| YouTube Channel

कित (kita)

 
शब्दसागरः
English
कित r. 1st cl. (चिकित्सति)
1. To cure, to administer remedies, to practise
physic.
2. To remove, to destroy.
3. To chastise.
4. (Usually with
वि prefixed, ) To doubt
this root is regular. r. 3rd cl. (चिकेति) To
know. r. 10th cl. (केतयति)
1. To dwell.
2. To desire
some authori-
ties make it a regular root of the 1st cl. in these senses, and others
deny its admitting of any conjugation.
Wilson
English
कित r. 1st cl. (चिकित्सति)
1 To cure, to administer remedies, to practise physic.
2 To remove, to destroy.
3 To chastise.
4 (Usually with वि prefixed, ) To doubt
this root is regular. r. 3rd cl.
(चिकेति) To know. r. 10th cl. (केतयति)
1 To dwell.
2 To desire
some authorities make it a regular root of the 1st cl. in these
senses, and others deny its admitting of any conjugation.
Monier Williams Cologne
English
कित
m.
N.
of a man g. अश्वादि.
Monier Williams 1872
English
कित कित, अस्, m., N. of a man.
Kridanta Forms
Sanskrit
कि (कि॒ ज्ञाने - जुहोत्यादिः - अनिट्)
ल्युट् = कयनम्
अनीयर् = कयनीयः - कयनीया
ण्वुल् = कायकः - कायिका
तुमुँन् = केतुम्
तव्य = केतव्यः - केतव्या
तृच् = केता - केत्री
क्त्वा = कित्वा
ल्यप् = प्रकित्य
क्तवतुँ = कितवान् - कितवती
क्त = कितः - किता
शतृँ = चिक्यत् / चिक्यद् - चिक्यती
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कित्
मूलधातुः:
कित
धात्वर्थः:
निवासे, रोगापनयने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
चिकित्सति
अनुबन्धादिविशेषः:
निवासार्थे- केतति इति वोपदेवः
धातुप्रदीपः
Sanskrit
कितँ कित निवासे, रोगापनयने
- चिकित्सति सङ्केतः निकेतनम् ।। 1001।।
शब्दकल्पद्रुमः
Sanskrit
कित संशये इच्छायां वासे आरोग्ये इतिकविकल्पद्रुमः
(भ्वां-परं-अकं-सकञ्च-सेट् ।)विचिकित्सति मनः सशेते इत्यर्थः आरोग्येचिकित्सत्यातुरं वैद्यः इच्छानिवासयोस्तु केत-तीति वोपदेवः
तत्र तिवादयो प्रयुज्यन्ते ।इति रमानाथः
इति वनितामेतां हन्तुं मनोविचिकित्सते इति तु अन्तर्भूतञ्यर्थतया कर्म्म-कर्त्तरि सन्श्रन्थग्रन्थैत्यादिना यक्निपेधे सि-द्धम् इति दुर्गादासः
कित लि मतौ इति कविकल्पद्रुमः
(ह्वादिं-परं-सकं-सेट् ।) वैदिकः लि चिकेत्ति इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
कित संशये रोगापनयने चा०
पर०
सक०
सेट् एतदर्थे स्वा-र्थेसन् चिकित्सति चकित्सीत् चिकित्सा चिकित्-सितुम् चिकित्सितः वासे अक० सन् इच्छायां
सक०
सन् केतति अकेतीत् केतनं केतुः
कित ज्ञाने जुहो०
पर०
सक०
सेट् वैदिकोऽयम् चिकित्तिअकेतीत् “यं नोअचिकेत् चित्रभानो” ऋ०१०, ५१, ३,
कित
पु०
कित--क ।? ऋषिभेदे तस्य गोत्रापत्यम् अश्वादि०फञ् कैतायन तद्गोत्रापत्ये पुं स्त्री०
क्षीरतरङ्गिणी
Sanskrit
कितँ कित निवासे, रोगापनयने
- गुप्तिज (315) इत्युत्पत्तौ सन्-चिकित्सति चकरात् संशये च-विचिकित्सति निवासे नास्ति केतति केतनम् संकेतः केतुः केतकी चुरादौ केत निश्रावणे (10277) संकेतयति 964
कितँ कित ज्ञाने
- चिकेति, चेकितानि कितवः, किं तवास्तीति वा उः-केतुः (द्र0 उ0 174) केतनम् भ्वादौ कित निवासादौ (1720) केतति, चिकित्सति चुरादौ (10277) केतयति 20
धातुवृत्तिः
Sanskrit
कितँ कित (अर्थः) निवासे, रोगापनयने
अयमुदात्तेत् गुपिवदयमपि नित्यसन्नन्तः ( चिकित्सति ) "गुप्तिच्'' सन् अस्य सनो ऽनार्द्धधातुकत्वान्नेष्टःप्रसङ्गो नापि गुणस्य अत्र वृत्तौ व्याधिप्रतीकारे सनिति यदुक्तं तदुपलक्षणं, यतः स्वयमेव "क्षेत्रियच् परक्षेत्रे चिकित्स्यः'' इत्यत्र निग्रहापयननाशनाद्यर्थान् वक्ष्यति, तथा एवं विद्वान्विचिकित्सतीत्यादौ संशयेऽपिप्रयुज्यते, निघण्टुरपि-विचिकित्सा तु संशय'' इति ( चिकित्सिषति इच्छासनन्तादेव सन्प्रतिषेधः, केतयतीति चौरादिकस्य अत्राभरणकारो गुपादिसूत्रे गुप्तिज्किद्भ्य इत्यनुक्रम्यगुपादिष्वनुबन्धकरणमात्मनेपदार्थमिति भाष्ये वार्त्तिके चोक्तत्वात्कित् परस्मैपदिषु पठितोऽपिआत्मनेपदी नाच गुपादिष्विति बहुवचनं वक्ष्यमाणमर्थापेक्षमिति वक्तुं युक्तं, यतस्तु खलु तत्र गुप्तिज्किदित्यनुक्रम्य गुपादिष्वित्युक्तमित्याह कैयटे तु क्रमदर्शनाय कितिः पठितो त्वयमनुदात्तेदिति हरदत्तोऽपि गुपादिष्विति बहुवचनं मान्बधसूत्राभिप्रायं कितिस्तु परस्मैपदीत्याह इन्दुरपि गुप्तिजावनुदात्तेत्तौ कितिः, तस्य चिकित्सतीत्येव प्रयोग इति, एवं स्वामिकाश्यपादयोऽपि एवं बहुवचनं मान्बधसूत्राभिप्रायम्, एवं बहुभिर्महान्ग्रन्थैर्विरोधात्परस्मैपदिषु पाठाच्चाभरणाद्युक्तं यर्त्किचित् ( 1 ) ( 1 ) चिन्त्यमिति 2 पु पा973
कृदन्तरूपमाला
Sanskrit
1 {@“कित निवासे रोगापनयने च”@} 2 3 निवासरूपार्थे ‘केतन्’ 4 इति रूपमिति क्षीरस्वामी।
‘अर्थान्तरेऽन- नुबन्धकाश्चुरादयः’ इति सिद्धान्तकौमुद्यामुक्तम्।
तत्तु काशिकावृत्त्याद्यनु- सारेणेति बोध्यम्।]] 5 चिकित्सकः-त्सिका, चिकित्सकः-त्सिका, 6 चिकित्सिषकः-षिका, 7 केतकः-तिका
8 चिकित्सिता-त्री, 9 चिकित्सयिता-त्री, चिकित्सिषिता-त्री, केतयिता-त्री
10 चिकित्सन्-न्ती, चिकित्सयन्-न्ती, चिकित्सिषन्-न्ती, केतयन्-न्ती
चिकित्सिष्यन्-न्ती-ती, चिकित्सयिष्यन्-न्ती-ती, चिकित्सिषिष्यन्-न्ती-ती, केतयिष्यन्-न्ती-ती
-- चिकित्सयमानः, चिकित्सयिष्यमाणः, केतयमानः, केतयिष्यमाणः
11 चिकित्-चिकित्सौ-चिकित्सः
-- -- चिकित्सितम्-तः, चिकित्सितः-तम्, चिकित्सिषितः, केतितः-तवान्
12 चिकित्सुः, चिकित्सयिषुः, चिकित्सिषिषुः, केतः
चिकित्सितव्यम्, चिकित्सयितव्यम्, चिकित्सिषितव्यम्, केतयितव्यम्
चिकित्सनीयम्, चिकित्सनीयम्, चिकित्सिषणीयम्, केतनीयम्
विचिकित्स्यम्, चिकित्स्यम्, चिकित्सिष्यम्, केत्यम्
ईषच्चिकित्सः-दुश्चिकित्सः-सुचिकित्सः
-- चिकित्स्यमानः, चिकित्स्यमानः, चिकित्सिष्यमाणः, केत्यमानः
चिकित्सः, चिकित्सः, चिकित्सिषः, केतः
चिकित्सितुम्, चिकित्सयितुम्, चिकित्सिषितुम्, केतयितुम्
13 14 विचिकित्सा, चिकित्सना, चिकित्सिषा, केतना
चिकित्सनम्, चिकित्सनम्, चिकित्सिषणम्, केतनम्, 15 निकेत्तनम्
चिकित्सित्वा, चिकित्सयित्वा, चिकित्सिषित्वा, केतयित्वा
विचिकित्स्य, विचिकित्स्य, विचिकित्सिष्य, विकेत्य
चिकित्सम् २, चिकित्सित्वा २, चिकित्सम् २, चिकित्सयित्वा २, चिकित्सिषम् २, चिकित्सिषित्वा २, केतम् २, केतयित्वा २।
प्रासङ्गिक्यः
01
=>
(१९२)
02
=>
(१-भ्वादिः-९९३। सक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(केतति)
05
=>
[[३। ‘गुप्तिज्किद्भ्यस्सन्’ (३-१-५) इति स्वार्थे सन् ‘कितेर्व्याधिप्रतीकारे निग्रहे अपनये नाशने संशये च’ (वा। ३-१-५) इत्येतेष्वर्थेषु भवति। अन्यस्मिन्नर्थे तु चुरादिर्वेदितव्यः।]]
06
=>
[[४। स्वार्थसन्नन्तादिच्छासनि इदं रूपम्। ‘सन्नन्तान्न सनिष्यते--’ (भाष्येष्टिः-- ३-१-७) इति तु इच्छासन्नन्तादिच्छासन् न। स्वार्थसन्नन्तात् स्यादेवेत्यर्थकम्।]]
07
=>
[[५। ण्यन्तात् इमानि रूपाणि।]]
08
=>
[पृष्ठम्०१८६+ १५]
09
=>
[[१। स्वार्थसन्नन्ताण्णिचि तृच्ययादेशे रूपम्। एवमुत्तरत्रापि।]]
10
=>
[[आ। ‘मोहं चिकित्सन् वचसाऽस्य कृष्णः दीदांसुचित्तस्य सुविस्मितस्य।’ धा। का। २-४१।]]
11
=>
[[२। ‘संयोगान्तस्य लोपः’ (८-२-२३) इति सलोपे रूपमिदम्।]]
12
=>
[[३। ‘सनाशंसभिक्ष उः’ (३-२-१६८) इत्युप्रत्ययः ताच्छीलिकः।]]
13
=>
[पृष्ठम्०१८७+ २०]
14
=>
[[१। विपूर्वककितधातोः संशयार्थकत्वं कोशबलाल्लभ्यते। ‘विचिकित्सा तु संशयः’ इत्यमरः।]]
15
=>
[[आ। ‘प्रबोधकाले शतमन्युविद्विषः प्रचकमे राजनिकेतनं प्रति।।’ भ। का। ११-३८। ‘गृहं गोहोदवसितं बेश्म सद्म निकेतनम्।’ इत्यमरः।]]