन्दुःकरे रविः यदा तदा गजच्छाया श्राद्धे पुण्यैरवाप्यते ।”“एवञ्च श्राद्धे निमित्तान्तरत्वेनानङ्गीकाराद्गौडीयमैथि-लाभ्यां कुञ्जरच्छाययोगः फलातिशयार्थ इत्युक्तम् ।ताश्च मघात्रयोदशीश्राद्धं कृत्वा परदिने कुञ्जरच्छाय-योगे श्राद्धं कर्त्तव्यमिति वाचस्पतिमिश्रोक्तं हेयम् ।”मनुव्या० कुल्लूकभट्टेन एतस्य तिथ्यन्तरेऽपि सम्भव उक्तःयथा “अपि नःस कुले जायात् यो नो दद्यात् त्रयोदशीम् ।पायसं मधुसर्पिभ्यां प्राक्छाये कुञ्जरस्य च” मनुव्याख्यायाम्“प्रकृतायां त्रयोदश्यां तथा तिथ्यन्तरेऽपि हस्तिनःपूर्वां दिशं गतायां छायायां मधुवृतसंयुक्तं पायसं द-द्यात् नतु त्रयोदशीहस्तिच्छाययोः समुच्चयः य-थाह विष्णुः “अपि जायेत सोऽस्माकं कुले कश्चिन्नरो-त्तमः प्रावृट्कालेऽसिते पक्षे त्रयोदश्यां समाहितः ।मधुप्लुतेन यः श्राद्धं पायसेन समाचरेत् कार्त्तिकंसकलं वापि प्राक्छाये कुञ्जरस्य च” इत्युक्तम् तेनास्यपृथङिनमित्तता अन्येतु “राहुर्वे हस्ती भूत्वा चन्द्र-मसं गृह्णातीति” श्रुतेः कुञ्जररूपस्य राहोश्छायायत्रइति व्युत्पत्त्याग्रहणपरतामाहुः गजच्छायादयोऽप्यत्र