| YouTube Channel

कासृ (kAsR)

 
Shabdartha Kaustubha
Kannada
कासृ - शब्दकुत्सायाम् (भ्वा० आत्म० अक० से०) कासते
पदविभागः - > धातुः
कन्नडार्थः - > ಕೆಟ್ಟ ಶಬ್ದ ಮಾಡು /ಕೆಮ್ಮು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कास्
मूलधातुः:
कासृ
धात्वर्थः:
शब्दकुत्सायाम्
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
कासते
धातुप्रदीपः
Sanskrit
कासृँ कासृ शब्दकुत्सायाम्
- कासते कासाञ्चक्रे कासो रोगः। रोगाख्यायां ण्वुल् बहुलम् (33108) ।उत्कासिका ।। 624 ।।
क्षीरतरङ्गिणी
Sanskrit
कासृँ कासृ शब्दकुत्सायाम्
-(अर्थविवरणम्) शब्दस्य कुत्सा रोगित्वात्
कासते कास्प्रत्ययादाम् (3135) कासाञ्चक्रे कासः विकासः कसतेः (1601) 615
धातुवृत्तिः
Sanskrit
कासृँ कासृ (अर्थः) शब्दकुत्सायाम्
( कासते कासां चक्रे ) "कास्प्रत्यया"इत्याम् ( कासिता कासिष्यते कासताम् अकासत कासेत कासिषीष्ट अकासिष्ट चिकाषते चाकास्यते ) लोटि हेर्धिभावे "धिच'' इति सलोपे चकाधि "धिच इत्यत्र भाष्ये सिजपेक्ष्यते लङि तिपिहल्ङ्यादिलोपे प्रत्ययलक्षणेनतिप्स्वरत्वात् ( सूत्रम्) तिष्यनस्तेः (इति सूत्रम्) इति अस्तिवर्जितस्य सान्तस्य पदस्य तिपि परे दकार इति दकारे तस्य चर्त्वे ( अचकात् ) सिपि तु ( सूत्रम्) सिपि धातोरुर्वा (इति सूत्रम्) इति सान्तस्य अस्तिवर्जितस्य धातोः पदस्य पक्षे रुत्वे (अचकाः) इत्यपि भवति ( कासयति अचकासत ) ऋदित्त्वान्नोपधाह्रस्वः (कासः) "हलश्च'' इति संज्ञायां घञ् (कासारः) औणादिको बहुलाकादारः (कासूः शक्तिः कासूतरी ) "कासूगोणीभ्यां ष्टरच्'' इति अल्पत्वे द्योत्ये ष्टरच् षित्त्वात् ङीष् अस्मादेवच निर्देशादूकारप्रत्ययःकसतीति ज्वरादौ गत्यर्थः कस इति गतिशासनयोरादिकस्य तत्रधान्ये निदित्यादिना ऊः ( कसूः ) इत्याहुः अन्ये तु तालव्यान्त पठन्ति (कशूरिति) 614
कृदन्तरूपमाला
Sanskrit
1 {@“कासृ शब्दकुत्सायाम्”@} 2 ‘शब्दस्य कुत्सा रोगित्वात्।’ इति क्षीरतरङ्गिणी।
कासकः-सिका, कासकः-सिका, चिकासिषकः-षिका, चाकासकः-सिका
कासिता-त्री, कासयिता-त्री, चिकासिषिता-त्री, चाकासिता-त्री
-- कासयन्-न्ती, कासयिष्यन्-न्ती-न्ती
-- कासमानः, कासयमानः, चिकासिषमाणः, चाकास्यमानः
कासिष्यमाणः, कासयिष्यमाणः, चिकासिषिष्यमाणः, चाकासिष्यमाणः
3 प्रकाः-प्रकासौ-प्रकासः
-- -- कासितम्-तः, कासितः-तम्, चिकासिषितः, चाकासितः-तवान्
कासः, कासः, चिकासिषुः, चिकासयिषुः, चाकासः
कासितव्यम्, कासयितव्यम्, चिकासिषितव्यम्, चाकासितव्यम्
4 कासनीयम्, कासनीयम्, चिकासिषणीयम्, चाकासनीयम्
कास्यम्, कास्यम्, चिकासिष्यम्, चाकास्यम्
ईषत्कासः-दुष्कासः-सुकासः
-- -- कास्यमानः, कास्यमानः, चिकासिष्यमाणः, चाकास्यमानः
5 कासः, कासः, चिकासिषः, चाकासः
कासितुम्, कासयितुम्, चिकासिषितुम्, चाकासितुम्
कासा, कासना, चिकासिषा, चिकासयिषा, चाकासा
निष्कासनम्, कासनम्, चिकासिषणम्, चाकासनम्
कासित्वा, कासयित्वा, चिकासिषित्वा, चाकासित्वा
विकास्य, विकास्य, विचिकासिष्य, प्रचाकास्य
कासम् २, कासित्वा २, कासम् २, कासयित्वा २, चिकासिषम् २, चिकासिषित्वा २, चाकासम्
चाकासित्वा २।
प्रासङ्गिक्यः
01
=>
(१८८)
02
=>
(१-भ्वादिः-६२। सक। सेट्। आत्म।)
03
=>
[[१। ‘ससजुषो रुः’ (८-२-६६) इति रुत्वे ‘खरवसानयोर्विसर्जनीयः’ (८-३-१५) इति विसर्गः।]]
04
=>
[पृष्ठम्०१८३+ २६]
05
=>
[[१। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। कासः = कासरोगः।]]