| YouTube Channel

कासमर्द्दः (kAsamarddaH)

 
शब्दकल्पद्रुमः
Sanskrit
कासमर्द्दः,
पुं,
(कासं मृद्गाति कास + मृद् + “कर्म्म-ण्यण्” इति अण् ।) पेषितजलमिश्रितवस्त्रगलितवेसवारः इति पाकराजेश्वरः
कासुन्दी इति ख्यातः गुल्मभेदः इत्यमरभरतौ
काल कासुन्दा इति भाषा
शेषस्य पर्य्यायः ।अरिमर्द्दः कासारिः कासमर्द्दकः कालः ५कनकः जरणः दीपनः अस्य गुणाः ।तिक्तत्वम् उष्णत्वम् मधुरत्वम् कफवाता-जीर्णकासपित्तनाशित्वम् पाचकत्वम् कण्ठ-शोधनत्वञ्च इति राजनिर्घण्टः
अग्निदीपन-त्वम् स्वादुत्वञ्च इति राजवल्लभः
अस्य पत्र-गुणाः रुचिकारित्वम् शुक्रवर्द्धकत्वम् कास-विषरक्तकफवातपित्तनाशित्वम् मधुरत्वम् पा-चनत्वम् कण्ठशोधनत्वम् लधुत्वम् विशेषतःकासहरत्वम् ग्राहकत्वञ्च इति राजनिर्घण्टः