| YouTube Channel

कीलालं (kIlAlaM)

 
शब्दकल्पद्रुमः
Sanskrit
कीलालं,
क्ली,
(कीलं वह्निज्वालां अलति वारय-तीति कील + अल् + कर्म्मण्यण् यद्वा कीलात्वह्निशिखायाः शिखाग्रहणेनात्र वह्नेरेव ग्रहण-मिति ध्येयम्, अतएवाग्नेः सकाशात् अलति-पर्य्याप्नोति उत्पद्यते इति यावत् “अग्नेरापः”इति श्रुतेः अल् + अच् ।) जलम् (यथा, शङ्क-रकविकृते अम्बाष्टके ।“कूलातिगामिभयतूलावलिज्वलनकीलानिजस्तुति-विधाकोलाहलक्षपितकालामरी कुशलकीलाल-पोषणनभाः”
) रक्तम् इत्यमरः १९९
(और्व्वाग्नेः कीलं आलाति आला + कः ।)अमृतम् मधु इति शब्दरत्नावली
(पुं कीलायवन्धाय अलति पर्य्याप्नोतीति पशुः
)