किर्म्मीरजित् (kirmmIrajit)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritकिर्म्मीरजित्, (किर्म्मीरं जितवान् । जि +भूते क्विप् ।) भीमसेनः । इति त्रिकाण्डशेषः ॥
(किर्म्मीरवधकथा महाभारते ३ । ११ अध्यायेउक्ता । तद्यथा, --“प्रत्युवाचाथ तद्रक्षो धर्म्मराजं युधिष्ठिरम् ।अहं वकस्य वै भ्राता किर्म्मीर इति विश्रुतः ॥
वनेऽस्मिन् काम्यके शून्ये निवसामि गतज्वरः ।युधि निर्जित्य पुरुषानाहारं नित्यमाचरन् ॥
के यूयमभिसंप्राप्ता भक्ष्यभूता ममान्तिकम् ।युधि निर्जित्य वः सर्व्वान् भक्षयिष्ये गतज्वरः” ॥
वैशम्पायन उवाच ।“युधिष्ठिरस्तु तच्छ्रुत्वा वचस्तस्य दुरात्मनः ।आचचक्षे ततः सर्व्वं गोत्रनामादि भारत !” ॥
“किर्म्मीरस्त्वब्रवीदेनं दिष्ट्या देवैरिदं मम ।उपपादितमद्येह चिरकालान्मनोगतम् ॥
भीमसेनवधार्थं हि नित्यमभ्युद्यतायुधः ।चरामि पृथिवीं कृत्स्नां नैनञ्चासादयाम्यहम् ॥
सोऽयमासादितो दिष्ट्या भ्रातृहा काङ्क्षितश्चिरम् ।अनेन हि मम भ्राता वको विनिहतः प्रियः ॥
वेत्रकीयगृहे राजन् ! ब्राह्मणच्छद्मरूपिणा ।विद्याबलमुपाश्रित्य न ह्यस्त्यस्यौरसं बलम्” ॥
“यदि तेन पुरा मुक्तो भीमसेनो वकेन वै ।अद्यैनं भक्षयिष्यामि पश्यतस्ते युधिष्ठिर !” ॥
“एवमुक्तस्तु धर्म्मात्मा सत्यसन्धो युधिष्ठिरः ।नैतदस्तीति संक्रुद्धो भर्त्सयामास राक्षसम् ॥
ततो मीमो महाबाहुरारुल्य तरसा द्रुमम् ।दशव्याममथोद्विद्धं निष्पत्रमकरोत्तदा” ॥
“किर्म्मीरश्चापि सहसा वृक्षमुत्पाट्य पाण्डवम् ।दण्डपाणिरिव क्रुद्धः समये प्रत्यधावत” ॥
“तावन्योन्यं समाश्लिष्य प्रकर्षन्तौ परस्परम् ।उभावपि चकाशेते प्रष्टद्धौ वृषभाविव ॥
तयोरासीत्सुतुमुलः संप्रहारः सुदारुणः ।नखदंष्ट्रायुधवतोर्व्याघ्रयोरिव दीप्तयोः” ॥
“तयोर्भुजविनिष्पेषादुभयोर्बलिनोस्तदा ।शब्दः समभवद्घोरो वेणुस्फोटसमो युधि ॥
अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः ।धूनयामास वेगेन वायुश्चण्ड इव द्रुमम् ॥
स भीमेन परामृष्टो दुर्ब्बलो बलिना रणे ।व्यस्पन्दत यथा प्राणं विचकर्ष च पाण्डवम् ॥
तत एनं परिश्रान्तमुपलक्ष्य वृकोदरः ।योक्त्रयामास बाहुभ्यां पशुं रसनया यथा ॥
विनदन्तं महानादं भिन्नभेरीस्वनं बली ।भ्रामयामास सुचिरं विष्फुरन्तमचेतनम् ॥
तं विसीदन्तमाज्ञाय राक्षसं पाण्डुनन्दनः ।प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ॥
अथ जर्जरसर्व्वाङ्गं व्याविद्धनयनाम्बरम् ।भूतले भ्रामयामास वाक्यञ्चेदमुवाच ह ॥
हिडिम्बवकयोः पाप ! न त्वमश्रुप्रमार्जनम् ।करिष्यसि गतश्चापि यमस्य सदनं प्रति ॥
इत्येवमुक्त्वा पुरुषप्रवीर-स्तं राक्षसं क्रोधपरीतचेताः ।विस्रस्तवस्त्राभरणं स्फुरन्त-मुद्भ्रान्तचित्तं व्यसुमुत्ससज” ॥
* ॥
)
वाचस्पत्यम्
Sanskritकिर्म्मीरजित् किर्म्मीरं राक्षसभेदंजितवान् जि--भूते-क्विप् । मीमसेने तद्वधकथा भा० व०११ अ० यथा“प्रत्युवाचाथ तद्रक्षो धर्म्मराजं युधिष्ठिरम् । अहंवकस्य भ्राता वै किर्म्मीर इति विश्रुतः” इत्युपक्रम्य “ततोभीमो महाबाहुरासह्य तरसा द्रुमम् । दशव्याममथो-द्विद्वं निष्पत्रमकरोत्तदा । चकार सज्यं गाण्डीवं वज्रनि-ष्पेषगौरवम् । निमेषान्तरमात्रेण तथैव विजयोऽर्ज्जुनः ।निवार्य्य भीमो जिष्णुं तं तद्रक्षो मेघनिस्वनम् । अभि-द्रुत्याब्रवीद्वाक्यं तिष्ठ तिष्ठेति भारत! । इत्युक्त्वैनमभिक्रु-द्धः कक्षामुत्पीड्य पाण्डवः । निष्पिष्य पाणिना पाणिं संदष्टौष्ठपुटो बली । तमभ्यधावद्वेगेन भीमो वृक्षायुधस्तदा ।यमदण्डप्रतीकाशं ततस्तं तस्य मूर्द्धनि । पातयामासवेगेन कुलिशं मघवानिव । असंभ्रान्तन्तु तद्रक्षः समरेप्रत्यदृश्यत । चिक्षेप चोल्मुकं दीप्तमशनिं ज्वलितामिव ।तदुदस्तमलातन्तु भीमः प्रहरतां वरः । पदा सव्येनचिक्षेप तद्रक्षः पुनराव्रजत् । किर्म्मीरश्चापि सहसावृक्षमुत्पाट्य पाण्डवम् । दण्डपाणिरिव क्रुद्धः समरेप्रत्यधावत” । इत्युपक्रम्य तयोर्युद्धमुपवर्ण्य“अथैनमाक्षिप्य बलाद्गृह्य मध्ये वृकोदरः । धूनयामासवेगेन वायुचण्ड इव द्रुमम् । स भीमेन परामृष्टो दुर्व-लो वलिना रणे । व्यस्तम्भत यथाप्राणं विचकर्ष चपाण्डवम् । तत एनं परिश्रान्तमुपलभ्य वृकोदरः । यो-क्त्रयामास बाहुभ्यां पशुं रशनया यथा । विनदन्तंमहानादं भिन्नभेरीस्वनं बली । भ्रामयामास सुचिरंविष्फुरलमचेतनम् । तं विषीदन्तमाज्ञाय राक्षसं पा-ण्डुनन्दनः । प्रगृह्य तरसा दोर्भ्यां पशुमारममारयत् ।आक्रभ्य च कटीदेशे जानुना राक्षसाधमम् । षीडया-मास पाणिभ्यां तस्य कण्ठं वृकोदरः । अथ जर्ज्जर-सर्व्वाङ्गं व्याविद्धनयनाम्बरम् । भूतले भ्रामयामास वा-क्यञ्चेदमुवाच ह । हिडिम्बवकयोः पाप! न त्वमश्रुप्रमा-र्ज्जनम् । करिष्यसि गतश्चापि यमस्य सदनं प्रति । इत्येवमुक्त्रा पुरुषप्रवीरस्तं राक्षसं क्रोधपरीतचेताः । विस्र-स्तवस्त्राभरणं स्फुरन्तमुद्भ्रान्तचित्तं व्यतुमुत्सर्ज्ज” ।किर्म्मीरहादयोऽप्यत्र ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
