| YouTube Channel

कुकुन्दरं (kukundaraM)

 
शब्दकल्पद्रुमः
Sanskrit
कुकुन्दरं,
क्ली,
(स्कुन्द्यते कामिनाऽत्र स्कुदि आप्ल-वने मद्गुरादयश्चेति निपातनात् साधुः ।) नितम्ब-स्थकूपकद्वयम् पृष्ठवंशादधोगर्त्तद्वयम् इत्यमरः ।२ ७९
कुकुन्दरे इति द्विवचनान्तोऽपिप्रयोगः
(यथा सुश्रुते शारीरस्थाने
“पार्श्वजधनवहिर्भागे पृष्ठवंशमुभयतो नातिनिम्नेकुकुन्दरे नाम मर्म्मणी तत्र स्पर्शाज्ञानमधःकायेचेष्टोपघातश्च”
)