| YouTube Channel

कुक्कुरः (kukkuraH)

 
Apte 1890
English
कुक्कुरः (री f.) [Uṇ. 1. 41] A dog
यस्यैतच्च कुक्कुरैरहरर्जंघांतरं चर्व्यते Mk. 2. 11.
रं A vegetable perfume.
Comp.
वाच् m. a species of deer.
Hindi
Hindi
कुत्ते (पु)
Apte Hindi
Hindi
कुक्कुरः
पुं*
- "कोकते आदते - कुक् - क्विप्, कुक् किंचिदपि गृह्लन्तं जनं दृष्टवा कुरति शब्दायते - कुक् - कुर् - क"
कुत्ता
Wordnet
Sanskrit
Synonyms:
श्वा, कुक्कुरः, कुकुरः, शुनकः, भषकः, मृगदशकः, वक्रपुच्छः, वक्रबालधिः, ललजिव्हः, जिह्वालिट्, वृकारिः, ग्रामसिंहः, शीघ्रचेतनः, रात्रीजागरः, कृतज्ञः, सारमेयः, वान्तादः, शरत्कामी, शवकाम्यः, कौलेयकः
noun
पुंजातीयश्वा।
"सः श्वानं पालयति तु शुनीम्।"
Synonyms:
श्वा, कुक्कुरः, कुकुरः, शुनकः, भषकः, मृगदशकः, वक्रपुच्छः, वक्रबालधिः, ललजिव्हः, जिह्वालिट्, वृकारिः, ग्रामसिंहः, शीघ्रचेतनः, रात्रीजागरः, कृतज्ञः, सारमेयः, वान्तादः, शरत्कामी, शवकाम्यः, कौलेयकः
noun
ग्राम्यपशुः वृकजातीयः पशुः।
"कुक्कुरस्य भषणात् सुप्तः अहम्।"
शब्दकल्पद्रुमः
Sanskrit
कुक्कुरः,
पुं,
(कोकते आदत्ते इति कुक् + क्विप् कुक्यत्किञ्चिदपि गृह्णन्तं जनं दृष्ट्वा कुरति शब्दा-यते कुर + कः ।) जन्तुविशेषः कुकुर इतिभाषा
तत्पर्य्यायः कौलेयकः सारमेयः ३मृगदंशकः शुनकः भषकः श्वा इत्य-मरः १० २१
कुक्कुरः शुनः शुनिः १०श्वानः ११ इति तट्टीका
भषणः १२ भल्लूकः१३ वक्रलाङ्गूलः १४ वृकारिः १५ रात्रिजागरः१६ कालेयकः १७ ग्राम्यमृगः १८ मृगारिः १९शूरः २० शयालुः २१ इति राजनिर्घण्टः
तस्य गुणाः ।“बह्वाशी स्वल्पसन्तुष्टः सुनिद्रः शीघ्रचेतनः ।प्रभुभक्तश्च शूरश्च षडेते शुनो गुणाः”
इति चाणक्यम्
तस्य परीक्षा यथा ।“मृगयार्थं शाकुनार्थं कौतुकार्थिमहीक्षिता ।श्वानः पोष्यास्ततस्तेषामत्र वक्ष्यामि लक्षणम्
गुणजातिप्रभेदेन शुनो भेदो ह्यनेकधा” तद्यथा ।“सात्त्विका राजसाश्चैव तामसाश्च त्रिधामताः
अश्रान्ता अपरिक्षीणाः पवित्राः स्वल्पभोजिनः ।श्वानस्ते सात्त्विकाः प्रोक्ता दृश्यन्तेच क्वचित् क्वचित्
१क्रुद्धा बहुभुजो दीर्घा गुरुवक्षस्तनूदराः ।जाङ्गलस्था जाङ्घिकाश्च श्वानस्ते राजसा मताः
२अल्पश्रमेण ये श्रान्ता ललज्जिह्वा गुरूदराः ।श्वानस्ते तामसा ज्ञेयाः सन्ध्यावनसमाश्रयाः
३ब्रह्मादिजातिभेदेन चतुर्द्धा सर्व्व एव हि ।शुभ्रा दीर्घा स्तब्धकर्णा लघुपुच्छास्तनूदराः
सुशुक्तखरदन्ताश्च श्वानस्ते ब्रह्मजातयः
१रक्ताङ्गास्तनुलोमानो ललत्कर्णास्तनूदराः
दीर्घा दीर्घा नखरदाः श्वानस्ते क्षत्त्रजातयः २ये पीतवर्णा मृदवस्तनुलोमान एव
क्रुद्धा क्रुद्धा ललज्जिह्वास्ते श्वानो वैश्यजातयः
३कृष्णवर्णास्तनुमुखा दीर्घरोमाण एव
अक्रुद्धाः श्रमयुक्ताश्च ते श्वानः शूद्रजातयः
४लघुप्रमाणास्तु गुरूदरा येयेऽमेध्यभक्षा बहुपुत्त्रकाश्च ।प्रवृद्धपुच्छा लघुसूक्ष्मदन्तास्तेचान्त्यजाः कुक्कु रजातयः स्युः
द्विजातिचिह्नसंसर्गात् द्विजातिः श्वा भयावहः ।लक्षणत्रयसम्बन्धात् त्रिजातिर्धननाशनः
भोजोऽपि ।द्विजातिर्व्वा त्रिजातिर्व्वा विजातिःश्वामहीभृताम् ।भयं धनक्षयं शोकं विदधाति यथाक्रमम्
इति भोजराजकृतयुक्तिकल्पतरुः
(मुनिविशेषः ।यथा महाभारते १७ ।“कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव ।मुनयो धर्म्मविद्वांसो धृतात्मानो जितेन्द्रियाः”
)