| YouTube Channel

किराताशिन् (kirAtAzin)

 
शब्दसागरः
English
किराताशिन्
m.
(-शी) A name of GURUDA the bird of VISHNU.
E.
किरात a
pigmy, and अशिन् who eats.
Yates
English
किराता_शिन् (शी) 5.
m.
Garuḍa.
Wilson
English
किराताशिन्
m.
(-शी) A name of GARUḌA the bird of VIṢṆU.
E.
किरात a pigmy, and अशिन् who eats.
Monier Williams Cologne
English
किराताशिन्
m.
‘swallowing the Kirātas’,
N.
of Viṣṇu's bird Garuḍa,
L.
Apte Hindi
Hindi
किराताशिन्
पुं*
किरात-आशिन् -
गरुड़ की उपाधि
Shabdartha Kaustubha
Kannada
किराताशिन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗರುಡ
निष्पत्तिः - > अश (भोजने)- "णिनिः" (३-२-७८)
व्युत्पत्तिः - > किरातान् अश्नाति
L R Vaidya
English
kirAta-aSin {% m. %} an epithet of Garutla.
वाचस्पत्यम्
Sanskrit
किराताशिन् पु किरातानश्नाति अश--णिनि त० गरुडेशब्दर० तस्य किराताशनकथा भा० आ० २८ अ० यथा“इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् गच्छाम्यमृ-तमाहर्त्तुं भक्ष्यमिच्छामि वेदितुम् विनतोवाच स-मुद्रकुक्षावेकान्ते निषादालयमुत्तमम् निषादानां सहस्रा-णि तान् भुक्त्वाऽमृतमानय ते ब्राह्मणं हन्तुंकार्य्या वुद्धिः कथञ्चन अबध्यः सर्व्वभूतानां ब्राह्मणोह्यनलोपमः अग्निरर्को विषं शस्त्रं विप्रो भवति को-पितः गुरुर्हि सर्व्वभूतानां ब्राह्मणः परिकीर्त्तितः ।एवमादिभीरूपैस्तु सतां वै ब्राह्मणो मतः ते तात!न हन्तव्यः संक्रुद्धेनापि सर्व्वथा ब्राह्मणानामभिद्रोहोन कर्त्तव्यः कथञ्चन ह्येवमग्निर्नादित्यो भस्मकुर्य्यात्तथानघ! यथा कुर्य्यादभिक्रुद्धो ब्राह्मणः संशित-व्रतः तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम् ।भूतानामग्रभूर्व्विप्रो वर्ण्णश्रेष्ठः पिता गुरुः गरुडउवाच किंरूपो ब्राह्मणो मातः किंशीलः किंपरा-क्रमः किंस्विदग्निनिभो भाति किंस्वित् सौम्यप्रदर्शनः ।यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः तन्मे का-रणतो मातः! पृच्छतो वक्तुमर्हसि विनतोवाच यस्तेकण्ठमनुप्राप्तो निगीर्णं वडिशं यथा दहेदङ्गारवत् पुत्र!तं विद्याब्राह्मणर्षभम् विप्रस्त्वया हन्तव्यः संक्रुद्धे-नापि सर्व्वदा प्रोवाच चैनं विनता पुत्रहार्द्दादिदंवचः जठरे जीर्य्येद्यस्तं जानीहि द्विजोत्तमम् ।पुनः प्रोवाच विनता पुत्रहार्द्दादिदं वचः जानात्यप्यतुलंवीर्य्यमाशीर्व्वादपरायणा प्रीता परमदुःखार्त्ता नागै-र्व्विप्रकृता सती” “सौतिरुवाच ततः मातु-र्व्वचनं निशम्य वितत्य पक्षौ नभ उत्पपात ततोनिषादान् बलवानुपागतो वुभुक्षितः काल इवान्त-कोऽपरः तान्निषादानुपसंहरंस्तदा रजः समुद्धूयनभः स्पृशन्महत् समुद्रकुक्षौ विशोषयन् पयः स-मीपजान् भूधरजान् विचालयन् ततः चक्रे मह-दाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट् ततो नि-षादास्त्वरिताः प्रवव्रजुर्यतो मुखं तस्य भुजङ्गभोजिनः ।तदाननं विवृतमतिप्रमाणवत् समभ्ययुर्गगनमिवार्द्दिताःखगाः सहस्रशः पवनरजोविमोहिता यथाऽनिलः प्र-चलितपादपे वने ततः खगो वदनममित्रतापनः समा-हरत् परिचपलो महाबलः निसूदयन् बहुविधमत्स्य-जीविनो बुभुक्षितो गगनचरेश्वरस्तदा”