| YouTube Channel

कुङ् (kuG)

 
Shabdartha Kaustubha
Kannada
कुङ् - शब्दे (तुदा० आत्म० अक० अनि०) कुवते
पदविभागः - > धातुः
कन्नडार्थः - > ಶಬ್ದ ಮಾಡುವುದು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कु
मूलधातुः:
कुङ्
धात्वर्थः:
शब्दे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
कवते
अनुबन्धादिविशेषः:
उकारान्तः
धातुः:
कु
मूलधातुः:
कुङ्
धात्वर्थः:
शब्दे
गणः:
तुदादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
आत्मनेपदी
रूपम्:
कुवते
अनुबन्धादिविशेषः:
कुटादिः, उकारान्तः
धातुप्रदीपः
Sanskrit
कुङ् शब्दे
- कुवते कुता अकुत चोकूयते कूङिति दीर्घान्तोऽयमित्येके इच्छन्ति कुवते कुविता आकूतम् विकूतमिति 127
क्षीरतरङ्गिणी
Sanskrit
कुङ् शब्दे
- इतः सप्तानिटः कुवते कुता कूङ् इत्येके-आकुविता, आकूतम् 120
धातुवृत्तिः
Sanskrit
कुङ्
मानकरूपान्तरम् - घुङ्
घुङ्
मानकरूपान्तरम् - उङ्
उङ् (अर्थः) शब्दे
( कवते चुकुवे घवते जुघुवे ) इत्यादि गवतिवत् ( कोकूयत इत्यत्र ) "न कवतेर्यङि''इति अभ्यासस्य चुत्वनिषेधः यङीति वचनात् तल्लुकि ( चोकोतीति ) चुत्वं भवति अयमव्यक्तशब्दइति न्यासे तथा देवश्च अव्यक्तशब्दे कवतइति, अयमार्त्तशब्दे तुदादौ, शब्दमात्रे ऽदादौ, (अवते अवसे ऊवे ऊविवहे) अत्रोवङि तस्य "द्विर्वचनेऽचि'' इतिस्थानिवत्त्वात् उशब्दस्य द्विर्वचने वार्णादन्तरङ्गादपि सवर्णदीर्घात् पूर्वं बहिरङ्गेऽप्युवङि "वार्णादाङ्गं बलीय' इति पश्चात् सवर्णदीर्घः ( ओता ओष्यते अवतामावत अवेत) आशिषि (ओषीष्ट माभवानौष्ट ऊषिषते) "इको ज्ञल्'' इति सनः कित्त्वान्न गुणः "अज्झन'' इति दीर्घः, "सन्यङोः'' इति' षष्ठ्यन्तत्वात्. षशब्दस्य द्विर्वचनम् ( आवयति मा भवानविवत् ) वृद्ध्यावौ चङि णेर्लोपे "णौ चङि''इति ह्रस्वे "चङि'' इति द्विर्वचनं, णिलोपस्य "द्विर्वचनेऽचि''इति स्थानिवत्त्वात् द्वितीयस्यैकाचो विशब्दस्य द्विर्वचनम् (ङवते ञुङुवे) इत्यादि गवतिवत् 935
कुङ् (अर्थः) शब्दे
केचिद्दीर्घान्तमिमं पठन्तीत्यात्रेयमैत्रेयौ एवं स्वामिकाश्यपसुधाकरधनपालसंमताकारा अपि शाकटायनस्तु कुङ् कूङ् शब्दे इत्युभयं पपाठ तत्र ह्रस्वान्तो न्यासकारस्यापीष्टः यदाह "इको झल्'' इत्यत्र चुकूषत इत्यत्र दीर्घवचनमर्थवत् तत्र "गाङ्कुटादिसूत्रेण ङित्त्वाद्गुणो प्रवर्त्तत इति दीर्घस्यावकाश इति तन्मते ( कुवते, चुकुवे ) इत्यादिगुवतिवत् हरदत्तस्य तु दीर्घान्त एवेष्टः यदाह कुटादिसूत्रे आकूतमिति दर्शनाद् दीर्घान्त इति, पुनः एव "इको झल्'' इत्यत्र ननु कुङ् शब्दे कुटादिश्चुकूषते इत्यस्ति दीर्घस्यावकाशः दीर्घान्तोऽयमित्यवोचामेति अत्र कैयटेऽपि दीर्घविधानस्य कुङ् शब्दे इति धातुरवकाशश्चुकूषत इति, तस्मात्कूङशब्द इति पाठस्तत्र कुटादित्वान्ङित्वे सति गुणाभावाद्दीर्घस्य श्रवणं सिद्धं, लोकवेदयोश्चाकूतशब्दस्य प्रयोगो दृश्यत इति अत्र पक्षेऽयं सेट् ( कुवते ) इत्यादि नुवतिवत् 117
कृदन्तरूपमाला
Sanskrit
1 {@“कुङ् शब्दे”@} 2 3 “सत्यपि हि शब्दार्थत्वे भिद्यत एवैषामभिधेयम्।
तथाहि--कवतिस्तावत्-- अव्यक्ते शब्दे वर्तते--उष्ट्रः कोकूयते इति।
कुवतिरपि--आर्तस्वरे वर्तते-- चोकूयते वृषल इति
पीडित इत्यर्थः।
कौतिस्तु शब्दमात्रे।” इति दैवव्याख्याने पुरुषकारे उपात्तं न्यासवचनमिहानुसन्धेयम्।]] ‘अव्यक्तशब्दे कवते, कुवते त्वार्तशब्दने।
कौतीति शब्दमात्रे स्यात्--’ 4 इति देवः।
कावकः-विका, कावकः-विका, चुकूषकः-षिका, 5 कोकूयकः-यिका
कोता-त्री, कावयिता-त्री, चुकूषिता-त्री, कोकूयिता-त्री
-- कावयन्-न्ती, कावयिष्यन्-न्ती-ती
-- कवमानः, कावयमानः, चुकूषमाणः, कोकूयमानः
6 कोष्यमाणः, कावयिष्यमाणः, चुकूषिष्यमाणः, कोकूयिष्यमाणः
कुत्-कुतौ-कुतः
-- -- -- कुतम्- 7 तः, कावितः-तम्, चुकूषितः, कोकूयितः-तवान्
कवः, कावः, चुकूषुः, चुकावयिषुः, कोकुवः
कोतव्यम्, कावयितव्यम्, चुकूषितव्यम्, कोकूयितव्यम्
कवनीयम्, कावनीयम्, चुकूषणीयम्, कोकूयनीयम्
कव्यम्, अवश्यकाव्यम्, काव्यम्, चुकूष्यम्, कोकूय्यम्
ईषत्कवः-दुष्कवः-सुकवः
-- -- 8 कूयमानः, काव्यमानः, चुकूष्यमाणः, कोकूय्यमानः
कवः, कावः, चुकूषः, कोकूयः
कोतुम्, कावयितुम्, चुकूषितुम्, कोकूयितुम्
कुतिः, कावना, चुकूषा, चुकावयिषा, कोकूया
कवनम्, कावनम्, चुकूषणम्, कोकूयनम्
कुत्वा, कावयित्वा, चुकूषित्वा, कोकूयित्वा
प्रकुत्य, संकाव्य, प्रचुकूष्य, प्रकोकूय्य
कावम् २, कुत्वा २, कावम् २, कावयित्वा २, चुकूषम् २, चुकूषित्वा २, कोकूयम्
कोकूयित्वा २।
प्रासङ्गिक्यः
01
=>
(१९८)
02
=>
(१-भ्वादिः-९५१। अक। अनि। आत्म।)
03
=>
[[[अ]
04
=>
(श्लो। २३)
05
=>
[[४। ‘न कवतेर्यङि’ (७-४-६३) इति अभ्यासे चुत्वनिषेधः। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र बोध्यम्।]]
06
=>
[पृष्ठम्०१९४+ २४]
07
=>
[[आ। ‘श्रुत्यन्तवाचा ध्रुवया प्रदूनं घोरद्रवच्चक्रजिताज्ञितारिम्। स्मितार्द्रवक्त्रं गवमानभूषं गै त्वां घुताशं कुतशङ्गघोषैः।।’ धा। का। २-३५।]]
08
=>
[[१। ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः।]]
1 {@“कुङ् 2 शब्दे”@} 3 कुटादिः।
‘अव्यक्तशब्दे कवते, कुवते त्वार्तशब्दने।
कौतीति शब्दमात्रे स्यात्--’ 4 इति देवः।
कावकः-विका, कावकः-विका, चुकूषकः-षिका, चोकूयकः-यिका
इत्यादिरूपाणि आदादिक 5 कुधातुवत् ण्यन्तात् सन्नन्तात् यङन्ताच्च ज्ञेयानि।
शुद्धाद्धातोः कुटादित्वात् रूपाणि लिख्यन्ते-- 6 7 कुता-त्री, 8 कुवमानः, 9 कुष्यमाणः, कुत्-कुतौ-कुतः, कुतम्-तः-तवान्, कुवः, कुतव्यम्, कुवनीयम्, 10 कुयम्, 11 अवश्यकाव्यम्, ईषत्कुवः-दुष्कुवः- सुकुवः, कूयमानः, कुवः, कुतुम्, कुतिः, कुवनम्, कुत्वा, अवकुत्य, कावम् २, कुत्वा २, 12 कुररः इति।
प्रासङ्गिक्यः
01
=>
(१९९)
02
=>
(आर्त)
03
=>
(६-तुदादिः-१४०१। अक। अनि। आत्म।)
04
=>
(श्लो। २३)
05
=>
(१९६)
06
=>
[पृष्ठम्०१९५+ २४]
07
=>
[[१। ‘गाङ्कुटादिभ्योऽञ्णिन्ङित्’ (१-२-१) इति ङिद्वद्भावात् गुणो न।]]
08
=>
[[२। ‘तुदादिभ्यः शः’ (३-१-७७) इति शः। उवङ्।]]
09
=>
[[आ। ‘नूत्या किं भयधूतविद्रुतगुवल्लोकं तदा तद्ध्रुवत्- कोदण्डं कुवमानमैक्षि दलितं भोजेश्वराकूतवत्।।’ धा। का। २-८२।]]
10
=>
[[३। ङिद्वद्भावात् यति गुणो न।]]
11
=>
[[४। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्। णित्त्वात् ङित्त्वं न।]]
12
=>
[[५। ‘कुवः क्ररन्’ (द। उ। ८-६३) इति क्ररन् प्रत्ययः। कुररः = पक्षिविशेषः।]]