| YouTube Channel

किराततिक्तः (kirAtatiktaH)

 
Wordnet
Sanskrit
Synonyms:
भूनिम्बः, किराततिक्तः, अनार्यतिक्तः, भूतिकम्, कैरातः, रामसेनकः, हैमः, काण्डतिक्तः, किरातकः, कटुतिक्तः
noun
पर्वतप्रदेशेषु प्राप्यमाणः औषधीयक्षुपः यः एकवर्षीयः वा द्विवर्षीयः वा भवति, यस्य उन्नतिः द्व्यङ्गुलादारभ्य चतुरङ्गुलपर्यन्तं भवति।
"भूनिम्बस्य मूलरूपं नेपालदेशे प्राप्यते।"
शब्दकल्पद्रुमः
Sanskrit
किराततिक्तः,
पुं,
(किरातः भूनिम्बस्तद्वत् तिक्तः ।)वृक्षविशेषः चिराता इति भाषा तत्पर्य्यायः ।भूनिम्बः अनार्य्यतिक्तः इत्यमरः ।१४३
कैरातम् काण्डतिक्तकः इति रत्न-माला
किरातकः इति जटाधरः
चिरतिक्तः७ चिरातिक्तः तिक्तकः सुतिक्तकः १० ।इति शब्दरत्नावली
कटुतिक्तः ११ रामसेनकः१२
अस्य गुणाः वायुवृद्धिकारित्वम् रूक्षत्वम् ।कफपित्तज्वरनाशित्वञ्च इति राजवल्लभः
“किरातकोऽन्यो नैपालः सार्द्धतिक्तो ज्ज्वरान्तकः ।किरातः सारको रूक्षः शीतलस्तिक्तको लघुः
सन्निपातज्वरश्वासकफपित्तास्रदाहनुत् ।काशशोषतृषाकुष्ठञ्वरव्रणकृमिप्रणुत्”
इति भावप्रकाशः
राजनिर्घण्टोक्तगुणपर्य्यायौभूनिम्बशब्दे द्रष्टव्यौ
(“किराततिक्तममृतां द्राक्षामामलकीं शठी ।निष्क्वाथ्य पित्तानिलजे क्वाथन्तं सगुडं पिबेत्
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे
)