| YouTube Channel

किराताशी (kirAtAzI)

 
शब्दकल्पद्रुमः
Sanskrit
किराताशी, [न्]
पुं,
(किरातान् निषादान् अ-श्नातीति अश भोजने + णिनिः ।) गरुडः ।इति शब्दरत्नावली
(अस्य विवरणं यथा महा-भारते २८ अध्याये ।“इत्त्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् ।गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुम्
विनतोवाच ।समुद्रकुक्ष्यावेकान्ते निषादालयमुत्तमम् ।निषादानां सहस्नाणि तान् भुक्त्वाऽमृतमानय ।नच ते ब्राह्मणं हन्तुं कार्य्या बुद्धिः कथञ्चन”
)