| YouTube Channel

किमिच्छक (kimicchaka)

 
Monier Williams Cologne
English
किम्—इच्छक
n.
what one wishes or desires, anything desired,
MBh.
xii, xiii
किम्—इच्छक
m.
N.
of a particular form of austerity (by which any object is obtained),
MārkP.
Benfey
English
किमिच्छक किमिच्छक, i. e. किम्
-इच्छा + क,
adj.
Desirable, MBh.
13, 2111.
Shabdartha Kaustubha
Kannada
किमिच्छक
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಏನು ಅಪೇಕ್ಷಿಸುವಿರಿ? /ಏನು ಬೇಕಾದರೂ ಕೊಡುವೆನು ಎನ್ನುವ ಒಂದು ವ್ರತ
व्युत्पत्तिः - > किमिच्छति इति प्रश्नेन दानार्थं कायति शब्दायते अत्र
शब्दकल्पद्रुमः
Sanskrit
किमिच्छकः,
पुं,
(किमिच्छसीति प्रश्नेन दानार्थं का-यति शब्दायतेऽत्र निपातनात् साधुः ।) व्रत-विशेषः तद्विवरणं यथा, --मार्कण्डेय उवाच ।“अथ साऽवीक्षितो माता वीरा वीरप्रजावती ।पुण्येऽहनि समाहूय प्राह पुत्त्रमवीक्षितम्
पुत्त्राहमभ्यनुज्ञाता तव पित्रा महात्मना ।उपवासं करिष्यामि दुष्करोऽयं किमिच्छकः
चायत्तस्तव पितुस्त्वया साध्यो मयापि वा ।प्रतिज्ञाते त्वया पुत्त्र ! ततस्तत्र यताम्यहम्
द्रव्यस्यार्द्धं महाकोषात् तव दास्याम्यहं पितुः ।धनं ते पितुरायत्तमनुज्ञातास्मि तेन
क्लेशसाध्यो ममायत्तः हि श्रेयो भविष्यति ।साध्यो भविष्यो यदि ते कश्चिद्बलपराक्रमैः
ते साध्योऽन्यथा वापि दुःखसाध्यो भविष्यति ।तत्त्वं प्रतिज्ञां कुरुषे यदि पुत्त्रात्र वै व्रते
तदेतदहमारप्म्ये कथ्यतां यन्मतं तव ।अवीक्षिदुवाच ।वित्तं मे पितुरायत्तं ममेशत्वं तत्र वै ।यन्मच्छरीरनिष्पाद्यं तत् करिष्ये त्वयोदितम्
किमिच्छकं व्रतं मातर्निश्चित्य भव निर्व्यथा ।राज्ञा पित्राभ्यनुज्ञातं यदि वित्तेश्वरेण मे
मार्कण्डेय उवाच ।ततः सा राजमहिषी तद्व्रतं समुपोषिता ।यथोक्तं साऽकरोत् पूजां राजराजस्य संयता
निधीनामप्यशेषाणां निधिपालबलस्य ।लक्ष्म्याश्च परया भक्त्या यतवाक्कायमानसा
विविक्ते तु गृहान्तःस्थः सोऽथ राजा करन्धमः ।आसीन उक्तः सचिवैर्नोतिशास्त्रविशारदैः
सचिवा ऊचुः ।राजन् वयःपरिणतं तवैवं शासतो महीम् ।एकस्ते तनयोऽवीक्षित् त्यक्तदारपरिग्रहः
अपुत्त्रः वने निष्ठां यदा भूप ! गमिष्यति ।तदारिपक्षं पृथिवी निश्चितं तव यास्यति
वंशक्षयस्ते भविता पितृपिण्डोदकक्षयः ।एतन्महत्ते विवरं क्रिया हान्या भविष्यति
तस्मात् कुरु तथा भूप ! यथा ते तनयः पुनः ।करोति सततं बुद्धिं पितॄणामुपकारिणीम्
श्रीमार्कण्डेय उवाच ।एतस्मिन्नन्तरे शब्दं शुश्राव जगतीपतिः ।पुरोहितस्य वीराया गदतोऽर्थिजनं प्रति
कः किमिच्छति दुःसाध्यं कस्य किं साध्यतामिति ।करन्धमस्य महिषी किमिच्छकमुपोषिता ।राजपुत्त्रोऽप्यवीक्षित्तु श्रुत्वा पौरोहितं वचः ।प्रत्युवाचार्थिनः सर्व्वान् राजद्वारमुपागतान्
मया साध्यं शरीरेण यस्य किञ्चित् ब्रवीतु सः ।मम माता महाभागा किमिच्छकमुपोषिता
शृण्वन्तु मेऽर्थिनः सर्व्वे प्रतिज्ञातं मयात्र ।किमिच्छथ ददाम्येष क्रियमाणे किमिच्छके
मार्कण्डेय उवाच ।ततो राजा निशम्यैतत् वाक्यं पुत्त्रमुखाच्च्युतम् ।समुपेत्याब्रवीत् पुत्त्रमहमर्थी प्रयच्छ मे
अवीक्षिदुवाच ।दातव्यं यन्मया तात ! भवते तद्ब्रवीहि माम् ।कर्त्तव्यं दुष्करं वा ते साध्यं दुःसाध्यमेव
राजोवाच ।यदि सत्यप्रतिज्ञस्त्वं ददासि किमिच्छकम् ।पौत्त्रस्य दर्शय मुखं ममोत्सङ्गगतस्य तत्
अवीक्षिदुवाच ।अहं तवैव तनयो ब्रह्मचर्य्यञ्च मे नृप ! ।न मे पुत्त्रोऽस्ति पौत्त्रस्य दर्शयामि कथं मुखम्
राजोवाच ।पापाय ब्रह्मचर्य्यं ते यदिदं धार्य्यते त्वया ।तस्मात्त्वं मोचयात्मानं मम पौत्त्रं प्रदर्शय
अवीक्षिदुवाच ।विरमास्मान्महाराज ! यदन्यत्तत् समादिश ।वैराग्येण मया त्यक्तः स्त्रीसम्भोगस्तथा रसः
राजोवाच ।बहुभिर्युध्यमानस्य दृष्टो वैरिभिर्ज्जयः ।तत्रापि यदि वैराग्यमुपैषि तदपण्डितः
किं वा नो बहुनोक्तेन ब्रह्मचर्य्यं परित्यज ।मातुस्त्वमिच्छया वक्त्रं पौत्त्रम्य मम दर्शय
भार्कण्डेय उवाच ।यदा बहुशस्तेन प्रोक्तः पत्त्रेण पार्थिवः ।नान्यत् प्रार्थयते किञ्चित् तदा पुत्त्रोऽब्रीत् पुनः
दत्त्वा किमिच्छकं तुभ्यं प्राप्तोऽहं तात ! सङ्कटम् ।तत् करिष्यामि निर्लज्जोभूयो दारपरिग्रहम्
स्त्रियाः समक्षं विजितः पतितो धरणीतले ।स्त्रीपतिर्भविता भूयस्तातैतदतिदुष्करम्
तथापि किं करोम्येष सत्यपाशवशङ्गतः ।करिष्यामि यथात्थ त्वं भुज्यतां निजशासनम्”
इति श्रीमार्कण्डेयपुराणे अवीक्षिच्चरितनामा-ध्यायः
वाचस्पत्यम्
Sanskrit
किमिच्छक
त्रि०
किमिच्छसि किमिच्छसीति पृच्छति पृषो० ।किमिच्छसि किमिच्छसीति प्रश्नकारके भोजनाद्यर्थमाह्वा-नाय नियुक्ते भृत्यादौ “सुमनोमोदकै रत्नैर्हिरण्येनच भूरिणा गोभिर्वस्त्रैश्च राजेन्द्र! विविधैश्चकिमिच्छकैः”भा० शा० ३८ “किमिच्छसि किमिच्छसीतिप्रश्नकारकैर्भृत्यैःविविधैर्गोवस्त्रादिभिर्निमन्त्रयद्भिः” नीलक० किमिच्छसीतिप्रश्चेन दानार्थं कायति शब्दायतेऽत्र पृषो० मार्कण्डेयपु-राणीक्ते व्रतभेदे
पु०
तद्व्रते हि “पुरोहितस्य वीराया-(तन्नामराजमहिष्याः) वदतोऽर्थिजनं प्रति कः किमि-च्छति दुःसाध्यम् कार्य्यं किंसाध्यतामिति करन्धमस्यमहिषी किमिच्छकमुपोषिता राजपुत्रोऽप्यविक्षित्तु श्रुत्वापौरोहितं वचः प्रत्युवाचार्थिनः सर्व्वान् राजद्वारमु-पागतान् मया साध्यं शरीरेण कार्य्यं किञ्चित् ब्रवीतुमे मम माता महाभागा किमिच्छकमुपोषिता शृण्वन्तुमेऽर्थिनः सर्व्वे प्रतिज्ञातं मयात्र वै किमिच्छथ ददाम्येवंक्रियमाणे किमिच्छके” अर्थिनोऽभिलाषानुरूपदानार्थकेच्छाप्रश्नपूर्व्वकं तद्दानं विहितमिति तस्य तथात्वम् ।३ इच्छाविषयप्रश्नपूर्व्वकेष्टेच्छानुरूपदेयमात्रेऽपि “प्रतिश्रयान् सभाः कूपान् प्रपाः पुष्करिणीस्तथा नैत्यकानिच सर्व्वाणि किमिच्छकमतीव च” भा० शा०६६८५ श्लो०