| YouTube Channel

कीर्णः (kIrNaH)

 
Wordnet
Sanskrit
Synonyms:
विकीर्ण, प्रकीर्ण, आकीर्णः, अवकीर्णः, कीर्णः, विक्षिप्त, व्यस्त, सुव्यस्त, उदस्त, प्रसारितः, विधूतः, असंहत
adjective
इतस्ततः क्षिप्तः।
"खगाः भूम्याम् विकीर्णान् अन्नकणान् अवचिन्वन्ति।"
शब्दकल्पद्रुमः
Sanskrit
कीर्णः, त्रि, (कीर्य्यतेऽसौ कॄ + कर्म्मणि क्तः ।)आच्छन्नः विक्षिप्तः (यथा, शाकुन्तले माङ्के
“ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने दत्त-दृष्टिः पश्चार्द्धेन प्रविष्टः शरपतनभयात् भूयसापूर्व्वकायम् शष्पैरर्द्धावलीढैः श्रमविवृतमुख-भ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वात् वियतिबहुतरं स्तोकमुर्व्यां प्रयाति”
) हिंसितः इतिमेदिनी