| YouTube Channel

कीर्तनीयम् (kIrtanIyam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कॄत संशब्दने”@} 2 संशब्दनम् = उद्धोषः।
‘कृणत्ति कृन्ततीत्येते वेष्टने च्छेदने क्रमात्।
कीर्तयेदिति संशब्दे--’ 3 इति देवः।
4 कीर्तकः-र्तिका, 5 कीर्तकः-र्तिका, 6 चिकीर्तयिषकः-षिका, 7 चेकीर्तकः-र्तिका
कीर्तयिता-त्री, कीर्तिता-त्री, चिकीर्तयिषिता-त्री, चेकीर्तिता-त्री
कीर्तयन्-न्ती, 8 कीर्तन्-न्ती, चिकीर्तयिषन्-न्ती
-- कीर्तयिष्यन्-न्ती-ती, कीर्तिष्यन्-न्ती-ती, चिकीर्तयिषिष्यन्-न्ती-ती
कीर्तयमानः, -- चिकीर्तयिषमाणः, चेकीर्त्यमानः
कीर्तयिष्यमाणः, -- चिकीर्तयिषिष्यमाणः, चेकीर्तिष्यमाणः
कीर्त्-कीर्तौ-कीर्तः
-- -- -- 9 कीर्तितम्-तः, कीर्तितः, चिकीर्तयिषितः, चेकीर्तितः-तवान्
कीर्तः, 10 कॄतः, चिकीर्तयिषुः, चेकीर्तः
कीर्तयितव्यम्, कीर्तितव्यम्, चिकीर्तयिषितव्यम्, चेकीर्तितव्यम्
11 12 कीर्तनीयम्, कीर्तनीयम्, चिकीर्तयिषणीयम्, चेकीर्तनीयम्
कीर्त्यम्, कीर्त्यम्, चिकीर्तयिष्यम्, चेकीर्त्यम्
ईषत्कीर्तः-दुष्कीर्तः-सुकीर्तः
-- -- -- कीर्त्यमानः, कीर्त्यमानः, चिकीर्तयिष्यमाणः, चेकीर्त्यमानः
13 कीर्तः, कीर्तः, चिकीर्तयिषः, चेकीर्तः
कीर्तयितुम्, कीर्तितुम्, चिकीर्तयिषितुम्, चेकीर्तितुम्
14 कीर्तिः- 15 कीर्तना, 16 कीर्त्तिः, चिकीर्तयिषा, चेकीर्ता
कीर्तनम्, कीर्तनम्, चिकीर्तयिषणम्, चेकीर्तनम्
कीर्तयित्वा, कीर्तित्वा, चिकीर्तयिषित्वा, चेकीर्तित्वा
सङ्कीर्त्य, सङ्कीर्त्य, सञ्चिकीर्तयिष्य, सञ्चेकीर्त्य
कीर्तम् २, कीर्तयित्वा २, कीर्तम् २, कीर्तित्वा २, चिकीर्तयिषम् २, चिकीर्तयिषित्वा २, चेकीर्तम्
चेकीर्तित्वा २।
प्रासङ्गिक्यः
01
=>
(२५९)
02
=>
(१०-चुरादिः-१६५४। सक। सेट्। उभ।)
03
=>
(श्लो। ९४)
04
=>
[[१। ‘उपधायाश्च’ (७-१-१०१) इति इत्त्वम्, रपरत्वम्, ‘उपधायाञ्च’ (८-२-८) इति दीर्घः।]]
05
=>
[[२। ‘ऋदुपधाच्च--’ (३-१-११०) इत्यत्र एतद्व्यावर्तकेन तपरकरणेन--णिचोऽत्र वैकल्पि- कत्वं बोध्यते। अतश्शुद्धधातोरपि रूपाणि प्रदर्शितानि।]]
06
=>
[[३। ण्यन्तात् सनि रूपम्। णिजभावपक्षे शुद्धात् सनि तु ‘चिकीर्तिषकः-षिका, इत्यादीनि रूपाणि ऊह्यानि।]]
07
=>
[[४। णिजभावपक्षे शुद्धधातोरेकाच्त्वात् हलादित्वाच्च यङन्तरूपाण्यपि लिखितानि।]]
08
=>
[[५। ‘शेषात् कर्तरि परस्मैपदम्’ (१-३-७८) इति परस्मैपदमेव। नात्मनेपदम्।]]
09
=>
[[६। ‘निष्ठायां सेटि’ (६-४-५२) इति णेर्लोपः।]]
10
=>
[[७। णिजभावपक्षे ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कः। तेन लघूपधगुणो न।]]
11
=>
[पृष्ठम्०२६३+ २४]
12
=>
[[१। ‘णेरनिटि’ (६-४-५१) इति णिलोपः।]]
13
=>
[[२। ण्यन्तात् ‘एरच्’ (३-३-५६) इत्यच्।]]
14
=>
[[३। ‘ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च’ (३-३-९७) इत्ति युजपवादः क्तिन् निपात्यते।]]
15
=>
[[४। वाहुलकात् युजपि--इति कालापाः, इति माधवीयधातुवृत्तिः।]]
16
=>
[[आ। ‘जूतिमिच्छथ चेत्तूर्णं कीर्तिं वा पातुमात्मनः। करोमि वो बहिर्यूतीन् पिधध्वं पाणिभिर्दृशः।।’ भ। का। ७-६९।]]