| YouTube Channel

किलासं (kilAsaM)

 
शब्दकल्पद्रुमः
Sanskrit
किलासं,
क्ली,
(किलं वर्णं अस्यति क्षिपति विकृतिंकरोति इति यावत् किल + अस + “कर्म्म-ण्यण्” इति अण् ।) रोगविशेषः ।छुली इति भाषा तत्पर्य्यायः सिध्मा इत्यमरः ।२ ५३
सिध्मम् इति भरतः
त्वक्पुष्पम्४ त्वक्पुष्पी इति हेमचन्द्रः
(“कुष्ठैकसम्भवं श्वित्रं किलासं दारुणञ्च तत् ।निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम्
वाताद्रुक्षारुणं पित्तात्ताम्रं कमलपत्रवत् ।सदाहं रोमविध्वंसि ककाच्छ्वेतं घनं गुरु
सकण्डु क्रमाद्रक्तमांसमेदः सुचादिशेत् ।वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम्
अशुक्लरोमाबहुलमसंसृष्टं मिथो नवम् ।अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा”
इति वामटे निदानस्थाने १४ अध्याये
अस्यौषधं यथा
“कुष्ठं तमालपत्रं मरिचं समनःशिलं सकाशीशम् ।तैलेन युक्तमुचितं सप्ताहं भाजने ताम्रे
तेनालिप्तं सिध्मं सप्ताहाद्व्येति तिष्ठतो घर्म्मे ।मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः”
इति सिध्मलेपः
*
“किलासहन्ता मूलान्यावल्गुजानि लाक्षा ।गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः”
इति श्वित्रे प्रलेपः
“दारुणं वारुणं श्वित्रं किलासं नामभिस्त्रिभिः ।विज्ञेयं त्रिविधं तच्च त्रिदोषं प्रायशश्च तत्
दोषे रक्ताश्रिते रक्तं ताम्रं माससमाश्रिते ।श्वेतं मेदः श्रिते श्वित्रं गुरुता चोत्तरोत्तरम्”
असाध्यलक्षणमस्य यथा, --“यत्परस्परतो भिन्नं बहु यद्रक्तलोमवत् ।यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति”
अस्य निदानं यथा, --“वचांस्यतथ्यानि कृतघ्नभावोनिन्दा भुराणां गुरुधर्षणञ्च ।पापक्रिया पूर्व्वकृतञ्च कर्म्महेतुः किलासस्य विरोधिचान्नम्”
इति चरके चिकित्सास्थाने अध्याये
)