| YouTube Channel

कुकूद (kukUda)

 
Apte Hindi
Hindi
कुकूदः
पुं*
- कूक वा कू इत्यव्ययम् - अलंकृता कन्या तां सत्कृत्य पात्राय ददाति कुकू - दा -
उपयुक्त श्रृंगारों से सुभूषित कन्या को विधिपूर्वक विवाह में देने वाला
L R Vaidya
English
kuku(kU)da {% m. %} One who gives away a girl in marriage with due ceremony and suitable decorations.
वाचस्पत्यम्
Sanskrit
कुकु(कू)द
पु०
कोः पृथिव्याः कुद ईषद्दः सत्कृतालङ्कृतायाःकन्याया दातरि पृषो० दीर्घपाठः इत्यन्ये कन्यादस्यईषद्भूमिदानसमत्वात्तस्य तथात्वम् सत्कृतालङ्कृतांकन्यां ददानः ककुदः स्मृतः” अमरे पाठान्तरम्अत्र प्रसिद्धपदसान्निध्यात् कुकुदपदस्य उक्तार्थे शक्तिग्रह इति शब्द० प्र० प्रसिद्धपदसान्निध्यञ्च प्रसिद्धार्थपदसामानाधिकरण्यम् सामानाधिकरण्यञ्च अभेदेनान्वय-बोधकत्वम् न्यायमते तिङर्थस्याभेदेन प्रथमान्तार्थेअन्वयासम्भवेन “यो ददाति कुकु(कू)दः इत्यमरपाठे स्थिते ददातीतिस्थाने ददान इति पाठः कल्पितः ।व्याकरणमते तु तिङन्तार्थस्य प्रथमान्तार्थेऽभेदेनान्वय-स्वीकारान्न यथाश्रुतपाठेऽपि क्षतिः विवेचितं चैतद-स्माभिः शब्दार्थरत्ने तत एव तदवसेयम्