| YouTube Channel

किलकिञ्चितं (kilakiJcitaM)

 
शब्दकल्पद्रुमः
Sanskrit
किलकिञ्चितं,
क्ली,
(किल अलीकेन किं ईषत् चितंरचितम् ।) हावः शृङ्गारभावजा क्रिया इतिजटाधरः
तस्य लक्षणम् ।यथा, अलङ्कारकौस्तुभे ।“गर्व्वाऽभिलासरुदितस्मितासूयाभयक्रुधाम् ।सङ्करीकरणं यत् स्यादुच्यते किलकिञ्चितम्”
(तथा साहित्यदर्पणे १०९ ।“स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् ।साङ्कर्य्यं किलकिञ्चितमभाष्टतमसङ्गमादिजाद्धर्षात्”
उदाहरणं तत्रैव यथा, --“पाणिरोधमविरोधितवाञ्छंभर्त्सनाश्च मधुरस्मितगर्भाः ।कामिनः स्म कुरुते करभोरुहारिशुष्करुदितञ्च सुखेऽपि”
)