| YouTube Channel

कीचकजित् (kIcakajit)

 
शब्दसागरः
English
कीचकजित्
m.
(-जित्) A name of BHIMA.
E.
कीचक a goblin, and जित् who conquers.
Yates
English
कीचक-जित् (त्) 5.
m.
A name of
Bhīma, conqueror of
Kīchaka.
Spoken Sanskrit
English
कीचकजित् kIcakajit
m.
bhImasena
गुणकार guNakAra
m.
bhImasena
गुणकारक guNakAraka
m.
bhImasena
वीरसेनज vIrasenaja
m.
son of vIra-sena
वीरसेनसुत vIrasenasuta
m.
son of vIra-sena
सेनकुल senakula
n.
family of the senas
इन्द्रसेनद्वितीय indrasenadvitIya
adj.
attended by indra-sena
भीमसेनमय bhImasenamaya
adj.
consisting of bhImasena
शौरसेन zaurasena
adj.
relating to the zUra-senas
शूरसेनी zUrasenI
f.
princess of the zUra-senas
सार्वसेन्य sArvasenya
adj.
coming or derived from sarva-sena
दिवोदास divodAsa
m.
name of a descendant of bhImasena
लक्ष्मणसेन lakSmaNasena
m.
king of the sena dynasty of Eastern India
परीक्षित् parIkSit
m.
name of a son of anazvan and father of bhImasena
बल्लव ballava
m.
name assumed by bhImasena when cook to king virATa
कीचकजित् kIcakajit
m.
bhImasena
गुणकार guNakAra
m.
bhImasena
गुणकारक guNakAraka
m.
bhImasena
वीरसेनज vIrasenaja
m.
son of vIra-sena
वीरसेनसुत vIrasenasuta
m.
son of vIra-sena
सेनकुल senakula
n.
family of the senas
इन्द्रसेनद्वितीय indrasenadvitIya
adj.
attended by indra-sena
भीमसेनमय bhImasenamaya
adj.
consisting of bhImasena
शौरसेन zaurasena
adj.
relating to the zUra-senas
शूरसेनी zUrasenI
f.
princess of the zUra-senas
सार्वसेन्य sArvasenya
adj.
coming or derived from sarva-sena
दिवोदास divodAsa
m.
name of a descendant of bhImasena
लक्ष्मणसेन lakSmaNasena
m.
king of the sena dynasty of Eastern India
परीक्षित् parIkSit
m.
name of a son of anazvan and father of bhImasena
बल्लव ballava
m.
name assumed by bhImasena when cook to king virATa
Wilson
English
कीचकजित्
m.
(-जित्) A name of BHĪMA.
E.
कीचक a goblin, and जित् who conquers.
Monier Williams Cologne
English
कीचक—जित्
m.
‘conquering Kīcaka’, Bhīma-sena,
L.
Apte Hindi
Hindi
कीचकजित्
पुं*
कीचक - जित् -
द्वितीय पाण्डवराज भीम का विशेषण
Shabdartha Kaustubha
Kannada
कीचकजित्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕೀಚಕನನ್ನು ಸಂಹರಿಸಿದ ಭೀಮಸೇನ
निष्पत्तिः - > जि (जये) - "क्विप्" (३-२-६१)
व्युत्पत्तिः - > कीचकं जयति
L R Vaidya
English
kIcaka-jit {% m. %} an epithet of Bhīma, the second Pāṇḍava prince.
शब्दकल्पद्रुमः
Sanskrit
कीचकजित्,
पुं,
(कीचकं जितवान् जि + भूतेक्विप् तुक् ।) भीमसेनः इति त्रिकाण्डशेषः
(पुराकिल दुष्टात्मा कीचकः विराटभवनस्थांसैरिन्ध्रीरूपधारिणीं द्रौपदीमकामयत द्रौपदीतु तस्य कामुकस्य दुरभिसन्धिं विज्ञाय तं बहुलकटूक्त्या निर्भर्त्सयामास अथ कीचक एवमप-मानितः क्रुधा तां पदा ताडितवान् अथ सा-भिमानिनी द्रौपदी निजदुःखं भीमं निवेदया-मास भीमस्तु एतदाकर्ण्य संजातरोषः कीचकंहन्तुं मनो दधे अथ सुबुद्धिर्भीमो द्रौपदींउपदिदेश श्वो निशायां यथा दुरात्मा राज-श्यालकः मत्स्यराजशुद्धान्तकन्यानर्त्तनशालायां त्व-ल्लोभेन समुपतिष्ठेत तथाऽऽश्वास्य समयो विधी-यताम् ततस्त्वद्वेशेन तत्र सङ्गतोऽहमेनं कामार्त्तंदुष्कार्य्यस्य फलं अनुभावयामि एवं स्थिरीकृतेद्रौपदी पूर्व्वोक्तमत्त्रितं स्थानं कीचकं विज्ञापित-वतो अथ निशायां मूढबुद्धिः कामुकवेशधारीतत्रैव गतः प्रच्छन्नोपविष्टेन बलीयसा भीमेनपशुमारं निपातितः
एतद्विस्तृतिस्तु महाभा-रते २१ अध्याये द्रष्टव्या
)
वाचस्पत्यम्
Sanskrit
कीचकजित्
पु०
कीचकं जितवान् जि--भूते क्विप् भीमसेनेकीचकभिदादयोऽप्यत्र भीमेन तस्य बधकथा भा०वि० २२ अ० तत्रायं संक्षेपः कीचकधर्षितया द्रौपद्यातद्बवार्थं प्रार्थितेन भीमेन एकाकिना नाट्यशालायांत्वया रात्रौ गतेन सह मममेलनं भविष्यतीति कीचकंप्रति सङ्केतदानाय भीमेन नोदितया द्रौपद्या तथाऽनुष्ठितेभीमस्य नाट्यशालायां रात्रौ द्रौपदीस्थानीयतयाग्रेप्रवेशेतत्र कीचकगतौ तयोर्युद्धादिकमुपवर्ण्ण्य भीमेन कीच-कस्य बध होद्देदि करपाद--प्रवेशनञ्चेति वर्ण्णितं यथा“भीमोऽथ प्रथम गत्वा रात्रौ च्छन्न उपाविशत् मृगंहरिरिवादृश्यः समाकाङ्क्षत कीचकम् कीचकश्चाप्यलङ्कृत्ययथाकाममुपागमत् तां वेलां नर्त्तनागारं पाञ्चालीस-ङ्गमाशया मन्यमानः सङ्केतमागारं प्राविशत्ततः ।प्रविश्य तद्वेश्म तमसा संवृतं महत् पूर्व्वागतंगतस्तत्र भीममप्रतिमौजसम् एकान्तावस्थितं चैन-मासंसाद सुदुर्म्मतिः शयानं शयने तत्र मृत्युं सूतःपरामृशत् पतङ्गः पावकं दीप्तं सिंहं क्षुद्रपशुर्यथा ।जाज्वल्यमानं कोपेन कृष्णाधर्षणजेन उपसंगम्यचैवेनं कीचकः काममोहितः हर्षोन्मथितचित्तात्मास्मयमानोऽभ्यभाषत प्रापितं ते मया वित्तं बहुरूपमन-न्तकम् त्वत्कृते धनरत्नाद्यं दासीशतपरिच्छदम् ।रूपलावण्ययुक्ताभिर्युवतीभिरलङ्कृतम् गृहं सान्तः-पुरं सुभ्रु! क्रीडारतिविराजितम् तत् सर्व्वं त्वां समु-द्दिश्य सहसा समुप गतः आबालान्मां प्रशंसन्ति सर्व्वागृहगताः स्त्रियः सुवासा दर्शनीयश्च नान्योऽस्तित्वादृशः पुमान् भीम उवाच दिष्ट्या त्वं दर्शनीयो-ऽसि दिष्ट्यात्मानं प्रशंससि ईदृशस्तु त्वया स्पर्शःस्पृष्टपूर्व्वो कर्हिचित् स्पर्शं वेत्सि विदग्धस्त्वं काम-धर्म्मविचक्षणः स्त्रीणां प्रीतिकरो नान्यस्त्वत्समः पुरुष-स्त्विह वैशम्पायन उवाच ।इत्युक्त्वा तं महाबाहुर्भीमो भीमपराक्रमः सहसोत्पत्यकौन्तेयः प्रहस्येदमुवाच अद्य त्वां भगिनी पाप!कृष्यमाणं मया भुवि द्रक्ष्यत्यद्रिप्रतीकाशं सिंहेनेवमहाद्विपम् निराबाधा त्वयि हते सैरिन्ध्री विचरिष्य-ति सुखमेवं चरिष्यन्ति सैरिन्ध्य्राः पतयस्तथा ततोजग्राह केशेषु माल्यवत्सु महाबलः केशेषु परा-मृष्टो बलेन बलिनां वरः आक्षिप्य केशान् वेगेनबाह्वोर्जग्राह पाण्डबम् बाहुयुद्धं तयोरासीत् क्रु-द्धयोर्नरसिंहयोः वसन्ते वासिताहेतोर्ब्बलवद्गजयो-रिव कीचकानान्तु मुख्यस्य नराणामुत्तमस्य ।बालिसुग्रीवयोर्भ्रात्रोः पुरेव कपिसिंहयोः” ।ततस्तयोर्युद्धमुपवर्ण्योक्तम् “मुहूर्त्तन्तु तं वेगं सहित्वाभूरिदुःसहम् बलादहीयत तदा सूतो भीमबलार्द्दितः ।तं हीयमानं विज्ञाय भीमसेनो महाबलः वक्षस्यानीयवेगेन ममद्दैनं विचेतसम् क्रोधाविष्टो विनिश्वस्यपुनश्चैनं वृकोदरः जग्राह जयतां श्रेष्ठः केशे-ष्वेव तदा भृशम् गृहोत्वा कीचकं भीमो विरुरावमहाबलः शार्द्दूलः पिशिताकाङ्क्षी गृहीत्वेव महा-मृगम् तत एनं परिश्रान्तमुपलभ्य वृकोदरः योक्त्र-यामास बाहुभ्यां पशुं रशनया यथा नदन्तञ्च महानादंभिन्नभेरीसमस्वनम् भ्रामयामास सुचिरं विष्फुरन्तम-चेतसम् प्रगृह्य तरसा दोर्भ्यां कण्ठं तस्य वृकोदरः ।अपीडयत कृष्णायास्त्रदा कोपोपशान्तये अथ तं भग्न-सर्व्वाङ्गं व्याविद्धनयनान्तरम् आक्रम्य कटीदेशेजानुना कीचकाधमम् अपीडयत बाहुभ्यां पशुमार-ममारयत् तं विषीदन्तमाज्ञाय कीचकं पाण्डुनन्दनः ।भूतले भ्रामयामास वाक्यञ्चेदमुवाच अद्याहम-नृणो भूत्वा भ्रातुर्भार्य्यापहारिणम् शान्तिं लब्धास्मिपरमां हत्वा सैरिन्ध्रिकण्ठकम् इत्येवमुक्त्वा पुरुषप्रवीरस्तं कीचकं क्रोधसरागनेत्रः आस्रस्तवस्त्राभरणंस्फुरन्तमुद्भ्रान्तनेत्रं व्यसुमुत्सर्ज्ज निष्पिष्य पाणिनापाणिं सन्दष्टोष्ठपुटो बली समाक्रम्य संक्रुद्धोबलेन बलिनां वरः तस्य पाणी पादौ शिरोग्रीवाञ्च सर्व्वशः काये प्रवेशयामास पशोरिव पिनाक-धृक् तं सम्मथितसर्व्वाङ्गं मांसपिण्डोपमं कृतम् ।कृष्णायै दर्शयामास भीमसेनो महाबलः”