कीटः (kITaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiकीटः
- कीट - अच्
"कीड़ा, कृमि"
कीटः
- कीट - अच्
तिरस्कार और घृणा को व्यक्त करने वाला शब्द
कीटः
- कीट्+अच्
कीड़ा
Wordnet
Sanskrit कीटः, वृन्तः, तृणजलायुका
लघुः सरीसृपविशेषः।
"कीटानां नैके प्रभेदाः सन्ति।"
कीटकः, कीटः, कृमिः, क्रिमिः, नीलङ्गुः, नीलाङ्गुः, सर्पः, सर्पी, सर्पिणी
कृमिजातिः।
"वाय्वग्न्यम्बुप्रकृतयः कीटकस्तु विविधाः स्मृताः।"
शब्दकल्पद्रुमः
Sanskritकीटः, (कीट् + अच् ।) कृमिजातिः । इति शब्द-रत्नावली ॥
(यथा मनुः १ । ४० ।“कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम्” ॥
“सर्पाणामेव विण्मूत्रशुक्राण्डशवकोथजाः ।दोषैर्व्यस्तैः समस्तैश्व युक्ताः कीटाश्चतुर्विधाः ॥
दष्टस्य कीटैर्वायव्यैदंशस्तोदरुजोल्वणः ।आग्नेयैरल्पसंस्रावो दाहरागविसर्पवान् ॥
पक्वपीलु फलप्रख्यः खर्ज्जूरसदृशोऽथवा ।कफाधिकैर्मन्दरुजः पक्वोदुम्बरसन्निभः ॥
स्रावाढ्यः सर्व्वलिङ्गस्तु विवर्ज्ज्यः सान्निपातिकैः ।वेगाश्च सर्पवच्छोफो वर्द्धिष्णुर्विस्ररक्तता ॥
शिरोऽक्षि गौरवं मूर्च्छाभ्रमः श्वासोऽतिवेदना ।सर्व्वेषां कर्णिकाशोफो ज्वरः कण्डूररोचकः” ॥
अस्य चिकित्सा यथा ।“अर्कस्य दुग्धेन शिरीषवीजंत्रिर्भावितं पिप्पलीचूर्णमिश्रम् ।एषो गदो हन्ति विषाणि कीट-भुजङ्गलूतोन्दुरवृश्चिकानाम्” ॥
इति च वाभटे उत्तरतन्त्रे ३७ अध्याये ॥
अस्यौषधं यथा ॥
“जतुसेव्यपत्रगुग्गुलुभल्लातकककुभपुष्पसर्ज्जरसाः ।श्वेता एव धूम उरगाखुकीटवस्त्रकृमिनुदग्र्यः” ॥
“क्षीरिवृक्षत्वगालेपः शुद्धः कीटविषापहः” ॥
इति चरके चिकित्सास्थाने २५ अध्याये ॥
“सर्पाणां शुक्रविण्मूत्रशवपूत्यण्डसम्भवाः ।वाय्वग्न्यम्बुप्रकृतयः कीटास्तु विविधाः स्मृताः ॥
सर्व्वदोषप्रकृतिभिर्युक्ताश्चापरिणामतः ।कीटत्वेऽपि सुघोरास्ते सर्व्व एव चतुर्व्विधाः ॥
कुम्भीनसस्तुण्डिकेरी शृङ्गीशतकुलीरकः ।उच्चिटिङ्गोऽग्निनामाच चिच्चिटिङ्गो मयूरिका ॥
आवर्त्तकस्तथोरभ्रसारिका मुखवैदलौ ।शरावकुर्द्दोऽभीराजी परुषश्चित्रशीर्षकः ॥
शतबाहुश्च यश्चापि रक्तराजिः प्रकीर्त्तितः ।अष्टादशेति वायव्याः कीटाः पवनकोपनाः ॥
तैर्भवन्तीह दष्टानां रोगा वातनिमित्तजाः ॥
* ॥
कौण्डिल्यकः कणभको वरटी पत्रवृश्चिकः ॥
विनासिका ब्रह्मणिका विन्दुलो भ्रमरस्तथा ।वाह्यकी पिच्चिटः कुम्भी वर्च्चः कीटोऽरिमेदकः ॥
पद्मकीटो दुन्दुभिको मकरः शतपादकः ।पञ्चालकः पाकमत्स्यः कृष्णतुण्डोऽथ गर्द्दभी ॥
क्लीतःकृमिसरारी च यश्चाप्युत्केशकः स्मृतः ।एते ह्यग्निप्रकृतयश्चतुर्व्विंशाः प्रक्रीर्त्तिताः ॥
तैर्भवन्तीह दष्टानां रोगाः पित्तनिमित्तजाः ॥
* ॥
“विश्वम्भरः पञ्चशुक्लः पञ्चकृष्णोऽथ कोकिलः ।सैरेयकः प्रचलको वलभः किटिमस्तथा ॥
सूचीमुखा कृष्णगोधा यश्च काषायवासिकः ।कीटगर्द्दभकश्चैव तथात्रोटक एव च ॥
त्रयोदशैते सौम्याः स्युः कीटाः श्लेष्मप्रकोपणाः ।तैर्भवन्तीह दष्टानां रोगाः कफनिमित्तजाः ॥
* ॥
तुङ्गीनासो विचिलकस्तालको वाहकस्तथा ।कोष्ठागारी क्रिमिकरो यश्च मण्डलपुच्छकः ॥
तुङ्गलाभः सर्षपिकोऽवल्गुली शम्बुकस्तथा ।अग्निकीटश्च घोराः स्युर्द्वादश प्राणनाशनाः ॥
तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् ।तास्ताश्च वेदनास्तीव्रा रोगा वै सान्निपातिकाः” ॥
“क्षाराग्निदग्धवद्दंशो रक्तपीतसितारुणः ।ज्वराङ्गमर्द्द रोमाञ्चवेदनाभिः समन्वितः ॥
छर्द्यतीसारतृष्णा च दाहो मोहविजृम्भिका ।वेपथुश्वासहिक्काश्च दाहः शीतञ्च दारुणम् ॥
पिडकोपचयः शोफो ग्रन्थयो मण्डलानि च ।दद्रवः कर्णिकाश्चैव विसर्पाः किटिभानि च ॥
तैर्भवन्तीह दष्टानां यथास्वञ्चाप्युपद्रवाः ।येऽन्ये तेषां विशेषास्तु तूर्णं तेषां समादिशेत् ॥
एकजातीनतस्तूर्द्ध्वं कीटान् वक्ष्यामि भेदतः ।सामान्यतो दष्टलिङ्गैः साध्यासाध्यक्रमेण च ॥
त्रिकण्टकः कुणी चापि हस्तिकक्षोऽपराजितः ।चत्वार एते कणभा व्याख्यातास्तीव्रवेदनाः ॥
तैर्दष्टस्य श्वयथुरङ्गमर्द्दोगुरुता गात्राणां दंशःकृष्णश्च भवति ॥
“प्रतिसूर्य्यः पिङ्गभासो बहुवर्णो महाशिराः ।तथा निरुपमश्चापि पञ्चगौधेरकाः स्मृताः ॥
तैर्भवन्तीह दष्टानां वेगज्ञानानि सर्पवत् ।रुजश्च विविधाकारा ग्रन्थयश्च सुदारुणाः ॥
गलगोली श्वेतकृष्णा रक्तराजी रक्तमण्डलासर्व्वश्वेता सर्षपिकेत्येवं षट् ताभिर्दष्टे सर्षपिका-वर्ज्जं दाहशोफक्लेदा भवन्ति ॥
सर्षपिकया हृदयपीडातिसारश्च ॥
शतपद्यस्तु परुषा कृष्णा चित्रा कपिलिकापीतिका रक्ता श्वेता अग्निप्रभा इत्यष्टौ ताभिर्दष्टेशोफो वेदना दाहश्च हृदये । श्वेताग्निप्रभाभ्यामे-तदेव दाहो मूर्च्छाचातिमात्रं श्वेतपिडकोत्पत्तिश्च ॥
मण्डूकाः कृष्णः सारः कुहको हरितो रक्तोयववर्णभो भृकुटी कोटिकश्चेत्यष्टौ तैर्दष्टस्यदंशकण्डूर्भवति पीतफेणागमश्च वक्त्रात् । भृकुटीकोटिकाभ्यामेतदेव दाहश्छर्द्दिमूर्च्छाचाति मा-त्रम् ॥
विश्वम्भराभिदष्टे दंशः सर्षपाकाराभिः पिड-काभिश्चीयते शीतज्वरार्त्तश्च पुरुषो भवति ॥
अहितुण्डकाभिर्दष्टे तोददाहकण्डुश्वयथवोमोहश्च । कण्डूमकाभिर्दष्टे पीताङ्गश्छर्द्यतीसारःज्वरादिभिरभिहन्यते । शूकवृन्तादिभिर्दष्टे कण्डू-कोठाः प्रवर्द्धन्ते शूकञ्चात्र लक्ष्यते ॥
पिपीलिकाः स्थूलशीर्षा सम्बाहिका ब्रह्मणि-काङ्गलिका कपिलिका चित्रवर्णेति षट् ताभिर्दष्टेदंशे श्वयथुरग्निस्पर्शवद्दाहशोफौ भवतः ॥
मक्षिकाः कान्तारिका कृष्णा पिङ्गलिका मधू-लिका काषायी स्थालिकेत्येवं षट् ताभिर्दष्टस्यदाहशोफौ भवतः स्थालिकाकाषायीभ्यामेतदेवपिडकाश्च सोपद्रवा भवन्ति ॥
मशकाः सामुद्रः परिमण्डलो हस्तिमशकःकृष्णः पार्व्वतीय इति पञ्च तैर्दष्टस्य तीव्रकण्डूर्दंश-शोफश्च पार्व्वतीयस्तु कीटैः प्राणहरैस्तुल्यलक्षणः ॥
नखावकृष्टेऽत्यर्थं पिडकाः सदाहपाका भवन्ति ।जलौकसां दष्टलक्षणमुक्तं चिकित्सितञ्च ॥
भवन्ति चात्र ॥
गोधेरकः स्थालिका च ये च श्वेताग्निसंप्रभे ।भृकुटी कोटिकश्चैव न सिध्यन्त्येकजातिषु ॥
शवमूत्रपुरीषैस्तु सविषैरवमर्षणात् ।स्युः कण्डूदाहकोठारुः पिडकातोदवेदनाः ॥
प्रक्लेदवांस्तथास्रावो भृशं सम्पाचयेत्त्वचम् ॥
दिग्धविद्धक्रियास्तत्र यथावदवचारयेत् ॥
नावसन्नं नचोत्सन्नमतिसंरम्भवेदनम् ।दंशादौ विपरीतार्त्ति कीटदष्टं सुबाधकम् ॥
कीटैर्दष्टानुग्रविषैः सर्पवत् समुपाचरेत्” ॥
इति सुश्रुते कल्पस्थाने ८ अध्यायः ॥
)
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
कृदन्तरूपमाला
Sanskrit1 {@“कीट वर्णे”@} 2 ‘कीट वरणे’ इति क्षीरस्वामिसम्मतः पाठः।
कीटकः-टिका, चिकीटयिषकः-षिका
कीटयिता-त्री, चिकीटयिषिता-त्री
कीटयन्-न्ती, चिकीटयिषन्-न्ती
कीटयिष्यन्-न्ती-ती, चिकीटयिषिष्यन्-न्ती-ती
कीटयमानः, चिकीटयिषमाणः
कीटयिष्यमाणः, चिकीटयिषिष्यमाणः
3 कीट्-कीटौ-कीटः
-- कीटितः-तम्, चिकीटयिषितः-तवान्
4 कीटः, चिकीटयिषुः
कीटयितव्यम्, चिकीटयिषितव्यम्
कीटनीयम्, चिकीटयिषणीयम्
कीट्यम्, चिकीटयिष्यम्
ईषत्कीटः-दुष्कीटः-सुकीटः
-- कीट्यमानः, चिकीटयिष्यमाणः
कीटः, चिकीटयिषः
कीटयितुम्, चिकीटयिषितुम्
कीटना, चिकीटयिषा
कीटनम्, चिकीटयिषणम्
कीटयित्वा, चिकीटयिषित्वा
प्रकीट्य, प्रचिकीटयिष्य
कीटम् २, कीटयित्वा २, चिकीटयिषम् २
चिकीटयिषित्वा २।
01 (१९४)
02 (१०-चुरादिः-१६४१। अक। सेट्। उभ।)
03 [पृष्ठम्०१८९+ २५]
04 [[आ। ‘सौधे विटङ्कजुषि पश्यति धूसितोऽयं राजारिकीटबलचूर्णनयाऽतिपूज्यः। अर्क्येण तेन समरेष्वविशोठितस्त्वं संशुण्ठिताहितमदेन विजोटितोऽसि।।’ धा। का। ३-२७।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
